________________
• नैरात्म्यवादमीमांसा •
द्वात्रिंशिका - २५/२ नैरात्म्यदर्शनादन्ये निबन्धनवियोगतः । 'क्लेशप्रहाणमिच्छन्ति सर्वथा तर्कवादिनः । । २ । नैरात्म्येति । नैरात्म्यदर्शनात् = सर्वत्रैवात्माऽभावाऽवलोकनात् अन्ये = बौद्धा निबन्धनवियोगतो निमित्तविरहात् क्लेशप्रहाणं = तृष्णाहानिलक्षणं इच्छन्ति सर्वथा = सर्वैः प्रकारैः तर्कवादिनः, तदेव वीर्यवत्तरं भवति ← (तै. उप. १/१/१०) इत्येवं भङ्ग्यन्तरेण ज्ञान - क्रियासमुच्चय आवेदितः । एतेन सत्येन लभ्यः तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण च ← (मुं. ३ 1१ 1५) इति मुण्डकोपनिषद्वचनमपि व्याख्यातम् । महाभारते अपि बुद्धिश्रेष्ठानि कर्माणि ← ( म.भा. उद्योगपर्व -३५/ ७५) इत्युक्त्या → ज्ञानवृद्धयैव कर्माणि कुर्वन् सर्वत्र सिध्यति ← ( म.भा. शांतिपर्व- २४१/३०) इत्युक्त्या च प्रकारान्तरेण ज्ञान-क्रियासमुच्चय एव सूचितः । एतेन ज्ञानान्मुक्तिः ← (सां.सू.३/२३) इति साङ्ख्यसूत्रैकान्तोऽपि प्रत्याख्यातः । तदुक्तं परिज्ञानाद् भवेन्मुक्तिरेतदालस्यलक्षणम् । कायक्लेशभयाच्चैव कर्म नेच्छन्त्यपण्डिताः।। ← ( ) इति । कर्मणा ज्ञानमिश्रेण स्थिरप्रज्ञो भवेत् पुमान् ← (शां.स्मृ. ४/२१२) इति शाण्डिल्यस्मृतिवचनमपि ज्ञान - क्रियासमुच्चयपरं प्रकारान्तरेणाऽवसेयम् । तपः- स्वाध्याये - श्वरप्रणिधानानि क्रियायोगः ← (यो. सू. २/१ ) इति पातञ्जलयोगसूत्रमपि भङ्ग्यन्तरेण ज्ञान-क्रियासमुच्चयस्यैव क्लेशहानोपायत्वमभिव्यनक्ति । कूर्मपुराणेऽपि कर्मणा सहिताज्ज्ञानात् सम्यग्योगोऽभिजायते । ज्ञानञ्च कर्मसहितं जायते दोषवर्जितम् ! | ← ( कू.पु. ३/२३) इत्येवं ज्ञान - क्रियासमुच्चयो गदितः । विष्णुपुराणेऽपि च तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः । तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामते !।। ← (वि.पु. ६/५/६० ) इत्येवं ज्ञान-क्रियोभयस्याऽपवर्गप्राप्तिहेतुत्वमुपदर्शितम्
।
यद्यपि न्यायसूत्रभाष्ये वात्स्यायनेन तत्त्वज्ञानाद् दुःख - जन्म - प्रवृत्ति - दोष - मिथ्याज्ञानानामुत्तरोत्तराऽपाये तदनन्तराऽभावादपवर्गः ← ( न्या. सू.भा. ४/२/२) इत्येवं ज्ञानसाध्यत्वमपवर्गस्याऽऽवेदितं तथापि न्यायसूत्रे तदर्थं यम-नियमाभ्यामात्मसंस्कारो योगाच्चाऽध्यात्मविध्युपायैः ← (न्या.सू.४/२/४६) इत्येवं क्रियाऽऽवश्यकताऽपि दर्शितेति नैयायिकानामपि परमार्थतो ज्ञान-क्रियासमुच्चयोऽभिमतः ।
१७०२
=
तत्त्वचिन्तामणिकृता तु स्व-स्वाऽऽश्रमविहितेन कर्मणा ज्ञानस्य समप्रधान्येन समुच्चयात् ज्ञानकर्मणोः तुल्यत्वेन मुक्त्यर्थत्वाभिधानात् ← (त. चिं. अनु.भा. २/मुक्तिवाद - पृ.१८५) इत्येवं कण्ठत एव ज्ञानकर्मसमुच्चयो दर्शितः । यदपि तेनैव तत्रैवाग्रे कर्मणां तत्त्वज्ञानद्वाराऽपि मुक्तिजनकत्वसम्भवात् प्रमाणवतो गौरवञ्च न दोषाय ← (त. चिं.मु.वा. पृ. १९१) इत्युक्तं तदपि न नः क्षतिकारि । न हि द्वारेण द्वारिणोऽन्यथासिद्धिः सम्भवति । तत्तज्जीवं प्रति ज्ञान - कर्मणोः गौण-मुख्यभावेऽपि समुच्चयस्त्वनाविल एव सामान्यत इति दिक् ।।२५ / १ ।।
ग्रन्थकारोऽत्र दर्शितक्लेशहानोपायविप्रतिपत्तिवादिन उत्थापयति- 'नैरात्म्ये 'ति । सर्वत्रैव सर्वदैव सर्वथैव च आत्माऽभावाऽवलोकनात् हेतोः बौद्धाः = सौगताः निमित्तविरहात् = तृष्णानिमित्ताऽभावात् ગ્રંથકારશ્રી અન્યદર્શનોની ખોટી માન્યતાનું નિરાકરણ કરવા અન્યદર્શનોની માન્યતાને જણાવે છે. ગાથાર્થ :- સર્વથા તર્કવાદી બૌદ્ધો નૈરાત્મ્યદર્શનથી નિમિત્તકારણનો વિયોગ થવાથી ક્લેશના ઉચ્છેદને रिछे छे. (२५/२)
ટીકાર્થ :- બૌદ્ધ વિદ્વાનો સર્વ પ્રકારે તર્કને જ અનુસરે છે. તેઓ શાસ્ત્રને અનુસરતા નથી. આ બૌદ્ધોની માન્યતા એવી છે કે બધે જ આત્માના અભાવને જોવાથી ક્લેશના નિમિત્તકારણનો વિરહ १. हस्तादर्शे 'क्लेशहाण' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org