________________
• कान्तायां मीमांसाप्रकार: •
१६६१ अकल्याणमित्रयोगः, धिक संसारविलसितम” इति प्रवर्धमानेन संवेगेन विदारयति क्लिष्टकर्माणि, क्वचिच्च प्रज्ञापनीयबालजनप्रतिबोधार्थं जल्पति परिमितं सुमधुरं वाग्जालं, तदप्रतिबोधे च निभालयति स्वात्मप्रयोजनं, उत्प्रेक्षते चित्तभावान्, निरूपयति सम्यक्, घटयति तत्त्वयुक्त्या, भावयति समभावेन, लक्षयति चित्तविश्रोतसिकां, प्रतिविधत्ते चाऽनागतमेवास्याः प्रतिविधानं, निर्मलयति सततं मानसमन्यमुद्दोषपरिहारेण, विशोधयति ज्ञानं ज्ञेयाऽभिष्वङ्गपरित्यागेन, विशदयति दर्शनं विषयाऽध्यासपरिमोचनेन, विघटयति चारित्रमोहं प्रशमगर्भेकान्तनिरवद्यकुशलाऽनुष्ठानोपादेयतापरिभावनेन, समुद्यच्छति स्वोचितकुशलाऽनुष्ठानेषु जीववीर्योत्कटतावशेन, स्वभ्यस्यति परिशुद्धभावयोगमार्ग परवैराग्यवशेन, स्थापयति चेतसि परमात्मानं, निबनाति तत्र धारणां, परित्यजति बहिर्विक्षेपं, यतते योगसिद्धौ, परिवेदयति स्वसंवेदनेन भगवद्वचनतात्पर्यार्थं, पश्यति स्फुटं सदा देहेन्द्रियादिविविक्तमात्मानं, निश्चिनोति निरुपमाऽऽनन्दरूपं परमपदं, आसन्नतरपरमपदतया केवलं भवविरक्तचित्तः वर्धमानशुभपरिणाम-प्रशस्ताध्यवसाय-विशुद्धतरलेश्यागर्भाऽध्यात्मशास्त्रश्रवण-मनन-निदिध्यासनाऽऽदियोगतो गमयति कालमिति ।
अस्याञ्च दृष्टौ स्थितो गृही अपि दशाविशेषे व्यवहारतः सकलसावधविरतमुनेः परिणामानप्यतिक्रामति । अत एव समरादित्य-राजकुमारं प्रति तन्मित्राणां → अहो ! विवेगो कुमारस्स, अहो भावणा, अहो भवविराओ, अहो कयन्नुया । सव्वहा न ईइसो मुणिजणस्स वि परिणामो होइ - (स.क.भव९/पृ.८७३) इत्येवं चिन्तनं हरिभद्रसूरिभिः समरादित्यकथायामावेदितमित्यवधेयम् ।।
स्यादेतत्- कर्मनिर्जराऽस्यां दृष्टौ समवस्थितस्य गृहिणोऽनन्तानुबन्धिकषायवियोजने दर्शनसप्तकक्षये वा क्षायोपशमिकसम्यग्दर्शनोपेतसाध्वपेक्षयाऽसङ्ख्येयगुणा प्रतिपत्तव्या। तदुक्तं तत्त्वार्थसूत्रे → सम्यग्दृष्टि-श्रावक-विरताऽनन्तवियोजक-दर्शनमोहक्षपकोपशमकोपशान्तमोह-क्षपक-क्षीणमोह-जिनाः क्रमशोऽसङ्ख्येयगुणनिर्जराः - (त.सू.९/४७) इति। अत एव सप्ततिकाऽभिधानषष्ठकर्मग्रन्थदर्शितरीत्योत्कृष्टतो गृहिणोऽपि क्षीणानन्तानुबन्धिकषायस्य साधिकद्वात्रिंशदुत्तरशतसागरोपमकालं यावत् क्षायोपशमिकदर्शनोपेतसाध्वपेक्षया प्रतिक्षणमसङ्ख्येयगुणकर्मनिर्जरा सम्पद्यते ततोऽप्यसङ्ख्येयगुणकर्मनिर्जरा क्षीणदर्शनसप्तकस्योत्कृष्टतः साधिकत्रयस्त्रिंशत्सागरोपणकालं यावत् प्रतिक्षणमुपजायत इति चेत् ? मैवम, अविरतसम्यग्दृशां निम्नगुणस्थानवर्तितया प्रतिक्षणं गुणश्रेण्यादिसम्पन्नसंयतापेक्षयाऽसख्यगुणनिर्जराया असम्भवात् । श्रेणिबहिर्वर्तिनोऽपि क्षपकस्य सर्वविरतिसम्पन्नस्यैव क्षायोपशमिकसम्यग्दर्शनोपेतसर्वविरतापेक्षयाऽसङ्ख्येयगुणा निर्जरा शास्त्रकृतां सम्मता । अत एव कर्मप्रकृतिचूर्णिकृता → संमत्तं उप्पाएंतो मिच्छदिट्ठी सो कम्मदलं थोवं खवेति, संमत्तनिमित्तं(संमत्तं)पडिवनस्स ततो असंखेज्जगुणा गुणसेढी भवति । ततो देसविरयस्स गुणसेढी असंखेज्जगुणा देसोवरमत्तातो । ततो संजमगुणसेढी असंखेज्जगुणा सव्वोवरमत्तातो । अणंताणुबंधिविसंजोयणागुणसेढी असंखेज्जगुणा हेट्ठिल्लाण तिण्हं अणंताणुबंधिणो खवेंताणं, तत्थ संजयं पडुच्च तिकरणसहितो अणंताणुबंधिणो खवेतित्ति काउं । ततो दंसणमोहखवगसेढी असंखेज्जगुणा, जेणं अणंताणुबंधिणो खवेत्तु विसुद्धतरो दंसणतिगं खवेति । एए सवे असेढिगया लब्भंति - (क.प्र.निधत्तिकरण-गा.८-९, चू.पृ.४६८) इत्युक्तमिति भावनीयम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org