________________
१७१८
• कथञ्चिन्नित्यपक्षे प्रत्यभिज्ञादिसम्भवः • द्वात्रिंशिका-२५/१० सिद्धेः, उक्तोभयैकस्वभावत्ववत्पूर्वाऽपरकालसम्बन्धैकस्वभावत्वस्याऽप्यविरोधात् ।
इत्थमेव प्रत्यभिज्ञा-क्रियाफलसामानाधिकरण्यादीनां निरुपचरितानामुपपत्तेरिति निर्लोठितमन्यत्र । विरोधादिति नाऽन्वयसिद्धिरिति शङ्कनीयम्, उक्तोभयैकस्वभावत्ववत् = पूर्वक्षणनिवृत्ति-सदृशोत्तरक्षणोभयजननैकस्वभावत्वस्येव पूर्वाऽपरकालसम्बन्धैकस्वभावत्वस्याऽपि = पूर्वोत्तरविरुद्धकालद्वयाऽनुयोगिकसम्बन्धशाल्येकस्वभावत्वस्याऽपि आत्मनि अनुभूयमानत्वेन अविरोधात = विरोधप्रच्यवात् । तदुक्तं योगबिन्दौ → इत्थं द्वयैकभावत्वे न विरुद्धोऽन्वयोऽपि हि । व्यावृत्त्याद्येकभावत्वयोगतो भाव्यतामिदम् ।। (यो.बि.४७१) इति ।
युक्तञ्चैतद्, इत्थमेव = पूर्वाऽपरकालसम्बन्धैकस्वभावत्वाऽङ्गीकार एव प्रत्यभिज्ञा-क्रियाफलसामानाधिकरण्यादीनां निरुपचरितानां = मुख्यानां उपपत्तेः। तथाहि → दर्शन-स्मरणसम्भवं 'तदेव तत्सदृशं तद्विलक्षणं तत्प्रतियोगी'त्यादि सङ्कलनं प्रत्यभिज्ञानम् + (प्र.मी.२/४) इति प्रमाणमीमांसाव्यावर्णितायाः → अनुभवस्मृतिहेतुकं तिर्यगूचंतासामान्यादिगोचरं सड्कलनात्कं ज्ञानं = प्रत्यभिज्ञानम् - (प्र.न.त.३/५) इति प्रमाणनयतत्त्वालोकालङ्कारसूत्रसूत्रितायाः ‘योऽहमन्वभवं सोऽहं स्मराम्यधुने'त्येवमादिरूपाया अनुपचरितायाः प्रत्यभिज्ञाया निरन्वयाऽऽत्मनाशपक्षेऽनुपपत्तिः स्यात् । पूर्वोत्तरतत्तेदन्तास्वभावभेदाऽनुविद्धस्यैवोर्ध्वतासामान्याऽऽख्याऽभेदस्य प्रत्यभिज्ञया विषयीकरणात् सैवाऽऽत्मनो नित्याऽनित्यत्वे मानमिति (शा.वा.६/३७) व्यक्तं स्याद्वादकल्पलतायाम् । तदुक्तं अध्यात्मसारेऽपि → एकताप्रत्यभिज्ञानं क्षणिकत्वञ्च बाधते। 'योऽहमन्वभवं सोऽहं स्मरामी'त्यवधारणात् ।। - (अ.सा.१३/३८) इति । अभ्युपगम्यमानं सद् आस्तिक्यसम्पादकं क्रियाफलसामानाधिकरण्यं तु ‘य एव करोति स एव भुङ्क्ते' इति न्यायेन लोकविदितं नैकान्तक्षणिकाऽऽत्मनि घटते। तदुक्तं न्यायतात्पर्यटीकायामपि → य एव कर्मणः कर्ता स एव तत्फलस्य भोक्तेति सर्वैरास्तिकपथानुसारिभिरभ्युपेयम् + (न्या.ता.टी.पृष्ठ-४०३) इति । प्रतियन्ति च लोका अपि नित्याऽनित्यत्वं वस्तुनः, 'घटरूपेण मृद्रव्यं नष्टं मृद्रूपेण न नष्टम्', 'घटत्वेन घटो नष्टो न तु मृत्त्वेने'त्यादिरूपेण | सांवृतसन्ततिकल्पनया तदुपपादनेऽपि निरुपचरितप्रत्यभिज्ञोपपत्तिस्तु बौद्धानां गगनचर्वणप्रयासाऽनुकारिणी। पूर्वं वादद्वात्रिंशिकोक्तं(भाग-२ पृ.६१७)अपीहानुसन्धेयम् ।
किञ्चैकान्तक्षणिकत्वपक्षे यः कुशलाऽकुशलक्रियाः करोति स न तत्फलं स्वर्ग-नरकादिलक्षणं भुङ्क्ते, क्रियोत्तरक्षणे निरन्वयविनष्टत्वात् किन्त्वन्य एवेति क्रिया-तज्जन्यफलयोः सामानाधिकरण्यमनुपचरितमेकान्ताऽनित्यपक्षेऽनुपपन्नमेव । न हि पूर्वाऽपरकालाऽव्यापिनः क्षणिकस्याऽऽत्मनः प्राक् सदसत्क्रियाकरणेऽपि कालान्तरभाविफलभोक्तृत्वं सम्भवति। नित्याऽनित्याऽऽत्मपक्षे तु ध्रौव्याऽपराभिधानस्याऽन्वતેમ પૂર્વકાળ અને ઉત્તરકાળ એમ બે વિરોધી કાળની સાથે સંબંધ ધરાવવાનો એક સ્વભાવ આત્મામાં માન્ય કરવામાં પણ કોઈ વિરોધ બૌદ્ધને કે બીજા કોઈને નડી શકે નહિ.
છે એનંતક્ષણિક વાદમાં પ્રત્યભિજ્ઞા વગેરે અસંગત - જૈન હ ___ इत्थ. । भाम पूर्वोत्तरालव्यापी. मे ४ मात्मानो स्वी२ ७२वामां आवे तो ४ निरुपयरित પ્રત્યભિજ્ઞા, શુભાશુભ ક્રિયા અને ફળનું સામાનાધિકરણ્ય વગેરે સંગત થઈ શકે. આ પ્રમાણે બૌદ્ધમતનું અન્યત્ર નિરાકરણ કરવામાં આવેલ છે. (વિશેષાર્થમાં આની સ્પષ્ટતા અમે કરશું.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org