________________
१७००
• शुष्कज्ञानस्य क्लेशाऽनाशकता • द्वात्रिंशिका-२५/१ हयं नाणं कियाहीणं हया अन्नाणओ किया । पासंतो पंगुलो दड्ढो धावमाणो अ अंधओ ।। संजोगसिद्धीइ फलं वयंति न हु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समिच्चा ते संपउत्ता नगरं पविट्ठा ।।
(आ.नि.१०१-२) इत्थमुक्तमिति पूर्व(पृ.४०१) दर्शितमेव । महानिशीथे अपि प्रथमाऽध्ययने प्रकृतगाथायुगलं पाठलेशभेदेन वर्तते । अन्ध-पअन्यायवद् नष्टाश्च-दग्धरथन्यायोऽप्यत्राऽनुयोज्यः, अश्वस्य चेतनत्वेन ज्ञानस्थानीयत्वाद् रथस्य च जडत्वेन क्रियास्थानीयत्वादिति दृष्टान्तैकदेशो ग्राह्य इत्यवधेयम् ।
तदुक्तं विशेषावश्यकभाष्ये अपि → सुयनाणम्मि वि जीवो वस॒तो सो न पाउणति मोक्खं । जो तव-संजममइए जोगे न चयइ वोढुं जे ।। सक्किरियाविरहातो इच्छितसंपावयं ण णाणं ति । मग्गण्णू वाऽचेट्ठो वातविहीणोऽधवा पोतो ।।
6 (वि.आ.भा. १९४३-१९४४) इति । सङ्क्षपतः तत्रैव → नाण-किरियाहिं मोक्खो - (वि.आ.भा.३) इत्येवमुक्तम् । तत्रैव चाऽग्रेऽपि → नाण-किरियाहिं निव्वाणं - (वि.आ.भा. ११२८) इत्युक्तम् । चन्द्रकवेध्यकप्रकीर्णके अपि → नाणेण विणा करणं, करणेण विणा न तारयं नाणं । भवसंसारसमुदं नाणी करणट्ठिओ तरइ ।। - (चं.वे.७३) इत्येवं समुच्चितज्ञान-क्रिययोः मोक्षकारणत्वमुपदर्शितम् । यथोक्तं सम्मतितर्के अपि → णाणं किरियारहियं, किरियामेत्तं च दो वि एगंता - (सं.त.३/६८) इति । अत एव शास्त्रवार्तासमुच्चये उपमितिभवप्रपञ्चायां च कथायां → अत एवाऽऽगमज्ञस्य या क्रिया सा क्रियोच्यते । आगमज्ञोऽपि यः तस्यां यथाशक्त्या प्रवर्तते ।। - (शा.वा.स.११/४३, उ.भ.प्र.पृष्ठ-१०३१) इत्युक्तम् । तदुक्तं अर्हद्गीतायां श्रीमेघविजयवाचकवरैरपि → न केवला क्रिया मुक्त्यै न पुनर्ब्रह्म केवलम् । जीवन्मुक्तोऽपि शैलेश्या केवली स्याच्छिवङ्गमी ।। - (अर्ह.गी.१८/ ३) इति ।
मरणविभक्तिप्रकीर्णकेऽपि → नाणेण विणा करणं न होइ, णाणं पि करणहीणं तु । नाणेण य करणेण य दोहि वि दुक्खक्खयं होइ ।। (म.वि.१४७) इत्युक्तम्। अन्यत्राऽपि → क्रियाज्ञानात्मके योगे सातत्येन प्रवर्तनम् । वीतस्पृहस्य सर्वत्र यानं चाहुः शिवाऽध्वनि ।। 6 (ललितविस्तरायां श्लोकोऽयमुद्धृतः पृ.९०) इत्युक्तम् । एतेन केवलादेव ज्ञानान्मुक्तिरिति निरस्तम्, तदुक्तं आवश्यकनियुक्ती → चरण-गुणविप्पहीणो बुड्डइ सुबहुं पि जाणतो - (आ.नि. ९७) इति । प्रकृते → कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः। तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ।। - (ते.बि.१/४६) इति पूर्वोक्तं(पृ.१०८१) तेजोबिन्दूपनिषद्वचनमपि स्मर्तव्यम् । तदुक्तं तत्त्वार्थसूत्रे अपि → सम्यग्दर्शनज्ञान-चारित्राणि मोक्षमार्गः - (त.सू.१/१) इति पूर्वोक्तं(पृ.४३४,४४१)स्मर्तव्यम् । एतदनुसारेण पञ्चास्तिकाये
વિશેષાર્થ :- વિશેષાવશ્યકભાષ્યમાં શ્રીજિનભદ્રક્ષમાશ્રમણ કહે છે કે – આંધળો અને લંગડો વનમાંથી જતા હતા. ત્યાં આગ લાગી જંગલમાં તેઓ ફસાઈ ગયા. આંધળો માણસ દોડવા છતાં સળગી મર્યો. કારણ કે કઈ દિશામાં જવું? તેનું સાચું જ્ઞાન તેની પાસે ન હતું. લંગડો માણસ સલામત દિશામાં જવાનો માર્ગ સાચી રીતે જાણવા છતાં પણ દાવાનળમાં બળી ગયો. કારણ કે ભાગવાની સાચી ક્રિયા તેની પાસે ન હતી. પણ બીજા જંગલમાં આગ લાગી ત્યાં ફસાયેલ આંધળો માણસ પોતાના ખભા ઉપર લંગડા માણસને બેસાડીને તેની સૂચના મુજબ ચાલતાં-ચાલતાં જંગલની બહાર સલામત રીતે પહોંચી જાય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org