________________
१६९६
• तन्त्रान्तरेऽपि मक्तेः पनरागमनाऽभावः . द्वात्रिंशिका-२४/३२ तत्रेति । तत्र = योगाऽन्ते शैलेश्यवस्थायां अयोगाद् = अव्यापारात् योगमुख्यात् भवोपग्राहिणां कर्मणां (=भवोपग्राहिकर्मणां) क्षयं कृत्वा उच्चैः = लोकान्ते परमानन्दमन्दिरं प्रयाति ।।३२।।
।। इति सदृष्टिद्वात्रिंशिका ।।२४।। परमानन्दमन्दिरं = परादृष्टिपरमप्रकर्षप्राप्य-वर्णराहित्यायेकत्रिंशद्गुणगणोपेतवरेण्याऽऽनन्दालयम् । मोक्षं गतश्च न संसारे पुनरावर्तते, कर्मशून्यत्वात् । तदुक्तं आत्मदर्शनगीतायां → अक्रियत्वाच्च तेषां हि पुनरावृत्तिर्न संसृतौ । कर्माऽभावात् स्थिराः शुद्धाः केवलज्ञानधारकाः ।। 6 (आ.द.गी.६६) ।
तदुक्तं छान्दोग्योपनिषदि द्वयोपनिषदि अव्यक्तोपनिषदि रुद्राक्षजाबालोपनिषदि ऊर्ध्वपुण्ड्रोपनिषदि शरभोपनिषदि वासुदेवोपनिषदि बिल्वोपनिषदि च → न च पुनरावर्तते, न च पुनरावर्तते 6 (छां.८/१५/१, द्वयो.२, अव्य.३, शर.३६...) इति । तदुक्तं जाबाल्युपनिषदि सौभाग्यलक्ष्म्युपनिषदि च → न स पुनरावर्तते - (जा.पृ.२, सौ.पृ.३) इति । यथोक्तं भस्मजाबालोपनिषदि अपि → न पुनरावर्तन्ते - (भ.जा.२) इति । तदुक्तं कुण्डिकोपनिषदि अपि → भूयस्ते न निवर्तन्ते पारावारविदो जनाः 6 (कुं.२२) इति । एतेन → न पुनरागमनम् - (सुद.१) इति वैष्णवीयायाः सुदर्शनोपनिषदो वचनमपि व्याख्यातम् । तदुक्तं शुक्लयजुर्वेदीयायां मुक्तिकोपनिषदि अपि → पुनरावृत्तिरहितां मुक्तिं प्राप्नोति मानवः - (मु.१/२०) इति । यथोक्तं संन्यासोपनिषदि अपि → ये प्राप्ताः परमां गतिं भूयस्ते न निवर्तन्ते - (सं.उप.२) इति । तदुक्तं योगशिखोपनिषदि अपि → न चाऽस्ति पुनरावृत्तिरस्मिन् संसारमण्डले - (यो.शि.५/६१) इति । एतेन → यदा यदा हि धर्मस्य ग्लानिर्भवति भारत !। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।। - (भगवद्गीता-४ ७), 'तीर्थनिकारं दृष्ट्वा' ( ) इत्यादयः प्रलापाः प्रत्याख्याताः, संसारित्वापत्तेः, → मुक्तात्मानो न बध्यन्ते सञ्चिताऽऽगामिकर्मभिः। 6 (शं.गी.६/ ६५) इति शम्भुगीताविरोधापत्तेश्चेति । यथोक्तं योगवाशिष्ठे → चित्तं ज्ञानाग्निना दग्धं, न भूयः परिरोहति - (यो.वा.निर्वाण.पूर्वार्ध-२४९) इति, महाभारते → बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैः तथा क्लेशैः नात्मा सम्पद्यते पुनः ।। - (म.भा.शांति.२१३/२२) इति, भगवद्गीतायाञ्च → यद् गत्वा न निवर्तन्ते तद् धाम परमं मम - (भ.गी.१५/६) इति भावनीयम् ।
प्रकृते → तत्र द्रागेव भगवानयोगाद् योगसत्तमात् । भवव्याधिक्षयं कृत्वा निर्वाणं लभते परम् ।। - (यो.दृ.१८६) इति योगदृष्टिसमुच्चयकारिकाऽनुसन्धया । तदुक्तं अध्यात्मतत्त्वालोकेऽपि → अध्यात्मकोटिं परमामिहाऽगतः श्रीधर्मसंन्यासबलेन केवलम् । लब्ध्वोत्तमं योगमयोगमन्ततः प्राप्याऽपवर्ग लभतेऽस्तकर्मकः ।। 6 (अ.त.३/१३२) इति अष्टमगुणस्थानकादारब्धेयं परा विभावनीया ।।२४/३२।। लिखितं किञ्चिदेवात्र ध्यानयोगाऽनुभूतितः । गोपितं बहुधाऽस्माभिः तादृक्शास्त्रवियोगतः ।।१।। गुरुभक्तिविशुद्धान्तःकरणाय महात्मने । सम्यक् परीक्ष्य देयेयं महदवद्यमन्यथा ॥२॥
___ इति मुनियशोविजयविरचितायां नयलतायां सदृष्टिद्वात्रिंशिकाविवरणम् ।।२४।।
ટીકાર્થ:- શૈલેશીઅવસ્થાસ્વરૂપ યોગાન્તમાં રહેલા યોગી-કેવલજ્ઞાની સર્વયોગશિરોમણિ એવા અયોગ = તન-મન-વચન અપ્રવૃત્તિસ્વરૂપ યોગથી ભવોપગ્રાહી અધાતિકર્મોનો ક્ષય કરીને લોકના છેડે રહેલ પરમાનંદમંદિર સ્વરૂપ મોક્ષમાં બિરાજમાન થાય છે. (૨૪/૩૨)
વિશેષાર્થ:- શૈલેશીદશામાં યોગનિરોધ સ્વરૂપ યોગના પ્રભાવે અઘાતિ કર્મોની નિર્જરા કરીને સર્વજ્ઞ ભગવંત સિદ્ધશિલાની ઉપર લોકના છેડે પહોંચે છે. ત્યાં કાયમ પરમાનંદમાં મગ્ન રહે છે. (૨૪/૩૨)
૨૪મી બત્રીસીનો અનુવાદ સંપૂર્ણ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org