SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ • सिद्धान्तानुसारतः क्लेशहानोपायद्योतनम् • १६९९ ॥ अथ क्लेशहानोपायद्वात्रिंशिका ।।२५।। सदृष्टिनिरूपणाऽनन्तरं ज्ञानक्रियामिश्रतयैवैताः क्लेशहानोपायभूता भवन्ति नाऽन्यथेति विवेचयन्नाहज्ञानं च सदनुष्ठानं सम्यक् सिद्धान्तवेदिनः । क्लेशानां कर्मरूपाणां हानोपायं प्रचक्षते ।।१।। ज्ञानं चेति । सज्जानं सदनुष्ठानं च सम्यग् = अवैपरीत्येन सिद्धान्तवेदिनः कर्मरूपाणां क्लेशानां हानोपायं = त्यागसामग्री प्रचक्षते = प्रकथयन्ति “संजोगसिद्धीइ फलं वयंति' (आ.नि.१०२) इत्यादिग्रन्थेन ॥१॥ नयलता स्थिरादियोगदृष्टीनां ज्ञान-क्रियाऽनवेधतः । यथा स्यात क्लेशघातित्वं तथैवाऽत्र निरूप्यते ।।१।। चतुर्विंशतितमद्वात्रिंशिकायां सदृष्टिनिरूपणाऽनन्तरं = स्थिरा-कान्ता-प्रभा-पराऽभिधानसदृष्टिचतुष्कप्रतिपादनाऽव्यवहितोत्तरकालं ज्ञान-क्रियामिश्रतया = सम्यग्ज्ञान-सदनुष्ठानाऽनुविद्धतया एव एताः = स्थिराद्याः परापर्यवसानाः सदृष्टयः क्लेशहानोपायभूताः = अपवर्गप्रतिबन्धकाऽवद्य-तदनुबन्धोभयप्रतियोगिकध्वंससाधनभूता भवन्ति, न = नैव अन्यथा = सज्ज्ञान-क्रियाऽननुविद्धतया इति हेतोः 'कार्येक्यसङ्गतिप्राप्तं क्लेशहानोपायं पञ्चविंशतितमद्वात्रिंशिकायां विवेचयन् = व्युत्पादयन् ग्रन्थकृद् आह- 'ज्ञानमिति । सज्ज्ञानं = ग्रन्थिभेदोत्तरकालीनसूक्ष्मतत्त्वविज्ञानं सदनुष्ठानं च = प्रणिधानाद्याशयगर्भसत्कर्म च अवैपरीत्येन = विसंवाद-मोघत्वादिलक्षणवैपरीत्यराहित्येन सिद्धान्तवेदिनः = जिनेश्वरोपदर्शित-क्लेशवृद्धिहान्याधुपायगोचर-सूक्ष्मतमराद्धान्तविषयाऽतिनिपुणस्पर्शज्ञानवन्तः । तदुक्तं स्थानाङ्गसूत्रे → दोहिं ठाणेहिं संपन्ने अणगारे अणाइयं अणवदग्गं दीहमद्धं वा चाउरंतसंसारकंतारं वीइवएज्जा । तं जहा- विज्जाए चेव चरणेण चेव - (स्था. २/१/५३) इति । कर्मरूपाणां = ज्ञानावरणाद्यष्टविधकर्मात्मकानां उपलक्षणात् तदनुबन्धरूपाणाञ्च सहजमलाद्यपराऽभिधानानां क्लेशानां त्यागसामग्री = ऐकान्तिकाऽऽत्यन्तिकोच्छेदकारणकलापं प्रकथयन्ति 'संजोगसिद्धीइ' इति । प्रकृतविषयोपयोगि आवश्यकनियुक्तिगाथायुगलं → હ ક્લેશહાનઉપાય દ્વાઝિશિક પ્રકાશ જ સદૃષ્ટિઓનું નિરૂપણ કર્યા બાદ હવે જ્ઞાન અને ક્રિયાથી મિશ્રિત એવી જ આ સદૃષ્ટિઓ ફ્લેશ ઉચ્છેદના ઉપાયરૂપ બની શકે છે. જ્ઞાન અને ક્રિયાથી મિશ્ર ન હોય તો સદ્દષ્ટિ પણ ક્લેશઉચ્છેદના ઉપાયસ્વરૂપ બની શકતી નથી. આ બાબતનું વિવેચન કરતા ગ્રંથકારશ્રી જણાવે છે કે – ગાથાર્થ :- સારી રીતે સિદ્ધાન્તના જાણકારો કર્મસ્વરૂપ ક્લેશનો ત્યાગ કરવાના ઉપાયરૂપે સમ્યફ शान भने सहनुष्ठानने ४९॥ छ. (२५/१) હ સમ્યક જ્ઞાન-ક્રિયાથી ક્નચ્છેદ . ટીકાર્ય :- વિપર્યાસ વિના સારી રીતે જૈન સિદ્ધાન્તના જાણકારો “જ્ઞાન અને ક્રિયાના સંયોગની નિષ્પત્તિથી મોક્ષફળને પૂર્વાચાર્યો જણાવે છે” ઈત્યાદિ ગ્રંથ દ્વારા કર્મસ્વરૂપ ક્લેશના ત્યાગની સામગ્રી રૂપે સમ્યગું જ્ઞાન અને સદ્ અનુષ્ઠાનને પ્રકૃષ્ટ રીતે કહે છે. (૨પ/૧) १. 'तदन्यत्वे सति तत्प्रयोज्यकार्यप्रयोजकत्वं = कार्येक्यम्' इति व्याप्तिपञ्चकगङ्गानिर्झरिणीवृत्तिटिप्पणके-पृ.६ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy