________________
१६८६
विभागं अष्टाङ्गो योग इति प्रसिद्धं अनतिक्रम्य
विदुः ।। २७ ।।
• योगस्य षडष्ट - पञ्चदशाद्यङ्गानि •
=
द्वात्रिंशिका - २४/२७
अनुल्लङ्घ्य परे ध्यानफलं समाधिरिति
→ यमश्च नियमश्चैव आसनं प्राणसंयमः । प्रत्याहारो धारणा च, ध्यानं भ्रूमध्यगे हरिम् । समाधिः समताऽवस्था साष्टाङ्गो योग उच्यते ।। ← ( यो . तत्त्वो . २५) इति हठयोगप्रतिपादकाद् योगतत्त्वोपनिषद्वचनात्, → यमश्च नियमश्चैव तथैवाऽऽसनमेव च । प्राणायामस्तथा ब्रह्मन् ! प्रत्याहारस्ततः परम् ।। धारणा च तथा ध्यानं समाधिश्चाष्टमं मुने ! || ← ( जा. द. ४ / ५) इति जाबालदर्शनोपनिषद्वचनात्
यमश्च नियमश्चैव तथा चाऽऽसनमेव च । प्राणाऽऽयामस्तथा पश्चात् प्रत्याहारस्तथा परम् ।। धारणा च तथा ध्यानं समाधिश्चाऽष्टमो भवेत् ।
=
← (वरा.५/११-१२) इति वराहोपनिषद्वचनाच्च यम-नियमादिलक्षणः अष्टाङ्गो योग' इति प्रसिद्धं विभागं अनुल्लङ्घ्य परे पातञ्जला ध्यानफलं समाधिरिति विदुः । सगुणं ध्यानमेतत्स्यादणिमादिगुणप्रदम् । निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत् ।। ← ( यो. त. १०५ ) इति योगतत्त्वोपनिषद्वचनात्समाधिर्निर्गुणध्यानफलतया तन्मते विज्ञेयः ।
Jain Education International
अथाष्टाङ्गत्वं योगस्य स्वरूपविशेषणविधयाऽत्राऽभिमतं यदुत व्यावर्तकविशेषणविधया ? आद्ये ध्यानस्य समाधिरूपताप्रदर्शनं व्याहन्येत, अन्त्ये चान्यविधयोगप्रदर्शनमावश्यकमिति चेत् ? अत्रोच्यते 'अष्टाङ्गो योग' इति प्रकृते व्यावर्तकविशेषणविधयाऽभिमतम्, अन्यविधस्यापि योगस्य तन्त्रान्तरे प्रदर्शनात् । तथाहि - अमृतनादोपनिषदि प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा । तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ।। ← ( अमृ. ६) इत्येवं षडङ्गता योगस्योक्ता । मैत्रायण्युपनिषदि तु षडङ्गयोगनिरूपणावसरे प्राणायामः प्रत्याहारो ध्यानं धारणा तर्कः समाधिः षडङ्ग इत्युच्यते योगः ← (मैत्रा.७/१८) इत्येवं क्रमः सूचितः । ध्यानबिन्दूपनिषदि योगचूडामण्युपनिषदि च → आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाऽङ्गानि भवन्ति षट् ।। ← ( ध्या. बि. ४१, यो चूडा.२) इत्येवमन्यविधानि षडङ्गानि योगस्योक्तानि । तेजोबिन्दूपनिषदि अपरोक्षानुभूतौ च यमा हि नियमस्त्यागो मौनं देशश्च कालतः । आसनं मूलबन्धश्च देहसाम्यञ्च दृक्स्थितिः ।। प्राणसंयमनं चैव प्रत्याहारश्च धारणा । आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ।।
← (अपरो. १०२-३, ते.बि. १ ।१५-१६) इत्येवं पञ्चदशाङ्गानि योगस्योक्तानि । किञ्च योगस्याsष्टाङ्गत्वेऽपि क्वचित् क्रमभेदोऽपि दृश्यते । गरुडपुराणे यमश्च नियमः पार्थ ! आसनं प्राणसंयमः । प्रत्याहारस्तथा ध्यानं धारणार्जुन ! सप्तमी ।। समाधिरिति चाष्टाङ्गो योग उक्तो विमुक्तये ।। ← (ग. पु. १ ।२२९/१३) इत्येवं सीतोपनिषदि च यम-नियमाऽऽसन-प्राणायाम-प्रत्याहारध्यान-धारणा
ચોક્કસ પ્રકારના ધ્યાનને જ સમાધિ કહેવામાં યમ-નિયમાદિ અષ્ટાંગ યોગવિભાગની વ્યવસ્થા ડહોળાય છે. ધ્યાન વિશેષ જ જો સમાધિ હોય તો અષ્ટાંગ યોગ નહિ પણ સપ્તાંગ યોગવિભાગ કહેવો જોઈએ. તેથી અન્ય યોગાચાર્યો પ્રસિદ્ધ અષ્ટાંગ યોગવિભાગની વ્યવસ્થાનું ઉલ્લંઘન કર્યા વિના ધ્યાનના ફળને સમાધિ તરીકે માને છે. (૨૪/૨૭)
विशेषार्थ :- 'हुं भयुं छं, समभुं छं, वियारुं छं, या उरुं छं, चिंतन अरु छं, मनन पुरु
For Private & Personal Use Only
www.jainelibrary.org