________________
१६८८
• परायां तुर्यगाभूमिकासमवतारः
द्वात्रिंशिका - २४/२७
→ सलिले सैन्धवं यद्वत् साम्यं भजति योगतः । तथात्म-मनसोरैक्यं समाधिभिधीयते ।। यदा सङ्क्षीयते प्राणो मानसं च प्रलीयते । तदा समरसत्वं यत् समाधिरभिधीयते ।। यत् समत्वं तयोरत्र जीवात्म-परमात्मनोः । समस्तनष्टसङ्कल्पः समाधिरभिधीयते ।। प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् । सर्वशून्यं निराभासं समाधिरभिधीयते ।। स्वयमुच्चलिते देहे देही नित्यसमाधिना । निश्चलं तं विजानीयात् समाधिरभिधीयते ।। ← (सो. ल. १४-१८) इति सौभाग्यलक्ष्म्युपनिषदुपवर्णितसमाधिलक्षणानि हठयोग - राजयोगाद्यनुसारेण यथातन्त्रमत्रानुयोज्यानि यथासम्भवं समाकलितस्व - परतन्त्रपरमार्थैः । न चाऽत्र पौनरुक्त्यं दोषत्वेनोद्भावनीयम्, तथाविधसंस्कारदाद्यय मन्दमतिहिताय च तदुपयोगात् । तदुक्तं यजुर्वेदीयोव्वटभाष्ये → संस्कारोज्ज्वलनार्थं हितञ्च पथ्यञ्च पुनः पुनरुपदिश्यमानं न दोषाय भवति ← (य. वे.उ.भा. १/२१) इति पूर्वं (पृ.१५३८) उपदर्शितमेव । एवमेव पूर्वमुत्तरत्र च तत्र तत्रेदमनुसन्धेयम् ।
बौद्धदर्शने तु अदुःखाऽसुखोपेक्षास्मृतिपरिशुद्धिनामकं चतुर्थं ध्यानमेव समाधिरिति प्रोच्यते । तदुक्तं दीघनिकाये मज्झिमनिकाये च महास्मृतिप्रस्थानसूत्रे कतमो च भिक्खवे सम्मासमाधि ? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पढमं झानं उपसंपज्ज विहरति ( 9 ) । वितक्कविचारानं वूपसमा अज्झत्तं सम्प्रसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसंपज्ज विहरति ( २ ) । पीतिया च विरागा उपेक्खको च विहरति, सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति 'उपेक्खको सतिमा सुखविहारी 'ति ततियं झानं उपसम्पज्ज विहरति (३) । सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति । अयं वुच्चति, भिक्खवे, सम्मासमाधि ← ( दी. नि. २/९/४०९, म.नि. भाग१/मूलपर्यायवर्ग/१०-१३५) इति ।
•
जैनदर्शने च स्वाध्याय-वैराग्य-वैयावृत्त्याऽऽलोचनादितोऽपि चेतः स्वास्थ्यलक्षणः क्षपकश्रेण्यादिगतो वा समाधिः सम्पद्यते । वस्तुतो मोहनीयाद्युपशम-क्षयोपशम - क्षयान्यतमस्यैव तत्र नियामकत्वम् । मरुदेवाभरत-पृथिवीचन्द्राद्युदाहरणेन भावनीयमेतत् तत्त्वं मध्यस्थैः ।
विशुद्धनिजस्वरूपमात्रनिर्भासलीनतया पूर्वं ( द्वा.द्वा.२०/२७ भाग - ५, पृ.१४०१ ) संन्यासगीतासंवादेनोद्दिष्टा शुभेच्छादिसप्तविधकर्मयोगाऽन्तर्गता षड्भूमिकाचिराऽभ्यासाद् भेदस्याऽनुपलम्भनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः । । ← ( वरा. ४ / १०, रा.गी. ७/१२ ) इति वराहोपनिषद् -रामगीताव्यावर्णितस्वरूपा सप्तमी तुर्यगानामिका कर्मयोगभूमिका, स्वरूपपराभिधाना भक्तियोगभूमिका, ब्रह्ममीमांसानुसारेण च परात्पराऽऽख्या ज्ञानयोगभूमिका परायां योगदृष्टौ प्रादुर्भवतीति स्व-परतन्त्रसमवतारनिष्णातैरवधेयम् । છે. આ અવસ્થા સમાધિ કહેવાય છે. આ પ્રમાણે યોગસૂત્રભાષ્ય ઉપર તત્ત્વવૈશારદી ટીકા કરનારા વાચસ્પતિમિશ્ર અને યોગવાર્તિકકાર વિજ્ઞાનભિક્ષુનો મત છે. મતલબ કે આમના મત મુજબ ધ્યાનવિશેષ જ સમાધિ છે. ફરક એટલો કે ધ્યાતા-ધ્યેય-ધ્યાનનું સંકલન જેમાં હોય તે ધ્યાન તરીકે ઓળખાવાય તથા જ્યારે તે જ ધ્યાનમાંથી તે સંકલન નીકળી જાય ત્યારે તે સમાધિ કહેવાય. (૨૪/૨૭)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org