________________
१६६८
• प्रभायां सम्यक्स्मृतिसमवतारः • द्वात्रिंशिका-२४/२० ध्यानं च विमले बोधे सदैव हि महात्मनाम् । सदा प्रसृमरोऽनभ्रे प्रकाशो गगने विधोः ।।२०।।
ध्यानं चेति । विमले बोधे च सति महात्मनां सदैव हि ध्यानं भवति, तस्य तन्नियप्रभायां सर्वदा ध्यानसत्तां साधयितुमाह- 'ध्यानमिति । तृष्णा-दौर्मनस्यादिपरिहारेणाऽसङ्गसाक्षिभावतो देह-वेदना-चित्त-धर्मदर्शनेनाऽस्यां सौगताभिमताऽष्टाङ्गिकमार्गगता सम्यक्स्मृतिर्जायमाना स्थिरीभवति । तदुक्तं मज्झिमनिकाये दीघनिकाये च → कतमा च, भिक्खवे, सम्मासति ? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झा-दोमनस्सं (१) वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झा-दोमनस्सं (२), चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झा-दोमनस्सं (३), धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झा-दोमनस्सं (४)। अयं वुच्चति, भिक्खवे, सम्मासति - (दी.नि.२/९/४०९,म.नि.भाग-१/१/१०/१३५/पृष्ठ.९१) इति । ‘आतापी = तपस्वी, 'सम्पजानो = संप्रजानानः, सतिमा = स्मृतिमान्, विनेय्य = विनीय, दूरीकृत्येति यावत् । शिष्टं स्पष्टम् । न हि देहादिचेष्टाऽस्यामुपयोगशून्या भवति काचन परिपक्वभेदविज्ञानपरिणत्या । न चेयं सम्यक स्मृतिः मित्रादावपि सम्भवति, सम्यग्व्यायामादिकमृते तदयोगात् । तदुक्तं मज्झिमनिकाये महाचत्वारिंशत्कसूत्रे → सम्मादिट्ठिस्स, भिक्खवे सम्मासङ्कप्पो पहोति, सम्मासङ्कप्पस्स सम्मावाचा पहोति, सम्मावाचस्स सम्माकम्मन्तो पहोति, सम्माकम्मन्तस्स सम्माआजीवो पहोति, सम्माआजीवस्स सम्मावायामो पहोति, सम्मावायामस्स सम्मासति पहोति, सम्मासतिस्स सम्मासमाधि पहोति - (म.नि. ३।२७।१४१, पृ.१२२) इति । मज्झिमनिकाये कायगतस्मृतिसूत्रे → अरति-रतिसहो होति । न च तं अरति सहति, उप्पन्नं अरतिं अभिभुय्य विहरति । भयभेरवसहो होति । न च तं भयभेरवं सहति, उप्पन्नं भयभेरवं अभिभुय्य विहरति + (म.नि. ३।२।९।१५९) इत्यादिरूपेण यत् सम्यक्स्मृतिफलमुपदर्शितं तत् प्रभायामेव दृष्टौ सङ्गच्छते, न तु मित्रादौ । ‘सहति = पराभवति', शिष्टं स्पष्टम् । इत्थमप्रसङ्गाऽतिप्रसङ्गपरिहारेण यथागमं स्व-परसमयसमनुवेधेन बहुश्रुतैः → सव्वनयमयं जिणमयमणवज्जमच्चंतं - (वि. आ.भा. ७२) इति विशेषावश्यकभाष्यवचनात् सर्वनयात्मके जिनप्रवचने योज्यम् । ____ इत्थं विमले = संशयत्व-विपर्ययत्वाऽनध्यवसायत्व-बहिर्मुखत्व-परोक्षत्वादिमलशून्ये बोधे स्पष्टक्षयोपशપ્રસિદ્ધિ, પુણ્યોદય વગેરે વસ્તુથી આનંદનો અનુભવ થાય તે તમામ આનંદ પરમાર્થથી દુઃખરૂપ જ છે. પુત્ર વગેરે તો આત્માથી ભિન્ન છે જ. પુણ્ય પણ આત્માથી જુદું જ છે. માટે પુણ્યજનિત સુખ પણ દુઃખરૂપ જ છે- એવું નક્કી થાય છે. ધ્યાનના માધ્યમે જે સુખ મળે છે તે આત્મામાંથી પ્રગટે छे, ते स्वाधीन छ. माटे ते ४ ५।२भार्थिसुप छे. (२४/१८)
જ બોધ નિર્મળ હોય તો ધ્યાન કાયમ રહે છે ગાથાર્થ - તત્ત્વબોધ નિર્મળ હોય તો મહાત્માઓને સદા માટે ધ્યાન જ ચાલુ રહે છે. કેમ કે વાદળા વિનાના આકાશમાં ચંદ્રનો પ્રકાશ કાયમ ફેલાયેલો જ રહે છે. (૨૪૨૦)
ટીકાર્ચ - આત્માદિ તત્ત્વનો બોધ નિર્મળ હોય તો મહાત્માઓને હંમેશા ધ્યાન જ ચાલતું હોય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org