________________
१६८३
• उपेक्षाभावनाऽऽसङ्गोऽपि त्याज्यः • चित्तं, परायां तु निर्विकल्पसंस्कारेण मैत्र्यादिभावनानाशात् तद्रहितमेव ( षोडशक- १३/१२) मनः । प्रभायां कर्तृत्वादिभावाऽनुविद्धसज्ज्ञानोपेतं चित्तं परायान्तु निर्मलतरबोधमात्रमेवाऽन्तःकरणम् । परायां मोक्षयोजको योगः कार्त्स्न्येन परिणतः प्रभायां तु न । प्रभायां सामायिकमात्रं परायान्तु महासामायिकं (समराइच्चकहाभव-९ पृ.९६०) वर्तते । प्रभायाः स्वामिनः प्रवृत्तचक्रा योगिनः परायास्तु निष्पन्नयोगस्वामिकत्वमिति कार्य-कारण-स्वरूप-स्वाम्यादिभेदेन तयोर्विभेदः स्फुट एवेति विभावनीयमवहितमानसैः ।
→ दृष्टिः परा नाम समाधिनिष्ठाऽष्टमी तदासङ्गविवर्जिता च । सात्मीकृताऽस्यां भवति प्रवृत्तिर्बोधः पुनः चन्द्रिकया समानः ।। ← ( अ.त. ३ / १३१) इति अध्यात्मतत्त्वालोककारिकाऽनुसन्धेया ।
सौगतमताऽनुसारेण नैवसञ्ज्ञानाऽसञ्ज्ञानाऽऽयतनसमापत्तिवर्ती अपि योगी तथाविधोपेक्षाभावनायामुपलिप्तः सन्न परिनिर्वाति, अनुपलिप्तः सन् तु विज्ञानाऽलेपेन परिनिर्वाणमेत्येव । तदुक्तं मज्झिमनिकाये आनिञ्ज्यसम्प्रेयसूत्रे → इध आनन्द ! भिक्खु एवं पटिपन्नो होति - 'नो चस्स, नो च मे सिया; न भविस्सति, न मे भविस्सति यदत्थि, यं भूतं तं जहामी 'ति । एवं उपेक्खं पटिलभति । सो तं उपेक्खं अभिनन्दति, अभिवदति अज्झोसाय तिट्ठति । तस्स तं उपेक्खं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो तन्निस्सितं होति विञ्ञाणं तदुपादानं । सउपादानो, आनन्द, भिक्खु न परिनिब्बायती 'ति । ... 'इध आनन्द ! भिक्खु एवं पटिपन्नो होति - 'नो चस्स, नो च मे सिया; न भविस्सति, न मे भविस्सति; यदत्थि, यं भूतं तं पजहामी 'ति । एवं उपेक्खं पटिलभति । सो तं उपेक्खं नाभिनन्दति, नाभिवदति, न अज्झोसाय तिट्ठति । तस्स तं उपेक्खं अनभिनन्दतो अनभिवदतो अनज्झोसाय तितो न तन्निस्सितं होति विञ्ञणं न तदुपादानं । अनुपादानो, आनन्द ! भिक्खु परिनिब्बायती "ति ← (म.नि.३/१/६/७१-७२, पृ. ४८-४९) इति यथागममन्त्राऽनुयोज्यमागमविशारदैः । ततश्चान्तत उपेक्षाभावनाजन्याऽऽनन्दाऽभिरतिरपि परमार्थतः त्याज्यैव परिपक्वाऽसङ्गाऽनुष्ठानकामिभिरासन्नतममुक्तिगामिभिरिति फलितम् ।
एतेन मानं पहाय सुसमाहितत्तो सुचेतसो सब्बधि विप्पमुत्तो । एको अरज्ञे विहरमप्पमत्तो स मच्चुधेय्यस्स तरेय्य पारं ।। ← (सं.नि.१ ।१ ।४ ।८ । ३८ - पृ. ३३) इति संयुत्तनिकायवचनमपि व्याख्यातम् । 'सब्बधि = सर्वथा, मच्चुधेय्यस्स मृत्युराज्यस्य, शिष्टं स्पष्टम् । इह चावस्थायां बौद्धाभिमता 'पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति । अयं वुच्चति, भिक्खवे, भिक्खु अन्धकासि मारं अपदं । वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो । तिण्णो लोके विसत्तिकं विस्सत्थो गच्छति, विस्सत्थो तिट्ठति, विस्सत्थो निसीदति, विस्सत्थो सेय्यं कप्पेति । तं किस्स हेतु ? अनापाथगतो, भिक्खवे, पापिमतो”ति ← (म.नि. १ । ३ । ६ । २८७, पृ. २३५) इत्येवं मज्झिमनिकायगतपाशराशिसूत्रप्रदर्शिता प्रज्ञादर्शनक्षीणाश्रवपापिष्ठकामस्य विश्वस्तस्य महायोगिनः पराकाष्ठाऽप्यवतार्या स्व-परसमयगतपदार्थादिसमवतारनिष्णातैः । । २४ / २६ ।।
=
થઈ ગઈ હોય છે. પ્રવૃત્તિ કરવાના આશય વિના સહજપણે તે-તે દ્રવ્ય-ક્ષેત્રાદિને ઉચિત પ્રવૃત્તિ થયા કરે છે. જેમ ચંદનમાં સુવાસ આત્મસાત્ થઈ ગઈ હોય છે તેમ અહીં તત્ત્વપ્રવૃત્તિ આત્મસાત્ થઈ ગઈ હોય છે. તેમ છતાં ‘આ જ તત્ત્વપ્રવૃત્તિ સારી છે. આ જ સમાધિ શ્રેષ્ઠ છે.’ આ પ્રમાણે આસંગ નામનો યોગિચિત્તદોષ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org