________________
१६६६
• स्वातन्त्र्यात् परं न सुखम् •
द्वात्रिंशिका-२४/१९
अपि → सर्वं परवशं दुःखं, सर्वमात्मवशं सुखम् । एतद् विद्यात् समासेन लक्षणं सुख-दुःखयोः ।।
← (मनु. ४ / १६० ) इत्युक्तम् । सव्वं परवसं दुक्खं सव्वं इस्सरियं सुखं ← (उदान. २/९) इति उदानग्रन्थवचनमपि स्मर्तव्यमत्र । ऐश्वर्यं = आत्मैश्वर्यं विशुद्धगुणस्वरूपमित्यवधेयम् । अध्यात्मतत्त्वालोकेऽपि → सर्वं भवेदन्यवशं हि दुःखं, सर्वं भवेदात्मवशं हि सौख्यम् । सुखाऽसुखं वस्तुत एतदुक्तम् ← (अ.त.लो.३/१३०) इत्युक्तम् । पञ्चसूत्रेऽपि दुःखलक्षणं अविक्खा अणाणंदे ← (पं.सू. ५) इत्युक्तम् । यदपि महाभारते नास्ति रागसमं दुःखं, नास्ति त्यागसमं सुखम् ← ( म.भा. शांतिपर्व - १७५/ ३५) इत्युक्तं तदपि हेतुमुखेन तल्लक्षणमवगन्तव्यम् । एतेन ममता परमं दुःखं, निर्ममत्वं परं सुखम् ← (दे.भा.५/४/४६) इति देवीभागवतवचनं, आशा हि परमं दुःखं, नैराश्यं परमं सुखम् ← (भा.११-८-४४) इति भागवतवचनं च व्याख्यातम्, आशाया दुःखकारणत्वात् । तदुक्तं बृहन्नारदीयपुराणेऽपि आशा भङ्गकारी पुंसामजेयाऽरातिसन्निभा । तस्मादाशां जयेत् प्राज्ञो यदीच्छेच्छाश्वतं सुखम् ।। ← (बृ.ना.पु.३३/३४) । अत एवोक्तं धर्मरत्नकरण्डके वर्धमानसूरिभिः → आशापिशाचिका नित्यं देहस्था दुःखदायिनी । सन्तोषवरमन्त्रेण स सुखी येन नाशिता ।। ← ( ध.क. १३०) इति । तदुक्तं योगसारेऽपि नैरपेक्ष्यादनौत्सुक्यमनौत्सुक्याच्च सुस्थता । सुस्थता च परानन्दस्तदपेक्षां क्षयेद् मुनिः ।। ← ( यो. सा. ५/१४) इति ।
→ आशापत्नीं त्यजेद् यावत् तावन्मुक्तो न संशयः ← (मैत्रे. २।१२ ) इति मैत्रेय्युपनिषद्वचनं, → सेवाध्वजोऽञ्जलिर्मूनि हृदि दैन्यं मुखे स्तुतिः । आशाग्रहगृहीतानां कियतीयं विडम्बना ? ।। ← (सेव्य. १२) इति सेव्यसेवकोपदेशवचनं धिगिच्छामन्तवर्जिताम् ← (प.पु. ५/३०७) इति पद्मपुराणवचनं, → आशायाः खलु ये दासाः ते दासाः सर्वदेहिनाम् । आशा दासीकृता येन तस्य दासायते जगत् ।। ← (कवि. कू. २६) इति कवितामृतकूपवचनं, → आशाभिभूताः पुरुषा दुःखमश्नुवते क्षणात् ← (स्क.पु.वै.ख. मा. २०/१६/१७) इति स्कन्दपुराणवचनं पुरः फलायामाशायां जनः कामं विडम्ब्यते ← (वि.मा. ४ / १८) इति च विदग्धमाधववचनमपि प्रकृताऽर्थपरमेवाऽवसेयम् । सारसमुच्चयेऽपि → निर्ममत्वे सदा सौख्यं संसारस्थितिच्छेदनम् ← (सा.स.२३६) इत्युक्तम् । इष्टोपदेशे अपि परः परः, ततो दुःखमात्मैवाऽऽत्मा ततः सुखम् । अत एव महात्मानस्तन्निमित्तं कृतोद्यमाः ।। ← (इष्टो. ४५ ) इत्युक्तम् ।
इदमेवाभिप्रेत्योक्तं ज्ञानसारे प्रकृतग्रन्थकृतैव परस्पृहा महादुःखं निःस्पृहत्वं महासुखं । एतदुक्तं समासेन लक्षणं सुख-दुःखयोः ।। ← ( ज्ञा.सा. १२ / ८) इति । किमिह परमसौख्यं ? निःस्पृहत्वं यदेतत्, किमथ परमदुःखं ? सस्पृहत्वं यदेतत् । इति मनसि निधाय त्यक्तसङ्गाः सदा ये, विदधति जिनधर्मं ते नराः पुण्यवन्तः ।। ← (सु.र.सं. १४) इत्यपि सुभाषितरत्नसन्दोहगता अमितगतिसदुक्तिः नाऽत्र विस्मर्तव्या । तदुक्तं कृष्णगीतायामपि आत्माधीनं सुखं नित्यम् ← (कृ.गी. ९१ ) इत्यादि । अध्यात्मगीतायां अपि दुःखं भवति मोहेन, सुखं निर्मोहभावतः ← (अध्या.गी. ३१९) इत्येवं हेतुमुखेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org