________________
• नानाविधा समाधिव्याख्या •
१६८७ समाधिभिः - (सीतो.७) इत्यादिनाऽन्यविधक्रमेणाऽपि अष्टावङ्गानि प्रस्तुतस्य योगस्योपदर्शितानीति व्यावर्तकविशेषणविधयाऽष्टाङ्गत्वोपादानं सङ्गच्छत इत्यवधेयम् । साम्प्रतमवशिष्टानि नानातन्त्रोपदर्शितानि नानाविधानि समाधिलक्षणानि दर्शयामः । तथाहि- अमृतनादोपनिषदि → यं लब्ध्वाप्यवमन्येत स समाधिः प्रकीर्तितः - (अ.नादो.१७) इत्येवं समाधिलक्षणमुक्तम् । ___ यत्तु योगतत्त्वोपनिषदि → समाधिः = समतावस्था जीवात्म-परमात्मनोः - (यो.त.१०७) इति तल्लक्षणमावेदितम् तत्तु पूर्वोक्त (द्वा.द्वा.१८/२५ भाग-४, पृ.१२५५) वृत्तिसङ्क्षययोगापेक्षया सङ्गच्छते। एतेन → अथ समाधिः । जीवात्म-परमात्मैक्याऽवस्था त्रिपुटीरहिता परमाऽऽनन्दस्वरूपा शुद्धचैतन्यात्मिका भवति 6 (शां.१ ७२) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् ।
त्रिशिखिब्राह्मणोपनिषदि → ध्यानस्य विस्मृतिः सम्यक् समाधिरभिधीयते - (त्रि.ब्रा.३२) इति यदुक्तं तदसम्प्रज्ञातसमाधिमधिकृत्याऽनुयोज्यम् । एतेन → ध्यानविस्मृतिः = समाधिः - (मं.ब्रा.१८) इति मण्डलब्राह्मणोपनिषद्वचनमपि व्याख्यातम् । अन्नपूर्णोपनिषदि तु →
समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी । ब्रह्मन समाधिशब्देन परा प्रज्ञोच्यते बुधैः ।। अक्षुब्धा निरहङ्कारा द्वन्द्वेष्वननुपातिनी । प्रोक्ता समाधिशब्देन मेरोः स्थिरतरा स्थितिः ।। निश्चिता विगताभीष्टा हेयोपादेयवर्जिता । ब्रह्मन् समाधिशब्देन परिपूर्णा मनोगतिः ।।
6 (अन्न.१/४८-५०) इत्येवं यानि नानानयाऽनुरोधेन समाधेर्नानालक्षणान्युक्तानि तानीहाऽनुयोज्यानि यथानयं नयविशारदैः । → ध्यातृध्याने विहाय निवातस्थितदीपवद् ध्येयैकगोचरं चित्तं समाधिर्भवति - (पै.३/२) इति पैङ्गलोपनिषदुक्तिः पूर्वोक्ता(पृ.१३७०) इहानुसन्धेया । अयमेव तन्त्रान्तरीयाऽध्यात्मोपनिषत्काराभिप्रायः । → सलिले सैन्धवं यद्वत् साम्यं भजति योगतः । तथाऽऽत्म-मनसोरैक्यं समाधिरिति कथ्यते ।। 6. (वरा.२/७५) इति वराहोपनिषद्वचनमप्यत्राऽनुस्मर्तव्यम् ।
प्रायश एतत्सर्वं चेतसिकृत्य रामगीतायां तु → सलिले सैन्धवं यद्वत्साम्यं भजति योगतः । तथात्म-मनसोरैक्यं समाधिरभिधीयते ।।
ध्यातृ-ध्याने परित्यज्य क्रमाद् ध्येयैकगोचरम् । निर्वातदीपवच्चित्तं समाधिरभिधीयते ।। विलाप्य विकृतिं कृत्स्नां प्रकृत्या स्वात्ममात्रया । निस्तरङ्गाऽब्धिवन्निष्ठा समाधिरभिधीयते ।। स्वात्मनोऽन्यमनालोक्य विकारमणुमात्रकम् । मेरुवत् सुस्थिरो बोधस्समाधिरभिधीयते ।। अविद्यावरणाऽपेतपूर्णचैतन्यनिष्ठया । स्वात्मानन्दाऽमृताऽऽस्वादस्समाधिरभिधीयते ।। दृग्द्रष्टारौ परित्यज्य दृश्य-ब्रह्मात्मना स्थितिः । निर्विकल्पा स्वसंवेद्या समाधिरभिधीयते ।। द्रष्ट-दर्शन-दृश्यानां विकाराणां विलापनात् । द्रष्ट्र-दर्शन-दृश्याऽऽप्तिस्समाधिरभिधीयते ।।
नाऽन्यत् पश्यति यत्राऽऽत्मा न शृणोति च किञ्चन । स्वस्मादन्यन्न जानाति समाधिरभिधीयते ।। (रा.गी.८।३१-३८) इत्येवं समाधिलक्षणानि दर्शितानि तान्यप्यत्र यथातन्त्रमनुयोज्यानि सर्वतन्त्रविशारदैः । છું...” આ બધા જ્ઞાનના આકાર છે. પાતંજલ દર્શનની પરિભાષા મુજબ આ બધા પ્રત્યયાકાર તરીકે ઓળખાય છે. “હું ધ્યાન કરું છું.' આ ધ્યાનાકાર છે. જ્યારે ચિત્તમાં ધ્યાન પ્રત્યયાકારે કે ધ્યાનાકારે ભાસવાના બદલે Àયાકારે જ ભાસે ત્યારે જ્ઞાનસ્વરૂપ અને ધ્યાનસ્વરૂપ રવાના થયું હોય તેવું લાગે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org