________________
• निश्चय-व्यवहारनयानुरोधेन सुख-दुःखयोः व्याख्या •
१६६७
इत्थं च ध्यानजमेव तत्त्वतः सुखं, न तु पुण्योदयभवमपीत्यावेदितं भवति । तदाह- “पुण्यापेक्षमपि ह्येवं सुखं परवशं स्थितम् । ततश्च दुःखमेवैतद् ध्यानजं तात्त्विकं सुखम् ।। " ( योगदृष्टि१७३) ।।१९।।
सुख-दुःखनिरूपणमकारि । स्वरूपाऽनुबन्धाभ्यां तदुभयलक्षणं तु तत्रैव आत्मवशं सुखं सत्यमात्मनो दुःखनाशकम्। परवशं सुखं नास्ति किन्तु दुःखं भृशं सदा ।। ← (अध्या.गी. २७४ /२७५) इत्येवमुपादर्शि श्रीबुद्धिसागरसूरिभिः । कामरागसमं दुःखं नैव भूतं भविष्यति ← ( प्रे. गी. २४७) इति प्रेमगीतावचनमप्यत्राऽनुस्मर्तव्यम् । स्पृहा सर्वाऽऽपदामेकसखी (महो. ३/३६ ) इति महोपनिषद्वचनमप्यत्र न विस्मर्तव्यम् । यदा भावेन भवति सर्वभावेषु निस्पृहा । तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम् ।। ← (सं.गी. ८ /७०) इति संन्यासगीतावचनमप्यनुयोज्यमत्र । अन्यत्रापि सन्तोषः परमं सौख्यमाकाङ्क्षा परमं दुःखं ← ( ) इत्युक्तमिति । स्वस्था आत्मनिष्ठता = आत्मरमणता परमं सुखं तथा परस्थता = पुद्गलनिष्ठता पुद्गलरमणता हि परमं दुःखमिति निष्कर्षः इति
निश्चयनयः ।
=
=
शुद्धव्यवहारनयस्तु परिणामचारु सुखं तदचारु च दुःखं यद्वा स्वस्वरूपाऽनुकूलं सुखं परस्वरूपानुकूलं च दुःखमिति न श्रुतादिज्ञानस्य शास्त्र - गुर्वाद्यधीनत्वेऽपि सुखत्वक्षतिर्न वा दुःखत्वापत्तिरित्याहेति नयमतभेदेनेदं तत्त्वमत्र भावनीयम् ।
इत्थञ्च दर्शितरीत्या ध्यानजमेव सुखं तत्त्वतः = परमार्थतः सुखं = सुखशब्दवाच्यम्, अपराSSयत्तत्वात्, कर्मवियोगमात्रत्वादिति यावत् ।
पुण्यप्रभवसुखस्य दुःखरूपतासमर्थनाय योगदृष्टिसमुच्चय (यो. दृ.स.१७३) संवादमाह - पुण्यापेक्षमिति । भावितार्थैवेयं कारिका । यत्तु योगसारप्राभृते ततः पुण्यभवा भोगा दुःखं परवशत्वतः । सुखं योगभवं ज्ञानं स्वरूपं स्ववशत्वतः ।। ← (यो.सा.प्रा. ९/१३ ) इत्येवं ज्ञानस्य सुखरूपत्वमुक्तं तत्तु तयोरभेदाभिप्रायेणावबोद्धव्यम्, प्रकाशशक्त्या ज्ञानात्मकस्यैवाऽऽत्मस्वरूपस्य निजरूपविश्रान्तिशक्त्या सुखशब्दवाच्यत्वात्। तदुक्तं अध्यात्मोपनिषदि प्रकाशशक्त्या यद्रूपमात्मनो ज्ञानमुच्यते । सुखं स्वरूपविश्रान्तिशक्त्या वाच्यं तदेव तु ।। ← ( अ. उप. २/११) इति । अधिकन्त्वस्मत्कृतायां अध्यात्मवैशारद्यां दृश्यम् ।।२४/१९।।
Jain Education International
આ રીતે ધ્યાનથી ઉત્પન્ન થયેલું સુખ જ પરમાર્થથી સુખ છે. પુણ્યોદયજન્ય સુખ એ પરમાર્થથી સુખ નથી. આવું સૂચિત થાય છે. તેથી યોગદૃષ્ટિસમુચ્ચય ગ્રન્થમાં જણાવેલ છે કે ‘પુણ્યસાપેક્ષ સુખ પણ આ રીતે પરવશ જ નક્કી થાય છે. તેથી તે દુઃખ જ છે. ધ્યાનજન્ય સુખ જ તાત્ત્વિક સુખ છે.’ (૨૪/૧૯) विशेषार्थ :- योगदृष्टिसमुय्यय, योगसार, ज्ञानसार, वैराग्यऽस्यतता, अध्यात्मतत्त्वासोङ, धर्मरत्नકરંડક આદિ શ્વેતાંબર આમ્નાયના ગ્રંથોમાં, યોગસારપ્રાકૃત, ઈષ્ટોપદેશ વગેરે દિગંબર આમ્નાયના ગ્રંથોમાં; મનુસ્મૃતિ, ભાગવત, બૃહન્નારદીયપુરાણ વગેરે જૈનેતર શાસ્ત્રોમાં, કવિતામૃતકૂપ વગેરે કાવ્યોમાં સુખदुःखनुं उपरोक्त लक्ष ४ जतावेस छे. आत्माथी भिन्न के के पुत्र, पत्नी, पैसो, परिवार, पर्यटन,
For Private & Personal Use Only
www.jainelibrary.org