________________
१६७०
• प्रभायां सूक्ष्मभावदोषप्रतिघातपरायणता • द्वात्रिंशिका-२४/२१ सत्प्रवृत्तिपदं चेहाऽसङ्गाऽनुष्ठानसञ्जितम् । 'संस्कारतः स्वरसतः प्रवृत्त्या मोक्षकारणम् ।।२१।। ___ सदिति। सत्प्रवृत्तिपदं चेह प्रभायां असङ्गाऽनुष्ठानसंज्ञितं भवति, संस्कारतः प्राच्यप्रयत्नजात् स्वरसतः = इच्छानैरपेक्ष्येण प्रवृत्त्या = प्रकृष्टवृत्त्या मोक्षकारणम् ।। समिति-गुप्तिपरिपूरितसमाचरणेन, सम्प्रवर्तते चाऽत्र धीरता, कृताऽऽस्पदा चाऽस्यां गम्भीरता, अत्राऽतिप्रबलोऽवष्टम्भः, निरतिशयमौदार्य, सुस्थिरं स्वाभाविकञ्च प्रशमसुखाऽमृतम् । अयमवलम्बते द्रव्यापायादिषु दृढं धैर्य, ध्यायति दिवानिशं विशुद्धमात्मस्वभावं, विनाशयति भवपरम्परां, आसन्नीकरोति च परमपदम् । तदुक्तं भावप्राभृते अपि → जो जीवो भावंतो जीवसहावं सुभावसंजुत्तो । सो जर-मरणविणासं कुणइ, फुडं लहइ णिव्वाणं ।। - (भा.प्रा.६१) इति भावनीयम् । प्रकृते च → अथ सूक्ष्मभावदोषप्रतिघातपरायणः प्रशमपूर्णः । परिगलितलोकसंज्ञो, वैषयिकसुखे निराकाङ्क्षः ।। अक्ष्णोर्विमलालोकं, निदधात्यञ्जनमधीतपरमार्थः । तत्त्वप्रीतिकृदम्भः, पिबति च नित्यं पवित्रात्मा ।। विधिना भुङ्क्ते च महाकल्याणं चरणकरणचारुमतिः । धीतिरोजः स्वास्थ्यं, प्रस्फुरति ततो धाम हर्षश्च ।। - (वै.क.स्त.२/२४९-२५१) इति वैराग्यकल्पलतावचनविन्यासोऽपि यथागममनुयोज्य इति ।।२४/२०।।
योगावतारद्वात्रिंशिकायां (योगा.द्वा.२०/२५ पृ.१३८१) नामोत्कीर्तनमात्रेणोपदर्शितं इह च (द्वा.द्वा.२४/ १७ भाग-६ पृ.१६६२) सप्तदशकारिकायामुद्दिष्टं सत्प्रवृत्तिपदं लक्षयति- ‘सदिति । प्राच्यप्रयत्नजात् = प्रीति-भक्ति-वचनाऽनुष्ठानाऽभ्यासपरिपाककालीनविशुद्धान्तरङ्गयत्नजनिताद् निरवद्यानुष्ठानगोचरात् संस्कारतः = निजशुद्धचैतन्यस्वभावाऽभिमुखदृढतरसंस्कारात् इच्छानैरपेक्ष्येण = कर्तृत्व-भोक्तृत्वभावनिरपेक्षतयैव प्रकृष्टवृत्त्या = शुद्धिप्रकर्षप्राप्ताऽन्तरङ्गवृत्त्या मोक्षकारणं = अनागामिपदोपधायकं भवति। एतेन → न कुर्यान्न वदेत् किञ्चिद् न ध्यायेत् साध्वसाधु वा। आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ।। - (नारद.५/ २४) इति नारदपरिव्राजकोपनिषद्वचनमपि व्याख्यातम्, ससङ्गकर्तृत्व-भोक्तृत्वभावशून्यतया जडत्वोक्तिसङ्गतेः।
प्रकृते पूर्वोक्तं(पृ.१३०५,१३९६) → ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किञ्चित्कर्तव्यमस्ति चेत् ? न स तत्त्ववित् ।। (जा.यो.१ १२३) इति जाबालयोगवचनं→ यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः अथ मोऽमृतो भवत्यत्र ब्रह्म समश्नुते ।। - (कठो.२/३/१४) इति कठोपनिषद्वचनं
વિશેષાર્થ :- સાતમી દૃષ્ટિમાં રહેલા જિનકલ્પી વગેરે મહાત્માઓ અત્યંત નિર્મળ આત્મતત્ત્વબોધના લીધે સદા ધ્યાનમાં જ રહેલા હોય છે. અત્યંત જાગૃતિ, શ્રુતનું વિશિષ્ટ બળ વગેરેના લીધે ભિક્ષાટન, વિહાર આદિ ક્રિયા ધ્યાનબાધક બનતી નથી. (૨૪/૨૦).
૪ સપ્રવૃત્તિપદ = અસંગ અનુષ્ઠાન છે ગાથાર્થ :- સ...વૃત્તિપદ પ્રસ્તુતમાં અસંગ અનુષ્ઠાન નામે સમજવું. સંસ્કારના લીધે સ્વરસથી પ્રવૃત્તિ ७२। द्वारा ते सत्प्रवृत्ति५६ भोक्षy १२९ जने छे. (२४/२१)
ટીકાર્થ :- પ્રભા નામની સાતમી યોગદષ્ટિમાં પૂર્વે ૧૭ મી ગાથામાં જણાવેલ સમ્પ્રવૃત્તિપદ અસંગ અનુષ્ઠાન નામે હોય છે. પૂર્વકાલીન પ્રયત્નથી ઉત્પન્ન થયેલા દઢ સંસ્કારના કારણે, પ્રવૃત્તિ કરવાની ઈચ્છા કર્યા વિના જ સ્વરસથી જ પ્રવૃત્તિ = પ્રકૃષ્ટ વૃત્તિ કરાવવા દ્વારા સત્મવૃત્તિપદ = અસંગ અનુષ્ઠાન १. हस्तादर्श 'संस्कार' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org