________________
१६६०
असंसक्तिभूमिकासमवतारः
द्वात्रिंशिका -२४/१६
पणेऽत्र भाति । तत्त्वप्रकाशे च महोज्ज्वलत्वेऽसमञ्जसस्याऽपि कुतः प्रचारः ? ।। ← (अ.त. ३/ १२६) इति । प्रकृते → उत्तमा तत्त्वचिन्तैव मध्यमं शास्त्रचिन्तनम् ← (मैत्रे. २ /२१) इति मैत्रेय्युपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । तादृशमीमांसाप्रभावादेवेन्द्रियवञ्चनादिद्वारा वैराग्यमत्र परिपक्वतामुपैति । तदुक्तं अध्यात्मसारे →
•
वञ्चनं करणानां तद् विरक्तः कर्तुमर्हति । सद्भावविनियोगेन सदा स्वान्यविभागवित् ।। प्रवृत्तेर्वा निवृत्तेर्वा न सङ्कल्पो न च श्रमः । विकारो हीयतेऽक्षाणामिति वैराग्यमद्भुतम् ।। दारुयन्त्रस्थपाञ्चालीनृत्यतुल्याः प्रवृत्तयो । योगिनो नैव बाधायै ज्ञानिनो लोकवर्तिनः ।। इयञ्च योगमायेति प्रकटं गीयते परैः । लोकाऽनुग्रहहेतुत्वान्नास्यामपि च दूषणम् ← (अ.सा. ५/३१-३४ ) इति । 'अस्यां कान्तायाम्' । शिष्टं स्पष्टम् । केवलं कर्मपारवश्येन भोगजम्बालप्रवृत्तोऽपीह तीव्रसंवेगपरायणतयेन्द्रियवञ्चन-संवर-निर्जराऽऽत्मविशुद्धयादिकं कान्तायामवस्थितः साधयतीति महान् चमत्कार आयतौ भोगाऽ संसर्गफलतयाऽवसेयः । अत एव पूर्वं (द्वा.द्वा.२०/२७ भाग - ५ पृ. १४०१ ) संन्यासगीतासंवादेनोद्दिष्टां सप्तविधकर्मयोगाऽन्तर्गतां शुभेच्छाविचारणातनुमानसी-सत्त्वापत्त्युत्तरकालीनां दशाचतुष्टयाऽभ्यासादसंसर्गफला तु या । रूढसत्त्वचमत्कारा प्रोक्ताऽसंसक्तिनामिका ।। ← ( वरा. ४ /७, रा.गी. ७ ।९) इत्येवं वराहोपनिषद् - रामगीताव्यावर्णितस्वरूपां पञ्चमीं असंसक्तिनाम्नीं कर्मयोगभूमिकामारोहति कान्तायामवस्थितो योगीति दृढतरमवधेयम् । इयमेवाSसंसक्त्याख्या दशा महोपनिषदि ( महो. ५ / ३१) ज्ञानयोगभूमिकारूपेणोपदर्शितेति साऽपीह समवतारिताSवसेया बहुश्रुतैः ।
=
भोगतृष्णाप्रविलयेनाऽऽत्मानन्दोऽत्र घनीभवति येन बाह्ये जगति प्रवृत्तोऽपि परमार्थतः सुषुप्त एवाऽवसेयः कान्तायामवस्थितो योगी । एतेन आनन्दैकघनाऽऽकारा सुषुप्ताऽऽख्या तु पञ्चमी ← (अन्न.५/८८) इति अन्नपूर्णोपनिषदुपदर्शिता पञ्चमी भूमिकाऽत्राऽवतारिता द्रष्टव्या । कान्तायां विज्ञानधाराया विशुद्धतरत्वाद् आनन्दधाराया घनीभूतत्वाद्, आंशिकस्याऽपि भवभयस्योन्मूलितत्वाच्च जीवन्मुक्तदशाभास्करस्योदयोऽकृत्रिमः समुपतिष्ठते । एतेन शुद्धसंविन्मयाऽऽनन्दरूपा भवति पञ्चमी । अर्धसुप्तप्रबुद्धाऽऽभो जीवन्मुक्तोऽत्र तिष्ठति ।। ← ( अन्न ५ / ८३ ) इति अन्नपूर्णोपनिषद्वचनमपि व्याख्यातम्, तत्प्रदर्शिता च पञ्चमी भूमिकाऽत्र समवतारिता समर्थिता च द्रष्टव्या ।
अस्यां च अवस्थितो योगी पूर्वकालाभ्यासवशेन अनुरज्यतेतरामध्यात्मशास्त्रेषु, मीमांसते सदन्वयव्यतिरेकाभ्यां यथानयं, सस्पृहं चिन्तयति तानि यथावस्थितनिश्चयवृत्त्या, प्रयुङ्क्ते स्वगोचरे, विचारयति कर्मसिद्धान्तं, समालम्बते द्रव्यापदादिषु धैर्यं, न अध्युपपद्यते शरीरसत्कारादिषु न सेवतेऽनुचितग्रामधर्मान्, न क्रीडति विचित्रक्रीडाभिः, न प्रार्थयति विषयसौख्यम्, इन्द्रियश्रिया युक्तोऽपि न गृह्यते मदेन, न मुच्यते आर्जवतया, गच्छति सर्वत्र भावसारं संवेगं, कुचेष्टाप्रवृत्तविषयाऽऽसक्तकामिजनदर्शने “ अहो ! अपूर्वं किमपि मोहसामर्थ्यं, अहो ! कुगतिनयनप्रवणा अकार्यधीरता, अहो ! रौद्रा विषयपरिणतिः, अहो ! दारुणविपाकं प्रमादचेष्टितं, अहो ! विचित्रा कर्मपरिणतिः, अहो ! अपरमार्थदर्शिता, अहो ! अदीर्घदर्शिता, अहो ! अनादिऽभवाभ्यस्ता अशुभभावना, अहो ! कष्टं अनालोचकत्वं, अहो ! कष्टकारी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org