________________
• ज्ञानात्मकोऽपि समाधिः .
१६८५ हि समाधिः । तदुक्तं- “तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः” इति (यो.सू.३-३) । = उक्तलक्षणं ध्यानं यत्राऽर्थमात्रनिर्भासं अर्थाऽऽकारसमावेशाद् उद्भूताऽर्थरूपं न्यग्भूतज्ञानस्वरूपत्वेन स्वरूपशून्यतामिवाऽऽपद्यते स समाधिरित्युच्यते । सम्यग् आधीयते = एकाग्रीक्रियते विक्षेपान् परिहत्य मनो यत्र स समाधिः - (रा.मा.३/३) इति । 'ध्यानस्वरूपस्य वस्तुतः सत्त्वादिवशब्दप्रयोगः, तथा ध्यातृ-ध्येय-ध्यानकलनावद् ध्यानं तद्रहितञ्च समाधिरिति ध्यान-समाध्योविभागः' (यो.वा.३/३) इति योगवार्तिककृद् । 'यथा जपाकुसुमसन्निहितः स्वच्छस्फटिकमणिर्जपाकुसुमरूपेणैव निर्भासते न स्वरूपेण तद्वदतिस्वच्छचित्तवृत्तिप्रवाहरूपं ध्यानमेवाऽर्थमात्रस्वरूपेणैव निर्भासमानं समाधिः' (म.प्र. ३/३) इति मणिप्रभाकृन्मतम् । भावागणेशवृत्तौ → तदेव ध्यानं यदा ध्येयार्थमात्रग्राहि भवति, न तु ध्यातृध्यान-ध्येयादिविभागं गृह्णाति तदा समाधिरित्युच्यत इत्यर्थः । तद्विभागग्रहणकाले च ध्यानमिति ध्यानसमाध्योर्भेदः - (भा.ग.३/३) इति । योगसुधाकरे सदाशिवेन्द्रस्तु → तदेव = ध्यानमेव ध्येयैकगोचरतया निर्भासमानं ध्यानस्वरूपशून्यमिव स्थितं समाधिर्भवति + (यो.सुधा.३/३) इत्याह । महोपनिषदि → तत्त्वाऽवबोध एवाऽसौ वासनातृणपावकः । प्रोक्तः समाधिशब्देन न तु तुष्णीमवस्थितिः।। - (महो.४/ १२) इत्येवं ज्ञानात्मकः समाधिरुक्तः । तत्रैव चाग्रे →
उदितौदार्य-सौन्दर्य-वैराग्यरसगर्भिणी । आनन्दस्यन्दिनी यैषा समाधिरभिधीयते ।। दृश्याऽसम्भवबोधेन राग-द्वेषादितानवे । रतिर्बलोदिता याऽसौ समाधिरभिधीयते ।। - (महो.४/६१-६२) इत्येवमानन्दात्मकः समाधिरावेदित इत्यवधेयम् ।
प्रकृते → समाधिः संविदुत्पत्तिः परजीवैकतां प्रति (अन्न.५/७५,जा.द.१०/१) इति अन्नपूर्णोपनिषत्जाबालदर्शनोपनिषद्वचनमपि ज्ञाननयप्राधान्येनाऽनुयोज्यम् । → सदा साक्षिस्वरूपत्वाच्छिव एवाऽस्मि केवलः । इति धीर्या मुनिश्रेष्ठ ! सा समाधिरिहोच्यते ।। (जा.द.१०/५) जाबालदर्शनोपनिषद्वचनमप्यत्र यथातन्त्रमनुयोज्यम् । विष्णुपुराणे → तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत्। मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ।। 6 (वि.पु.६/७/९२) इत्येवं समाधिलक्षणमुपदर्शितं तदप्यत्रानुसन्धेयम् । कूर्मपुराणे च → एकाकारः समाधिः स्याद् देशाऽऽलम्बनवर्जितः । प्रत्ययो ह्यर्थमात्रेण योगसाधनमुत्तमम् ।।
(कू.पु.११/४१) इत्येवं तत्स्वरूपमावेदितम् । __ गरुडपुराणे तु → ध्यानं द्वादशपर्यन्तं मनो ब्रह्मणि योजयेत् । तिष्ठेत् तल्लयतो युक्तः समाधिः सोऽभिधीयते ।। - (ग.पु.१/२२७/२५) इत्येवं कालमानगर्भः समाधिः लक्षितः । तदुक्तं योगचूडामण्युपनिषदि अपि → ध्यानद्वादशकेनैव समाधिरभिधीयते - (यो.चूडा.११२) इति । तेजोबिन्दूपनिषदि तु → निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक् समाधिरभिधीयते ।। - (ते.बि.१ ॥३७) इत्येवं समाधिर्व्याख्यातः । तमुपजीव्य शङ्कराचार्येण अपरोक्षानुभूतौ → निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक् समाधिर्ज्ञानसंज्ञकः ।। ( (अपरो.१२४) इत्येवं समाधिलक्षणमावेदितम् ।
आदिपुराणे जिनसेनाचार्यस्तु → यत्सम्यक् परिणामेषु चित्तस्याऽऽधानमञ्जसा । स समाधिरिति ज्ञेयः स्मृतिर्वा परमेष्ठिनाम् ।। - (आ.पु.२१/२२७) इति प्राह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org