SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १६५८ • अनुत्तरसुराणां कान्ता दृष्टि: • द्वात्रिंशिका-२४/१५ श्रित्य यतिभावः = साधुकल्पत्वं एव, संसारस्थतीर्थकरादिवत् । देहाऽऽत्मविवेकज्ञानगर्भवैराग्यप्रकर्षे सत्यपि चारित्रमोहोदयमात्रात् = चारित्रधर्मान्तरायोदयमात्रात् केवलं न संयमस्थानलाभः, न तु तद्विरोधिपरिणामलेशतोऽपि = संयमाऽध्यवसायविघटकपरिणामलवमप्याश्रित्य । एतेन → गोयमा ! जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे कडे भवति से णं असोच्चा केवलिस्स वा केवलिसावगस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलीउवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वा केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा । जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भवति से णं असोच्चा केवलिस्स वा जाव मुंडे भवित्ता अगाराओ अणगारियं णो पव्वएज्जा - (व्या.प्र.९।४।३६५) इति भगवतीसूत्रवचनप्रबन्धोऽपि व्याख्यातः । धम्मंतराइयाणंति अन्तरायः = विघ्नः सोऽस्ति येषु तानि अन्तरायिकाणि। धर्मस्य चारित्रप्रतिपत्तिलक्षणस्याऽन्तरायिकाणि = धर्मान्तरायिकाणि, तेषां = वीर्यान्तरायचारित्रमोहनीयभेदानामित्यर्थः” (भ.सू.९।४।३६५ वृत्ति) इति तद्वृत्तौ अभयदेवसूरयः । ततश्च प्रकृते कान्तायामवस्थितानां अन्तःकरणं तु → ता कइया तं सुदिणं सा सुतिही तं भवे सुनक्खत्तं? । जंमि सुगुरुपरतंतो चरणभरधुरं धरिस्समहं ।। (द.शु.११३) इत्येवं दर्शनशुद्धिप्रकरणदर्शितभावनाभावितमेवाऽऽस्ते । तदुक्तं पञ्चलिङ्गिप्रकरणे अपि सम्यग्दृष्टिभावनाप्रदर्शनावसरे → कइया होही सो वासरुत्ति गीयत्थगुरुसमीवंमि । सव्वविरयं पव्वज्जिय विहरिस्सामि अहं जम्मि ।। - (पं.लि.२५) इति । तदुक्तं साक्षेपपरिहारं अध्यात्मसारे → चतुर्थेऽपि गुणस्थाने नन्वेवं तत् प्रसज्यते । युक्तं खलु प्रमातॄणां भवनैर्गुण्यदर्शनम् ।। सत्यं चारित्रमोहस्य महिमा कोऽप्ययं खलु । यदन्यहेतुयोगेऽपि फलाऽयोगोऽत्र दृश्यते ।। दशाविशेषे तत्राऽपि न चेदं नाऽस्ति सर्वथा । स्वव्यापारहृतासङ्गं - (अ.सा.५/१०-११-१२) इति । प्रकृतिरेव तेषां शीतला पानीयवत् केवलं धूमध्वजस्थानीयक्लिष्टकर्मोदयमात्रादुपजायमाना भोगप्रवृत्तिः क्वाचित्की कादाचित्की औष्ण्यस्थानीया झटिति पुनर्निवर्तत एव । एतेन → उष्णत्वमग्न्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य (रघु.५/५४) इति रघुवंशवचनमपि व्याख्यातम् । वीतरागस्तोत्रेऽपि → यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम विरक्तत्वं तदाऽपि ते ।। 6 (वी.स्तो.१२/४) इत्युक्तमिति प्रागुक्तं(पृ.४०) स्मर्तव्यम् । साधिकषट्षष्टिसागरोपमस्थितिकावधिज्ञानवतामन्येषां वा तथाविधवैराग्यशालिनां गर्भावस्थायामपि न वैराग्यव्याहतिः, किं पुनः तदुत्तरम्? तदुक्तं अध्यात्मसारे → अत एव महापुण्यविपाकोपहितश्रियाम् । गर्भादारभ्य वैराग्यं नोत्तमानां विहन्यते ।। - (अ.सा.५/२६) इति । अनुत्तरसुराणामपि कान्ता दृष्टिरेव सम्भवति । केवलं ते → आत्मानं सततं ज्ञात्वा कालं नय महामते !। प्रारब्धमखिलं भुञ्जन् नोद्वेगं कर्तुमर्हसि ।। उत्पन्ने तत्त्वविज्ञाने प्रारब्धं नैव मुञ्चति । (ना.बि.२१/२२) इति नादबिन्दूपनिषदादिदर्शितरीत्या कालमेव यापयन्तीत्यादिकं यथातन्त्रमत्रोहनीयम् । एतेन ‘सम्मत्तदंसी न करेइ पावं' (आचा.१०/३/२) इति पूर्वोक्तं(पृ.९६७) आचाराङ्गवचनं, 'जं વિશેષાર્થ:-પાણી સ્વભાવથી શીતળ હોય છે. પણ ચૂલા ઉપર ગરમ કરવામાં આવે તો ગરમી પકડે છે. પણ ચૂલાની નીચે ઉતારવામાં આવે કે ઉષ્ણતા ઘટતી જાય છે. પાણી ફરીથી ઠંડુ થાય છે. તેમ કાન્તા દષ્ટિમાં રહેલા યોગી સ્વભાવથી તૃપ્ત Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy