________________
स्वयोग्यतानुसारेण परत आध्यात्मिकलाभः •
१६९५ परं परार्थं यथाभव्यं सम्यक्त्वादिलक्षणं सम्पाद्य ततो योगाऽन्तं = योगपर्यन्तं अश्नुते = प्राप्नोति ।। ३१ ।। तत्राऽयोगाद्योगमुख्याद् भवोपग्राहिकर्मणाम् । क्षयं कृत्वा 'प्रयात्युच्चैः परमानन्दमन्दिरम् ।। ३२ ।।
← (बृ.क.भा.११३६-३७ ) इति । 'जिणवरसूरस्तुतिप्पभावेणं = जिनवरसूर्यश्रुतिप्रभावेन' । शिष्टं स्पष्टम् । तदुक्तं सिद्धसेनदिवाकरसूरिभिरपि द्वात्रिंशिकाप्रकरणे सद्धर्मबीजवपनाऽनघकौशलस्य यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः ।। ← ( द्वा. द्वा. २/१३ ) इति । अभव्यादीनां स्वभावादिकमेवात्राऽपराध्यति । इदमेवाभिप्रेत्य भावप्राभृते ण मुयइ पयडि अभब्बो सुट्टु वि आयण्णिऊण जिणधम्मं । गुड-दुद्धं पि पिबंता ण पण्णया णिव्विसा होंति ।। मिच्छत्तछण्णदिट्ठी दुद्धीए दुम्मएहिं दोसेहिं । धम्मं जिणपण्णत्तं अभव्वजीवो ण रोचेदि ।।
← (भा.प्रा. १३८-१३९) इत्युक्तम् । तदुक्तं विशेषावश्यकभाष्ये अपि
जं बोह-मउलणाइं सूरकरामरिसओ समाणाओ । कमल - कुमुयाण तो तं साभव्वं तस्स तेसिं च ।। जह वोलूगाईणं पगासधम्मा वि सो सदोसेणं । उइओ वि तमोरूवो एवमभव्वाण जिणसूरो ।। ← (वि.आ.भा. ११०६-७ ) इति । सम्यक्त्वादिलक्षणं परं द्रव्योपकारापेक्षयोत्कृष्टं परार्थं सम्पाद्य । अनेन तस्य परमबन्धुता द्योतिता, यथोक्तं सम्यक्त्वप्रकरणे चन्द्रप्रभसूरिभिः भवगिहमज्झम्मि पमायजलणजलियंमि मोहनिद्दाए । उट्ठवइ जो सुयंतं सो तस्स जणो परमबन्धू ।। ← ( स. प्र. ९८ ) इति । ततः = यथोचितं भव्यसार्थाऽनुग्रहसम्पादनोत्तरकालं विधत्ते कश्चित् केवलिसमुद्घातं, समानयति कर्मशेषं, सम्पादयति योगनिरोधं, पश्चात् योगपर्यन्तं शैलेश्याख्यं प्राप्नोति । प्रकृते → द्वितीयाऽपूर्वकरणे मुख्योऽयमुपजायते । केवल श्रीस्ततश्चाऽस्य निःसपत्ना सदोदया ।। स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् ।। घातिकर्माभ्रकल्पं तदुक्तयोगाऽनिलाऽऽहतेः । यदाऽपैति तदा श्रीमान् जायते ज्ञानकेवली ।। क्षीणदोषोऽथ सर्वज्ञः सर्वलब्धिफलान्वितः । परं परार्थं सम्पाद्य ततो योगान्तमश्नुते ।। ← (यो. दृ.स. १८२-१८५) इति योगदृष्टिसमुच्चयकारिका अनुसन्धेयाः । अयं धर्मसंन्यासः । शिष्टं स्पष्टम् । यथोक्तं कृष्णगीतायां अपि ज्ञानात्मा कृतकृत्योऽपि प्रारब्धकर्मयोगतः । सर्वकर्माणि कुर्वन् सन् परमार्थाय जीवति ।। ← (कृ.गी. १४८) इति । । २४ / ३१ ।।
=
अस्या मुख्यं फलमाह- 'तत्रे 'ति । स्पष्ट एव टीकार्थः । नवरं अव्यापारात् = योगनिरोधात् ભવ્ય જીવોને તેમની યોગ્યતા મુજબ દેશના દ્વારા સમકિત-દેશવિરતિ-સર્વવિરતિ વગેરે પમાડવા દ્વારા શ્રેષ્ઠ કોટિનો પરાર્થ તેઓ સાધે છે. ત્યાર બાદ તે યોગના છેડાને પ્રાપ્ત કરે છે. (૨૪/૩૧)
વિશેષાર્થ :- ઉત્કૃષ્ટ કોટિનો જ્ઞાનગર્ભિત વૈરાગ્ય, ઉદાસીનભાવ, કુતૂહલ-ઉત્સુકતાનો અભાવ વગેરેથી સર્વ લબ્ધિઓ આઠમી દૃષ્ટિમાં પ્રગટેછે. તેના પ્રત્યે પણ ઉદાસીન રહેવાથી, શુદ્ધ આત્મદ્રવ્યમાં દષ્ટિને અસંગભાવે સ્થાપિત કરવાથી ક્ષપકશ્રેણિમાં આગળ વધતાં-વધતાં આઠમી ષ્ટિમાં રહેલા યોગીઓ કેવલજ્ઞાન પામેછે. પછી પોતાના પુણ્ય મુજબ અને સામેના જીવોની પાત્રતા મુજબ શ્રેષ્ઠ કોટિનો ઉપકાર કરીને યોગનોછેડો – શૈલેશીકરણ પ્રાપ્ત કરેછે. (૨૪/૩૧) ગાથાર્થ :- શૈલેશી દશામાં સર્વયોગપ્રધાન અયોગ નામના યોગથી ભવોપગ્રાહી કર્મનો ક્ષય કરીને ઉપર પરમાનંદના સ્થાનસ્વરૂપ મોક્ષમાં પહોંચે છે. (૨૪/૩૨)
•
१. हस्तादर्शे ' प्रसात्यु ....' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
=
www.jainelibrary.org