________________
• प्राथमिक-परिपक्वध्यानयोः विभेदोपदर्शनम् • द्वात्रिंशिका-२४/१८ इति (यो.सू.३-२) । ततः = तस्मात् सुखं सारं = उत्कृष्टं आत्माऽऽयत्तं = पराऽनधीनं प्रवर्तते ॥१८॥ यदेव धारणायामालम्बनीकृतं तदालम्बनतयैव निरन्तरमुत्पत्तिः सा ध्यानमुच्यते - (यो.सू.३/२ रा.मा.)।
योगसुधाकरे सदाशिवेन्द्रस्तु → तत्र = यथोक्तदेशे प्रत्ययस्य एकतानता = एकविषयप्रवाहः, स च विच्छिद्य विच्छिद्य जायमानो ध्यानं भवति - (यो.सुधा.३/२) इत्याह । मणिप्रभाकृत् तु → यत्र धारणा विजातीयवृत्तिपरिहारे यत्नापेक्षा भवति तत्रैव या प्रत्ययानां = वृत्तीनां एकतानता = यत्नमनपेक्ष्यैकविषयता तद् ध्यानम् - (म.प्र.३/२) इत्याचष्टे । योगसुधाकरोक्तिः प्राथमिकध्यानापेक्षया मणिप्रभाकृदुक्तिस्तु परिपक्वध्यानाऽपेक्षया योजनीया। यम-नियमाऽऽसन-प्राणायाम-प्रत्याहार-धारणाभिर्ध्यानं निष्पद्यते । तदुक्तं विष्णुपुराणे खाण्डिकजनकं प्रति केशिध्वजेन → तद्रूपप्रत्ययैकाग्रसन्ततिश्चाऽन्यनिस्पृहा। तद् ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप !।। 6 (वि.पु.६/७/९१) इति । कूर्मपुराणे च → देशावस्थितमालक्ष्य बुद्धेर्या वृत्तिसन्ततिः । वृत्त्यन्तरैरसंस्पृष्टा तद् ध्यानं सूरयो विदुः ।। (कू.पु.उ.-११/४०) इत्युक्तम् । इत्थं धारणागोचरप्रत्ययैकतानताऽपि तन्त्रान्तरे ध्यानमुच्यते । __ तेजोबिन्दूपनिषदमुपजीव्य अपरोक्षानुभूतौ तु शङ्कराचार्येण → 'ब्रह्मैवाऽस्मीति सद्वृत्त्या निरालम्बतया स्थितिः । ध्यानशब्देन विख्याता परमानन्ददायिनी ।। - (अपरो. १२३) इत्येवं ध्यानलक्षणं वेदान्तदर्शनाऽनुसारेणोक्तम् । एतेन → ध्यानं निर्विषयं मनः - (मैत्रे. २।२) इति मैत्रेय्युपनिषद्वचनमपि व्याख्यातम्, निरालम्बनध्यानविषयकत्वात्तस्य । त्रिशिखिब्राह्मणोपनिषदि च → सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते 6 (त्रि.ना.३१) इत्येवं यदुक्तं तत्सालम्बनध्यानमधिकृत्याऽवसेयम् ।
यदपि → अथ ध्यानम् । तद् द्विविधं - सगुणं निर्गुणं चेति । सगुणं मूर्तिध्यानम् । निर्गुणमात्मयाथात्म्यम् - (शां.१ ७१) इत्येवं शाण्डिल्योपनिषदि निरूपितं तदपि सालम्बन-निरालम्बनतया ध्यानद्वैविध्यपक्षे समनुयोज्यम्। मण्डलब्राह्मणोपनिषदि तु → सर्वशरीरेषु चैतन्यैकतानता = ध्यानम् (मं.ब्रा.१।६) इत्येवं तल्लक्षणमद्वैतनयाऽनुरोधेनोक्तं तत् परसङ्ग्रहनयापेक्षयाऽत्राऽनुयोज्यम् ।
वस्तुतः सर्वत्र ध्याने देशनियमो नास्तीति 'तत्र'पदं ध्यानपरिचायकतयाऽवगन्तव्यम्, न तु तल्लक्षणघटकतया । अत एव गरुडपुराणे → तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादशधारणा ( (ग.पु.१/२२७/२५) इत्येवं कालमानगर्भं ध्यानस्य लक्षणान्तरमुक्तम् । तस्यैव = द्वादशप्राणायामकालेन धारितचित्तस्य द्वादशधारणाकालाऽवच्छिन्नं चिन्तनं ध्यानं प्रोक्तमित्यर्थ इति योगवार्तिके विज्ञानभिक्षुः (यो.वा.३/२) । एतेन → धारणा द्वादश प्रोक्तं ध्यानं योगविशारदैः - (यो.चू.११२) इति योगचूडामण्युपनिषद्वचनं व्याख्यातम् । जैनदर्शनाऽनुसारेणान्तर्मुहूर्त्तमानसच्चित्तैकाग्र्यं सूक्ष्माऽऽभोगसमन्वितं सद्ध्यानलक्षणं अप्यत्राऽनुसन्धेयम् । पूर्वं तुनोक्तं(पृ.१२३६) अधुनापिनोक्तमिति न पौनरुक्त्यमित्यवधेयं मीमांसामांसलैः । उपदेशपदवृत्तौ → ध्यानं = चित्तवृत्तिनिरोधः - (उप.प.८८९ वृ.) इत्युक्तं तत्तु नयविशेषाभिप्रायेणावसेयम् । ___तस्मात् = देहात्मविवेकविज्ञानसमुपजातसद्ध्यानाद् उत्कृष्टं = कामसुखातिशायि परानधीनं = ધ્યાનથી ઉત્કૃષ્ટ સુખ પ્રગટે છે. તે સુખ સ્વાધીન હોય છે, પરાધીન નથી હોતું. (૨૪/૧૮)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org