________________
सर्वदर्शनेषु ज्ञानक्रियासमुच्चयः
१७०१
अपि → दंसणणाण-चरित्ताणि मोक्खमग्गो ← ( पं. का. १६४) इत्युक्तं कुन्दकुन्दाचार्येण । तदुक्तं बोधप्राभृते अपि → मोक्खमग्गं सम्मत्तसंयमं सुधम्मं ← ( बो. प्रा. १४) इति । मोक्षप्राभृते अपि तवरहियं जं गाणं णाणविजुत्तो तवो वि अकयत्थो । तम्हा णाणतवेणं संजुत्तो लहइ णिव्वाणं । । (मो.प्रा.५९) इत्युक्तम्। परेषामपि ज्ञान-क्रियासमुच्चयः सम्मतः । तदुक्तं योगवाशिष्ठे
उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञान-कर्मभ्यां जायते परमं पदम् ।। केवलात् कर्मणो ज्ञानात् न हि मोक्षोऽभिजायते । किन्तुभाभ्यां भवेन्मोक्ष: साधनं तूभयं विदुः ।।
•
← (यो. वा. वैराग्यप्रकरण १/७ - ८ ) इति । यथोक्तं हारितस्मृतौ अपि उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञान - कर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् ।। ← ( हा.स्मृ. ) इति । न च फलान्तरार्थत्वेन श्रुतस्य कर्मणः फलान्तरार्थकत्वमनुपपन्नमिति शङ्कनीयम्, तथावाक्यस्वरसात् ज्ञानतुल्यताप्रतीतेः। एतेन ज्ञानं प्रधानं न तु कर्महीनं, कर्म प्रधानं न तु बुद्धिहीनम् । तस्माद् द्वयोरेव भवेत् प्रसिद्धिर्न ह्येकपक्षो विहगः प्रयाति ।। ← ( ) इत्यपि व्याख्यातम् । योगशिखोपनिषदि योगतत्त्वोपनिषदि च योगहीनं कथं ज्ञानं मोक्षदं भवति ध्रुवम् । योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि ।। तस्मात् ज्ञानञ्च योगञ्च मुमुक्षुर्दृढमभ्यसेत् । ← ( यो . शि. १/१३-१४, यो.त.१४-१५) इत्युक्तम् । एतेन → ज्ञानेनैव हि संसारविनाशो नैव कर्मणा ← ( रु. ६.३५ ) इति रुद्रहृदयोपनिषद्वचनं निरस्तम्, यतो केवलाच्चेत् ज्ञानात् क्लेशहानं स्यात् किमर्थमनेकाऽऽयाससमन्वितानि सदनुष्ठानानि यमादीनि मुमुक्षवः कुर्युः ? अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेदिति न्यायात् । एतेन केवलया क्रिययाऽपि क्लेशहानिकल्पनाऽपि प्रत्युक्ता, ' न हि सहस्रेणाऽपि अन्धैः पाटच्चरेभ्यो गृहं रक्ष्यते' इति न्यायेन तस्याः अकिञ्चित्करत्वात् ।
केचित्तु बहिरङ्गाऽन्तरङ्गयोरन्तरङ्गं बलीयः' इति न्यायेन अन्तरङ्गत्वात् ज्ञानमेव बलीयः, न तु क्रिया । तदुक्तं सुरेश्वराचार्येण सम्बन्धवार्तिके अन्तरङ्गं हि विज्ञानं प्रत्यङ्मात्रैकसंश्रयात् । बहिरङ्गं तु कर्म स्याद् द्रव्याश्रयत्वतो नृणाम् ॥ ← (सं. बा. २६७ ) इति वदन्ति । तन्न, क्रियाया अपि आत्मप्रयत्नरूपत्वेनाऽन्तरङ्गत्वाऽविशेषात् । दैवपुरुषकारद्वात्रिंशिकायां पुरुषकारस्याऽऽत्मप्रयत्नरूपता दर्शितैव (द्वाद्वा.१७ / ७) । किञ्च मुण्डकोपनिषदि अपि आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ← (मुण्ड. ३/४ ) इत्येवं ज्ञान-क्रियासाहित्यमुपदर्शितम् । → उपासनां विना ज्ञानात् केवलाच्चेद् विमुक्तता ? | कन्यां विना विवाहः स्यात् केवलेन वरेण हि ।। ← ( रा.गी. ३ । ५९) इति रामगीतावचनमप्येतदर्थाऽनुपात्येवाऽवगन्तव्यम् । एतेन अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ← (मैत्रा. ७ १९, ईशा. ११) इति ईशावास्योपनिषद् - मैत्रायण्युपनिषदोः वचनमपि व्याख्यातम्, अविद्यापदेन विद्याभिन्नायाः सत्क्रियाया ग्रहणेन तदुपपत्तेः । यथोक्तं मैत्रायण्युपनिषदि → विद्यया तपसा चिन्तया चोपलभ्यते ब्रह्म ← (मैत्रा. ४/४ ) इति । तैत्तिरीयोनिषदि अपि यदेव विद्यया करोति, श्रद्धयोपनिषदा, છે. આ દૃષ્ટાંતનું તાત્પર્ય એ છે કે આંધળો અને લંગડો ભેગો થતાં સમ્યક્ જ્ઞાન અને સમ્યક્ ક્રિયાનો પરસ્પર સમન્વય થાય છે અને કાર્યસિદ્ધિ થાય છે. આ જ રીતે મોક્ષમાર્ગે આગળ વધતા સાધકોને નડતરરૂપ થનારા કર્મોને ક્લેશોને સંપૂર્ણતયા રવાના કરવા સ્વરૂપ કાર્યની નિષ્પત્તિ માટે જૈનસિદ્ધાન્ત મુજબ સમ્યક્ જ્ઞાન અને સમ્યક્ ક્રિયાનો પરસ્પર સમન્વય થવો જરૂરી છે.(૨૫/૧)
=
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org