________________
• बौद्धदर्शनेऽपि कर्मस्वीकार: •
स्याऽऽत्मनो नाशात् अन्यस्याऽनन्तरक्षणस्याऽप्रसिद्धितः (= अन्याऽप्रसिद्धितः) आत्माश्रयाऽनुष्ठानफलाद्यनुपपत्तेः । अन्यथा = भावादेव भावाऽभ्युपगमे उत्तरकार्यं प्रत्यङ्गभावेन परिणामभावेन अविच्छेदतः (=उत्तरकार्याङ्गभावाऽविच्छेदतः) अन्वयात् पूर्वक्षणस्यैव कथञ्चिदभावीभूतस्य तथापरिणमने क्षणद्वयाऽनुवृत्तिध्रौव्यात् । सर्वथाऽसतः खरविषाणादेरिवोत्तरभावपरिणमनशक्त्यअन्यस्य = क्षणदृष्ट- नष्टभिन्नस्य अनन्तरक्षणस्य = अव्यवहितोत्तरक्षणाऽन्वयिन आत्मनो विरहेण वन्ध्यासुतादिसमेन अप्रसिद्धितः प्रमाविषयत्वाऽभावतः कारणात् आत्माश्रयाऽनुष्ठानफलाद्यनुपपत्तेः पूर्वाऽपरक्षणव्याप्यात्माधिकरणक-कुशलाऽकुशलाऽनुष्ठानसाध्यस्वर्गादि-नरकादिलक्षणफलगोचरप्रसिद्धव्यवस्थाभङ्गाऽऽपातात् । न चैतत् सौगतानामिष्टम्, कृष्ण-शुक्लादिकर्मणां तैरभ्युपगतत्वात्। प्रकृते → अत्थि पुण्ण ! कम्मं कण्हं कण्हविपाकं, अत्थि पुण्ण ! कम्मं सुक्कं सुक्कविपाकं, अत्थि पुण्ण ! कम्मं कण्हसुक्कं कण्ह-सुक्कविपाकं, अत्थि पुण्ण ! कम्मं अकण्हं असुक्कं अकण्ह-सुक्कविपाकं कम्मक्खयाय संवत्तति ← (म.नि.भा.२/२-१-८१- पृ. ५९, दी. नि. ३ | १० | ३१२ ) इति मज्झिमनिकायदीघनिकायवचनं प्रागुक्तं (द्वा. द्वा. १६ । १ भाग - ४ पृ. १०९२) स्मर्तव्यम् । अंगुत्तरनिकायेऽपि कृष्णादिकर्मणां नरकादिगमन प्रतिपादनमात्माऽनभ्युपगमे कथमपि नोपपद्यते । इत्थञ्च निरन्वयक्षणभङ्गुरैकतत्त्ववादिनां बौद्धानामात्माश्रयाऽनुष्ठानसाध्यफलाद्युपपत्तिप्रयासः स्वाऽपत्यार्थिन्यै स्वपत्न्यै 'मृतोऽहं तेऽपत्यमुत्पादयिष्यामी 'ति नपुंसकपतिप्रदत्तप्रत्युत्तरतुल्योऽवसेयः । न ह्यत्यन्ताऽसतः कालान्तरे कोऽपि भावलवः प्रादुर्भवति । ततश्च → यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता । यदनत्ता तं नेतं मम, नेसोऽहमस्मि न मेसो अत्ता ।। ← (सं.नि.४ / ३५/१) इति मुक्तिमार्गदर्शकतयाऽभिमतं संयुत्तनिकायवचनं व्यर्थमेव स्यात् । विपक्षबाधमाह- अन्यथा = भावादेव पूर्वतनाद् भावाऽभ्युपगमे = उत्तरकालीनभावान्तरनिष्पत्तिस्वीकारे तु उत्तरकार्यं = सदसदनुष्ठानाद्युत्तरकालीनस्वर्गाऽपवर्ग-नरकादिलक्षणं भावकार्यं प्रति परिणामिभावेन परिणम्य-परिणामकभावेन हेतुना अविच्छेदतः अनुच्छेदभावतः पूर्वक्षणस्यैव अव्यवहितपूर्विलक्षणवर्तिनः एव कथञ्चिद् = ध्वंसप्रतियोगिताऽवच्छेदकरूपेण अभावीभूतस्य = विनष्टस्य सतः तथापरिणमने उत्तरक्षणाऽवच्छेदेन कार्यतया भवने क्षणद्वयाऽनुवृत्तिध्रौव्यात् = क्षणद्वितयव्याप्यन्वयाऽवश्यम्भावात् । यदि सर्वथा क्षणिक एवाऽयमात्मा स्यात् तदा तस्य द्वितीयक्षणे सर्वथा एव उच्छेदेन उत्तरभावकार्यहेतोः असतः = एकान्तेनैव अविद्यमानस्य खरविषाणादेरिव उत्तरभावपरिणमनशक्त्यभावात् अव्यवहितोઉત્તર ક્ષણ સાથે સંકળાયેલ અન્ય કોઈ પદાર્થ હાજર ન રહેવાથી આત્માને આશ્રયીને થતી આરાધના-સાધનાના ફળ વગેરે અસંગત બની જશે. કારણ કે અભાવમાંથી = સર્વથા શૂન્યમાંથી કશું સર્જન થઈ ન શકે. अन्यथा. । भे खावुं मानवामां न आवे अर्थात् 'भावमांथी ४ हो पाए। भावात्मक अर्थ उत्पन्न થઈ શકે’ એવું માનવામાં આવે તો ઉત્તરકાલીન સ્વર્ગ-નરક-મોક્ષાદિ કાર્ય પ્રત્યે પરિણામીકારણરૂપે આત્માનો વિચ્છેદ ન થવાથી ઉત્તરક્ષણે પણ આત્માની હાજરી માનવી પડશે. કારણ કે પૂર્વક્ષણ જ કોઈક સ્વરૂપે અભાવરૂપ થવા છતાં પણ બીજી ક્ષણે તે-તે કાર્યસ્વરૂપે પરિણમતી હોય તેવું માનવામાં આવે તો બે ક્ષણ સુધી આત્મા વગેરે પદાર્થની હાજરી તો અવશ્ય માનવી જ પડે. ગધેડાના શીંગડાની જેમ સર્વથા તુચ્છ પદાર્થમાં તો ઉત્તરકાલીન ભાવરૂપે પરિણમન થવાની શક્તિ જ ન હોઈ શકે. અર્થાત્ આરાધના
=
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
=
=
=
=
=
१७१३
=
=