________________
१६९४
• परमसमाधियोगस्थापनम् • द्वात्रिंशिका-२४/३१ केवलश्रियमासाद्य सर्वलब्धिफलाऽन्विताम् । परं परार्थं सम्पाद्य ततो योगाऽन्तमश्नुते ॥३१॥
केवलेति । केवलश्रियं = केवलज्ञानलक्ष्मी आसाद्य = प्राप्य सर्वलब्धिफलाऽन्वितां सर्वोत्सुक्यनिवृत्त्या निष्ठितकार्यो भवति । तदुक्तं योगदृष्टिसमुच्चये → तन्नियोगाद् महात्मेह कृतकृत्यो यथा भवेत् । तथाऽयं धर्मसंन्यासविनियोगान्महामुनिः ।। (यो.दृ.स.१८१) इति । यथोक्तं वैराग्यकल्पलतायां अपि → वणिग् यथा रत्नपरीक्षाया द्राक् परीक्ष्य रत्नं लभते प्रमोदम् । ज्ञानी तथाऽवाप्नोति समाधिशुद्ध्या ब्रह्मानुभूयोपशमैकराज्यम् ।। - (वै.क.ल.१/२३६) इति । यथोक्तं अध्यात्मसारे अपि →
रत्नशिक्षादृगन्या हि तन्नियोजनदृग् यथा । फलभेदात्तथाऽऽचारक्रियाऽप्यस्य विभिद्यते ।। ध्यानार्था हि क्रिया सेयं प्रत्याहृत्य निजं मनः । प्रारब्धजन्मसङ्कल्पादात्मज्ञानाय कल्पते ।।
6 (अ.सा.१५/१२-१३) इति । अत्र च परिणमति गाढमप्रमादभावः, स्थिरीभवति समाधिरत्नं, रूक्षीभवति कर्मबन्धजनककषायस्नेहहासातिशयेनाऽन्तर्यामी, विचटन्ति सूक्ष्मकर्मपरमाणवः, व्यावर्तते चिन्तादिः, संन्तिष्ठते विशुद्धध्यानोत्तरः समाधिविशेषः, दृढीभवति योगरत्न, जायते महासामायिकं, प्रवर्तते अपूर्वकरणं, उल्लसति क्षपकश्रेणी, विजृम्भते आत्मवीर्यविशेषः, निहन्यते कर्मजालशक्तिः, विवर्धते शुक्लध्यानाऽनलः, दन्दह्यते मोहेन्धनं, प्राप्यन्ते विशुद्धलब्धयः, प्रकटीभवति योगमाहात्म्यं, विशुध्यति आत्मा, स विमोच्यते सर्वथा घनघातिबन्धनेभ्यः, स्थाप्यते च क्षेत्रज्ञः परमसमाधियोगे । यदपि संन्यासोपनिषदि → ग्राह्य-ग्राहकसम्बन्धे क्षीणे शान्तिरुदेत्यलम् । स्थितिमभ्यागता शान्तिः मोक्षनाम्नाऽभिधीयते ।। भ्रष्टबीजोपमा भूयो जन्माऽङ्कुरविवर्जिता । हृदि जीवद्विमुक्तानां शुद्धा भवति वासना ।।
(सं.उप.१/४२-३) इत्युक्तं तदपि पराख्यां दृष्टिमधिकृत्य लब्धाधिकारमवसेयम् । यदपि नारदपरिव्राजकोपनिषदि → आत्मानमन्विच्छेद्यथाजातरूपधरो निर्द्वन्द्वो निष्परिग्रहस्तत्त्वब्रह्ममार्गे सम्यक् सम्पन्नः शुद्धमानसः प्राणसन्धारणार्थं यथोक्तकाले करपात्रेणाऽन्येन वा याचिताऽऽहारमाहरन् लाभालाभे समो भूत्वा निर्ममः शुक्लध्यानपरायणाऽध्यात्मनिष्ठः शुभाशुभकर्मनिर्मूलनपरः संन्यस्य पूर्णानन्दैकबोधस्तद् ब्रह्माहमस्मीति ब्रह्मप्रणवमनुस्मरन्ध्रमरकीटन्यायेन शरीरत्रयमुत्सृज्य संन्यासेनैव देहत्यागं करोति स कृतकृत्यो भवति सं(ना.परि.३ १८६) इत्युक्तं तदपि परमार्थत इहाऽनुयोज्यं यथातन्त्रम् ।।२४/३०।।
तत्र किं भवति? इत्याह- 'केवले'ति । केवलज्ञानञ्चाऽत्रैकाऽसहायाऽसाधारणाऽनन्ताऽशेषचिल्लक्षणमवसेयम् । तदुक्तं श्रीहरिभद्रसूरिभिः ज्ञानपञ्चकविवरणप्रकरणे → केवलमिगमसहायं असाहारणमशंतमप्परिसेसं च । केवलसद्दस्स इमे अत्था छच्चेव नायव्वा ।। - (ज्ञा.पं.वि.११) इति ।
यथाभव्यं = श्रोतृयोग्यताऽनुसारेण, तदुक्तं बृहत्कल्पभाष्ये → जह सूरस्स पभावं दटुं वरकमलपोंडरीयाइं । बुझंति उदयकाले तत्थ उ कुमुदा न बुझंति ।। एवं भवसिद्धीया जिणवरसूरस्सुतिप्पभावेणं । बुझंति भवियकमला अभवियकुमुदा न बुझंति ।।
ગાથાર્થ - સર્વ લબ્ધિઓના ફળ સહિત કેવલજ્ઞાનસ્વરૂપ લક્ષ્મીને પ્રાપ્ત કરીને શ્રેષ્ઠ પરાર્થનું સંપાદન रीने योगा योगना मंतने पामे छे. (२४/३१)
ટીકાર્ય - તમામ ઉત્સુકતા નિવૃત્ત થવાથી સર્વ લબ્ધિઓના ફળ આઠમી દૃષ્ટિમાં પ્રગટે છે. તેના પ્રત્યે ઉદાસીન રહીને આત્મરમણતામાં લીન બનેલા પરાષ્ટિવર્તી યોગી કેવલજ્ઞાનને પ્રાપ્ત કરે છે. પછી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org