________________
१६८२
प्रभा - परादृष्ट्योः भेदद्योतनम् •
द्वात्रिंशिका -२४/२६
चन्दनगन्धन्यायेन । तदुत्तीर्णाशयेति च सर्वथा 'विशुद्ध्या प्रवृत्तिवासकचित्ताऽभावेन ।। २६ ।। भवति ।
व्यक्तशुद्धचैतन्यमय-स्वभूमिकोचितभिक्षाटनादिबाह्य-क्षमाद्यभ्यन्तरपरिपक्वसत्प्रवृत्तिवृत्त्युभयशालिनी परायामवस्थितस्य योगिन ईर्यादिसमिति - भिक्षाटनादिलक्षणा बाह्यप्रवृत्तिः क्षमाद्यभ्यन्तरप्रवृत्तिश्च चन्दनस्येव शरीरस्य च्छेद-दाहादिषु सौरभादिस्वधर्मकल्पा परोपकारिणी न विक्रियते किन्तु सहजभावमनुविधत्ते । असङ्गानुष्ठानमाहात्म्येन षोडशक ( षो. १०/१०) विंशिका (विं. विं. ११/७) प्रकरणाद्युपदर्शिता इह च वक्ष्यमाणा ( द्वाद्वा.२८/ ७ भाग-७ पृ. १९१०) धर्मोत्तराऽभिधाना पञ्चमी क्षमाऽस्यां काष्ठाप्राप्तप्रकर्षा सम्पद्यते समाधिभङ्गश्च न सम्पद्यते । प्रकृते न हि महतां सुकरः समाधिभङ्गः ← (किरा. १०/२३) इति किरातार्जुनीयवचनमपि यथागमं विभावनीयम् । न चाऽसङ्गानुष्ठानस्य प्रभायामपि दृष्टौ विद्यमानत्वादनयोरैक्यं स्यादिति शङ्कनीयम्, प्रभायामसङ्गाऽनुष्ठानसामान्यस्य परायाञ्च परिपक्वा - ऽसङ्गाऽनुष्ठानस्य सत्त्वेन तयोर्भेदात् ।
किञ्च प्रभायामसङ्गाऽनुष्ठानसत्त्वेऽपि तदुत्तीर्णाऽऽशयत्वं नाऽस्ति परा तु तदुत्तीर्णाऽऽशया सात्मीकृतप्रवृत्त्यतिक्रान्तान्तःकरणपरिणतिः भवतीति तयोर्भेदोऽनपलपनीय एव । न च सात्मीकृतप्रवृत्तित्वे सति कथं तदुत्तीर्णाऽऽशयत्वमुपपद्येतेति शङ्कनीयम्, यतः परायां दृष्टावनवरतप्रवृत्तशुक्लाऽऽभोगमहिम्ना सर्वथा सर्वैरेव सङ्क्रमाऽपवर्तनोपशमोदयोदीरण-क्षयोपशमादिप्रकारैः जायमानया विशुद्ध्या → सर्वतः पश्यन्न पश्यति ← (मन्त्रि . १ ) इति मन्त्रिकोपनिषदादिदर्शितरीत्या प्रवृत्तिवासकचित्ताऽभावेन अभिनवप्रवृत्त्युपधायकसंस्कारान्तरोत्पादकान्तःकरणविरहेण हेतुना तदुत्तीर्णाऽऽशयत्वोपपत्तेः । ततश्च → अन्तः संसक्तिनिर्युक्तो जीवो मधुरवृत्तिमान् बहिः । कुर्वन्नकुर्वन्वा कर्ता भोक्ता न हि क्वचित् ।। ← (अन्न. १ ।५७) इति, सर्वकर्मपरित्यागी नित्यतृप्तो निराश्रयः । न पुण्येन न पापेन नेतरेण च लिप्यते ।। ← ( अन्न. ५ |९७ ) इति च अन्नपूर्णोपनिषद्वचनं परमार्थत इहैवोपलब्धाऽधिकारमवसेयं योगदृष्टिविशारदैः । इत्थमेवाऽस्यां → संशान्तसर्वसङ्कल्पा या शिलावदवस्थितिः । जाग्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा ।। ← (मैत्रे. २ । ३० ) इत्येवं मैत्रेय्युपनिषदुक्ता स्वरूपस्थितिः सम्पद्ये ।
किञ्च प्रभायां प्रायशः कादाचित्कत्वेनाऽतिव्यवहितसन्तानभावाः सूक्ष्मा अतिचाराः क्षमादौ सम्पद्यन्तेऽपि, परायास्तु वक्ष्यमाणरीत्या ( द्वा. द्वा.२४ / २८ पृ. १६८९ ) सर्वथा निरतिचारत्वमिति स्फुट एवाऽनयोर्भेदः । किञ्च प्रभायां समाधिर्नास्ति परायाञ्चाऽस्ति । प्रभायामासङ्गाख्यो दोषोऽस्ति परायाञ्च नास्ति । परिशुद्धप्रतिपत्त्यनन्तरभाविनी तत्त्वविषया प्रवृत्तिरष्टमगुणात्मिका प्रभायां नास्ति परायाञ्चास्तीति । प्रभायां बोधोऽर्कभातुल्यः परायाञ्च चन्द्रिकासमः । प्रभायां प्रायशोऽतिविरलाः सूक्ष्मा विकल्पाः परायां तु निर्विकल्पं मनः इति प्राक् (द्वाद्वा.२० / २६ भाग - ५ पृ. १३९६) कथितम् । प्रभायां मैत्र्यादिभावसमन्वितं
=
Jain Education International
=
પ્રગટેલી હોવાના કારણે પ્રવૃત્તિના નવા સંસ્કાર ઊભા કરે તેવું ચિત્ત અહીં ન હોવાના કારણે પ્રવૃત્તિ કરવાનો આશય આઠમી ષ્ટિમાં નથી હોતો. (૨૪/૨૬)
વિશેષાર્થ :- આઠમી દૃષ્ટિમાં યમ-નિયમાદિ અષ્ટાંગ યોગમાંથી સમાધિ નામનું યોગનું આઠમું અંગ મળે છે. ખેદ-ઉદ્વેગ વગેરે આઠ ચિત્તદોષમાંથી આતંગ નામનો આઠમો દોષ અહીં હોતો નથી. તથા અદ્વેષ-જિજ્ઞાસા વગેરે આઠ ગુણોમાંથી તત્ત્વપ્રવૃત્તિ નામનો ગુણ વિશિષ્ટ કક્ષાએ પ્રગટે છે. આઠમી દૃષ્ટિમાં તત્ત્વપ્રવૃત્તિ આત્મસાત્
१. हस्तादर्शे 'विधा' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
=
www.jainelibrary.org