________________
१६९०
• परायाः कालमान-गुणस्थानकादिविमर्शः . द्वात्रिंशिका-२४/२८ ___अतो निराचारपदः प्रतिक्रमणाद्यभावात् । चेष्टा चास्य = एतदृष्टिमतः अखिला भुक्तभोजनाऽभाववन्मता आचारजेयकर्माऽभावात् तस्य भुक्तप्रायत्वात्सिद्धत्वेन तदिच्छाविघटनात् ।।२८।। त्रिचतुरक्षणावस्थितमुप्तमप्यकुरायोपकल्पते । किञ्च, परा दृष्टिस्त्वष्टमगुणस्थानाच्चतुर्दशगुणस्थानपर्यन्तं वर्तते । अत एवोत्कर्षतो देशोनपूर्वकोटिं यावत् पराऽवस्थितिः सम्मता । अष्टमादिगुणस्थानकत्रितयसमुदितोऽपि कालस्त्वन्तर्मुहूर्त्तमात्रमानः । अतोऽतिस्वल्पकालाऽवस्थायित्वादष्टमादिगुणस्थानकत्रयकालीनसज्वलनकषायाणामत्र गणनैव न कृता शास्त्रकृद्भिरिति प्रतिभाति । तथा क्षीणमोहादिषु तु सर्वथा सर्वकषायविरहान्नैवाऽतिचारसम्भवः । अत एव परायां योगी निराचारपदः प्रोक्तः, प्रतिक्रमणाद्यभावात् = अतिचारशोधकप्रायश्चित्तस्थानीयाऽवश्यकरणीय-प्रतिक्रमणादिस्वरूपाऽऽचाराऽऽवश्यकताविरहात् । तदुक्तं योगदृष्टिसमुच्चये → निराचारपदो ह्यस्यामतिचारविवर्जितः। आरूढाऽऽरोहणाऽभाववत् त्वस्य चेष्टितम् ।। - (यो.दृ.स.१७९) इति । एतदृष्टिमतः = परायामवस्थितस्य योगिनः चेष्टा च अखिला गमनाऽऽगमन-भाषणादिलक्षणा भुक्तभोजनाऽभाववत् = भोजनतृप्तस्य भोजनान्तराऽऽवश्यकत्वाऽभाववत् मता = योगिसम्मता, आचारजेयकर्माऽभावात् = सद्धर्माचारपालननिवर्तनीयकर्मविरहात्, तस्य = आचारजेयकर्मणः कर्मत्वावच्छिन्नस्य वा भुक्तप्रायत्वात् = क्षीणप्रायत्वात् ।
यद्यपि परायामवस्थितस्य योगिनः क्षपकश्रेणिकाले घात्यघातिकर्माणि सन्त्येव तथापि 'क्षीयमाणं क्षीणमिति न्यायेन घातिकर्माणि तस्य क्षीणान्यवसेयानि । अघातिकर्मणां तु केवलज्ञानोत्तरमपि सत्त्वं तथापि केवलानां तेषामतिचाराऽनापादकतया प्रतिक्षणमपुनर्भावतो भुज्यमानतया दग्धरज्जुसमतया च तेषामपि भुक्तप्रायत्वोक्तिः प्रकृते सङ्गतैव । एतेन → यो सीलवा पञवा भावितत्तो, समाहितो झानरतो सतीमा। सब्बस्स सोका विगता पहीना, खीणासवो अन्तिमदेहधारी।। (सं.नि.१।१।९५पृ.६४) इति संयुत्तनिकाये अनाथपिण्डिकवर्गे नन्दनसूत्रमपि व्याख्यातम् । कर्मणः सिद्धत्वेन = मातत्वेन तदिच्छाविघटनात् = कर्मनिवर्तनगोचराऽभिलाषनिवृत्तेः, सितं = बद्धं सद् ध्मातमिति सिद्धं, तस्य भावः तत्त्वं तेन = सिद्धत्वेनेति व्युत्पत्तेः । प्रकृते → सकुणो यथा पंसुकुन्थितो विधुनं पातयति सितं रजं । एवं भिक्खु पधानवा सतिमा विधुनं पातयति सितं रजं ।। - (सं.नि.१।१।९।१।२२१ पृ.२२८) इति संयुत्तनिकाये वनसंयुक्ते विवेकसूत्रमपि यथागमं भावनीयम् ।
___ यद्वा सिद्धत्वेन = सिद्धयोगत्वेन = निष्पन्नयोगत्वेन परायामवस्थितस्य योगिनः तदिच्छाविघटनात् નિરાચારપદ કહેવાય છે. કેમ કે તેમને પ્રતિક્રમણ વગેરે કરવાના નથી હોતા. જેમ ભોજનથી તૃપ્ત થયેલ માણસને ફરીથી જમવાની જરૂર નથી હોતી તેમ પરાષ્ટિવાળા યોગીની તમામ ચેષ્ટા અનાવશ્યક મનાયેલી છે. અર્થાત તેમને જ્ઞાનાચાર-દર્શનાચાર વગેરે પાળવાની આવશ્યક્તા નથી હોતી. કેમ કે જ્ઞાનાચાર વગેરેથી જીતવા યોગ્ય કર્મ તેમની પાસે હોતા નથી. પંચાચારપાલનથી જીતી શકાય તેવા કર્મો તો तेमा भोट मागे मोगवी सीधेद/२वान। ३८ डोय छे. जांधेद भणी गया होवाथ. (= सिद्धत्वेन) तेने दू२ ४२वानी २७ तेमने होती नथी. अथवा योगसिद्ध होवाना दीधे (= सिद्धत्वेन) भने टाववानी अभिलाषा २वाना थयेटी होय छे. (२४/२८) १. मुद्रितप्रतौ .....क्रमाद्य...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org