________________
• परायां विदेहमुक्तताभूमिकासमवतारः • निराचारपदो ह्यस्यामतः स्यान्नाऽतिचारभाक् । चेष्टा चाऽस्याऽखिला भुक्तभोजनाऽभाववन्मता॥२८॥
निराचारेति । अस्यां दृष्टौ (हि) योगी नाऽतिचारभाक् स्यात्, तन्निबन्धनाऽभावात् ।
→ भूमिका षटकाभ्यासात्... → (महो.५/३४) इत्यादिना महोपनिषदि या तुर्यगाख्या सप्तमी ज्ञानयोगभूमिकोपदर्शिता साऽपीहाऽवतारिता द्रष्टव्या । इत्थञ्च जीवन्मुक्तिरूपा तुरीयाऽवस्थाऽत्राऽऽविर्भवति । तुर्यातीतदशा तु चतुर्दशगुणस्थानकाऽतीते निर्वाणे प्रादुर्भवतीति स्थितम् । एतेन → तुर्यावस्थोपशान्ता सा मुक्तिरेव हि केवला । समता स्वच्छता सौम्या सप्तमी भूमिका भवेत् ।। तुर्यातीता तु याऽवस्था परा निर्वाणरूपिणी । सप्तमी सा परा प्रौढा विषयो नैव जीवताम् ।।
6 (अन्न.५/८५-८६) इति अन्नपूर्णापनिषत्कारिके व्याख्याते द्रष्टव्ये, मुक्तिपदेन जीवन्मुक्तेः ग्रहणात् ।
अक्ष्युपनिषदि → विदेहमुक्तताऽत्रोक्ता सप्तमी योगभूमिका । अगम्या वचसां शान्ता सा सीमा सर्वभूमिषु ।। - (अक्ष्यु.४२) इत्येवं या सप्तमी योगभूमिकोक्ता सा मोक्षे गुणस्थानकातीतेऽनुयोज्या स्व-परसमयसिद्धान्तनिपुणैः ।
अधिकृतसमस्ताऽर्थविज्ञापनपरा वैराग्यकल्पलताकारिकासंहतिरित्थं वर्तते । → अथ कृतसमस्तदोषप्रतिकारः परिणतोरुगुरुशिक्षः । वचनक्षमाऽऽदिसिद्धेरधिगतधर्मक्षमाऽऽदिरतिः।। वचनक्रियाप्रकर्षाऽऽश्रयादसङ्गक्रियासु लब्धरसः । कर्ममलस्याऽपगमाच्छुक्लः शुक्लाऽभिजात्यश्च ।। खेदोद्वेगभ्रान्तिक्षेपोत्थानाऽन्यमुद्रुजाऽऽसङ्गैः । मुक्तश्च पृथचित्तैरष्टभिरष्टाङ्गयोगधरः ।। मद-मदन-मोह-मत्सर-रोष-विषादैरधर्षितः सततम् । तुल्याऽरण्यकुलाकुल-काञ्चनतृण-शत्रुमित्रगणः ।। दृष्टिं स्थिरां च कान्तां, प्रभां परां च प्रसारयन् धर्मे । धर्मध्यानाभिरतः, शुक्लध्यानैकतानमनाः ।। श्लिष्टं विधाय चितं, सुलीनमपि संयमे वितन्वंस्तत् । आत्मारामः शून्यं, परभावविजृम्भितं पश्यन् ।। उल्लसितसहजवीर्यः, परिशुद्धसमाधिदृष्टपरमार्थः । जीवन्मुक्तः शर्माऽनुबभूव भवातिगं किंचित् ।।
6 (वै.क.स्त.२/२६५-२७१) इत्यवधेयं सिंहावलोकनन्यायेन धारणाकुशलैः ।
अत्र च प्राप्तं प्राप्तव्यमेतेन ज्ञातं कृत्यमतः परं स्पष्टं, असङ्गसाक्षिभावाऽऽलम्बनेनोचितकार्य स्वभावतोऽत्र प्रवर्तते निरतिचारमित्यनुपदमेव वक्ष्यते ।।२४/२७।।
प्रभातोऽस्या विशेषान्तरमाह- "निराचारे'ति । तन्निबन्धनाऽभावात् = अतिचारनिमित्तभूतसज्वलनकषायविरहात् । यद्यपि क्षपकश्रेण्यामष्टमादिगुणस्थानकत्रितये सज्वलनकषायाः सन्ति तथापि तेषां तदाऽपुनर्भावेनाऽत्यन्तं क्षीयमाणत्वेन तथाविध-स्वकार्यकरणसामर्थ्य नास्त्येव । प्रबलतमविपक्षाऽन्तर्गतस्य ह्यविकलनिजस्वरूपमेव दुर्लभं, प्रागेव कार्यकरणम्। न खलु दन्दह्यमानदावानलाऽन्तर्गतं ज्वलद् बीजं
- राष्टिभा निरायारपE - ગાથાર્થ -પરા દૃષ્ટિમાં અતિચાર લાગતા નથી. માટે નિરાચારપદ કહેવાય છે. ભોજનથી તૃપ્ત માણસને જેમ ભોજન ક્રિયા નથી હોતી તેમ પરાદષ્ટિવાળા યોગીની તમામ ચેષ્ટા મનાયેલી છે.(૨૪/૨૮).
ટીકાર્ય :- પરાષ્ટિમાં રહેલા યોગી અતિચાર-દોષ લગાડતા નથી. કારણ કે અતિચારનું કારણ સંજ્વલન કષાય તેમની પાસે હોતા નથી. કારણ વિના કાર્ય ક્યાંથી થાય ? માટે પરાષ્ટિવાળા યોગી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org