________________
• पारतन्त्र्यात् परं न दुःखम् •
१६६५ सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुख-दुःखयोः ।।१९।।
सर्वमिति । सर्वं परवशं = पराऽधीनं दुःखम, तल्लक्षणयोगात् । सर्वमात्मवशं = अपराधीनं सुखम्, अत एव हेतोः। एतदुक्तं मुनिना समासेन' = सङ्केपेण लक्षणं = स्वरूपं सुख-दुःखयोः । स्वेतराऽवशं सुखं सदैवाऽस्यां प्रवर्तते । तदुक्तं योगदृष्टिसमुच्चये → ध्यानजं सुखमस्यां तु जितमन्मथसाधनम् । विवेकबलनिर्जातं शमसारं सदैव हि ।। - (यो.दृ.स.१७१) इति । प्रकृते → ध्यानेन हीनस्य कुतोऽस्ति सिद्धिः ? (उप.प्र.६१) इति उपदेशप्रकरणवचनमप्यनुसन्धेयम् ।।२४/१८॥
योगदृष्टिसमुच्चय(यो.दृ.स.१७२)कारिकासंवादेन सुख-दुःखव्याख्यामाविष्करोति- 'सर्वमिति । सर्वं = मद-मान-काम-रसाऽऽस्वादादिकं पराधीनं = रूपैश्वर्य-पत्नी-मिष्टान्नादिपरद्रव्याऽधीनं दुःखं एव, तल्लक्षणयोगात् = प्रतिकूलवेदनीयत्वात्मकस्य दुःखस्वरूपस्य सत्त्वात् । सर्वं = ऋजुता-नम्रता-सन्तोषक्षमा-निःस्पृहतादिकं अपराधीनं = स्वाधीनं सुखं एव, अत एव हेतोः = अनुकूलवेदनीयत्वात्मकस्य सुखस्वरूपस्य योगात्। उपकाराऽपकार-विपाकादिकमवलम्ब्य जायमानमृजुता-नम्रतादिकं तु न तत्त्वतः सुखम्, स्वमात्राऽधीनत्वाभावादिति । अनुकूलपत्नी-पुत्र-धन-नीरोगतादिकमपि पुण्याऽधीनत्वाद् दुःखमेवेति ध्येयम् । एतदुक्तं मुनिना = परममुनिना समासेन = अल्पाऽक्षरेण स्वरूपं = स्वलक्षणं सुख-दुःखयोः । एतदनुसारेण योगसारप्राभृतेऽपि अमितगतिना → सर्वं परवशं दुःखं, सर्वमात्मवशं सुखं । वदन्तीति समासेन लक्षणं सुख-दुःखयोः ।। - (यो.सा.प्रा.९/१२) इत्युक्तम् । तदुक्तं ग्रन्थकृताऽपि वैराग्यकल्पलतायां → सर्वं परवशं दुःखं, सर्वमात्मवशं सुखम् । बहिश्च परवत्ता ते, सुखं स्वाधीनमात्मनि ।। 6 (वै.क.ल.८। ४५८) इति। → पारतन्त्र्यात् परं दुःखं, न स्वातन्त्र्यात् परं सुखम् - (शु.नी.३ ।३२३) इति शुक्रनीतिवचनं, → सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत् सुखम् । कुतः तत्काम-लोभेन धावतोऽर्थेहया दिशः ?।। - (भा.७।११५/१६) इति च भागवतवचनं प्रकृतार्थानुपात्येव । मनुस्मृती
વિશેષાર્થ :- ધ્યાનનું નિરૂપણ પૂર્વે ૧૮ મી બત્રીસીમાં ૧૧ મી ગાથામાં જૈનદર્શન મુજબ કરેલ છે. અહીં પાતંજલદર્શન મુજબ ધ્યાનનું લક્ષણ બતાવેલ છે. માટે પુનરુક્તિ દોષને અવકાશ નથી. થોડી વાર મનને આજ્ઞાચક્રમાં રાખે, થોડી વાર પછી નાભિચક્રમાં રાખે, વચ્ચે-વચ્ચે આડા અવળા વિકલ્પો કરે તો તે ધ્યાન ન કહેવાય. પરંતુ ધારણાના એક જ વિષયમાં જ્ઞાનને એકસરખા પરિણામે पारी २५ ते ध्यान उपाय छे. (२४/१८)
सुण-मनी व्याण्या . ગાથાર્થ :- પરાધીન બધી ચીજ દુઃખરૂપ છે. જે સ્વાધીન છે તે બધું સુખ છે. આ સંક્ષેપથી सुख-दुःपर्नु वक्ष वायद छ. (२४/१८)
ટીકાર્ય - જે પરાધીન હોય તે બધું જ દુ:ખરૂપ છે. કારણ કે દુઃખનું લક્ષણ તેમાં રહેલું છે. જે પરાધીન ન હોય પણ સ્વાધીન હોય તે બધું જ સુખરૂપ છે. કારણ કે તેમાં સુખનું લક્ષણ રહેલું छ. महामुनिमामे संक्षेपमi मा सुष-दु:मनु सक्ष९॥ ४॥वेल छे. १. मुद्रितप्रतौ 'संक्षेपेण समासेन' इति पाठव्यत्ययः । स च मूलग्रन्थानुसारेणाऽशुद्धः प्रतिभाति । २. हस्तादर्श 'सुखयोः' इत्यशुद्धः त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org