________________
१६६९
• प्रभायां पदार्थाऽभावनाभूमिकासमवतारः • तत्वात्। दृष्टान्तमाह- अनभ्रे = अभ्ररहिते गगने 'विधोः उदितस्य प्रकाशः सदा प्रसृमरो भवति, तथाऽवस्थास्वाभाव्यादिति ।।२०।। मसमुत्थे सति महात्मनां = महामुनीनां सदैव हि सूक्ष्मभावदोषोन्मूलनपरं ध्यानं = ध्यानसन्तानं भवति, तस्य = आत्मादिगोचरक्षायोपशमिकतथाविधविमलतरबोधस्य तन्नियतत्वात् = तादृशध्यानव्याप्यत्वात् । तदुक्तं योगदृष्टिसमुच्चये → ध्यानञ्च निर्मले बोधे सदैव हि महात्मनाम् । क्षीणप्रायमलं हेम सदा कल्याणमेव हि ।। (यो.दृ.स.१७४) इति । योगसारप्राभृतेऽपि → ध्यानं विनिर्मलज्ञानं पुंसां सम्पद्यते स्थिरम् । हेम क्षीणमलं किं न कल्याणत्वं प्रपद्यते ? ।। - (यो.सा.प्रा.९/१४) इत्युक्तम् । भिक्षाऽटनादिका क्रियाऽपि ध्यानबाधायै न सम्पद्यतेऽत्र । अप्रमत्ततया ध्यानयोगसमाराधनात् परमसुखलाभोऽप्यस्यामनिवारित एव । बौद्धानामपि सम्मतमिदम् । तदुक्तं संयुक्तनिकाये → ‘मा पमादमनुयुजेथ, मा कामरतिसंथवं । अप्पमत्तो हि झायंतो पप्पोति परमं सुखं ।। - (सं.देवतासंयुक्त/सतुल्लकायिक वग्ग-सद्धासुत्त-३६/पृ.३०) इति । प्रवृत्तचक्रस्यैव प्राग्(द्वा.द्वा.१९/२३ भाग-६ पृ.१३०८)दर्शितस्येदं ध्यानं सम्पन्नाऽधिकारमवसेयम् । तदुक्तं षोडशके → प्रवृत्तचक्रस्य ध्यानमपि शस्तमस्य त्वधिकृतम् - (षो. १४/१४) इति। स्वात्मारामपरायणतया परद्रव्य-परभावोदासीनत्वात् प्रभायां पूर्वं (द्वा.द्वा.२०/२७ भाग५ पृ.१४०१) संन्यासगीतासंवादेनोद्दिष्टा शुभेच्छादिसप्तविधकर्मयोगगता →
भूमिकापञ्चकाऽभ्यासात् स्वात्मारामतया भृशम् । आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ।। परप्रयुक्तेन चिरप्रयत्नेनाऽवबोधनम् । पदार्थाऽभावना नाम षष्ठी भवति भूमिका ।।
- (वरा.४/८-९, रा.गी.७/१०-११) इति वराहोपनिषद्-रामगीताव्यावर्णितस्वरूपा षष्ठी कर्मयोगभूमिका प्रादुर्भवतीत्यवधेयं स्व-परतन्त्रसमवतारनिष्णातैः यथातन्त्रम् ।
इत्थञ्च महोपनिषदि → भूमिकापञ्चकाऽभ्यासात् स्वात्मारामतया दृढम् । आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ।। परप्रयुक्तेन चिरं प्रयत्नेनाऽवबोधनम् । पदार्थाऽभावना नाम षष्ठी भवति भूमिका ।।
- (महो.५/३२-३३) इति या ज्ञानयोगभूमिकोपदर्शिता साऽपीहाऽवतारितेत्यवसेयम् ।
एतेन → असंवेदनरूपा च षष्ठी भवति भूमिका । आनन्दैकघनाऽऽकारा सुषुप्तसदृशी स्थितिः ।। 6 (अन्न.५/८४) इति अन्नपूर्णोपनिषदुक्ता षष्ठी भूमिका सप्तम्यां योगदृष्टौ समवतारिता, परिशुद्धतत्त्वप्रतिपत्ति-प्रशान्तवाहिता-ध्यानजन्यसुखाऽनुभवप्रकर्षेण वैषयिकसुखाद्यसंवेदनोपपत्तेः । ___अस्याञ्च दृष्टौ नोच्छलति शोकः, न विद्यते दैन्यं, प्रलीनमौत्सुक्यं, असम्भवी अरतिविकारः, व्यपगतः चित्तोद्वेगः, जुगुप्सनीया जुगुप्सा, दूरवर्तिनी तृष्णा, समूलकाषङ्कषितः सन्त्रासः, वर्तते છે. કારણ કે નિર્મળ બોધ ધ્યાનનો વ્યાપ્ય છે. જ્યાં જ્યાં નિર્મળ તત્ત્વબોધ હોય ત્યાં ત્યાં ધ્યાન હોય છે. જ્યાં ધ્યાન નથી હોતું ત્યાં તથાવિધ નિર્મળબોધ પણ નથી હોતો. આ બાબતમાં ગ્રંથકારશ્રી ઉદાહરણ બતાવે છે કે – વાદળા વિનાના આકાશમાં ઉગેલા ચન્દ્રનો પ્રકાશ કાયમ ચારે બાજુ લાઈ જનાર જ હોય છે. કારણ કે વાદળા વિનાની અવસ્થામાં ચંદ્રપ્રકાશનો તેવો જ સ્વભાવ હોય છે.(૨૪/૨૦) १. हस्तादर्श 'विरधो' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org