________________
• चारित्रविरोधिपरिणामविरहेऽपि चारित्राऽलाभः •
कान्तायां तु धारणया ज्ञानोत्कर्षान्न तथात्वमपि तेषाम् । 'गृहिणामप्येवंविधदशायामुपचारतो यतिभाव एव । चारित्रमोहोदयमात्रात्केवलं न संयमस्थानलाभः । न तु तद्विरोधिपरिणामलेशतोऽपीत्याचार्याणामाशयः ।। १५ ।।
सारवचनात् स्थिरायां ज्ञानधारायाः शुद्धत्वमेव । न च व्युत्थानदशायामुपयोगाऽशुद्धत्वमपि सम्भवतीति प्रणिधान-लब्धि-शक्ति-क्षयोपशमाद्यव्यक्तरूपेणैव शुद्धत्वं ज्ञानज्ञारयाः स्यादिति शङ्कनीयम्, तथा सति 'शुद्धैव संस्कारधारा स्यादिति वक्तव्यताऽऽपत्तेः । एतेन भोगप्रवृत्तिकाले उपयोगाऽशुद्धत्वेऽपि ततः पूर्वं पश्चाद्वा वैराग्यपश्चात्तापादिभावेन ज्ञानधारायाः शुद्धत्वमिति निरस्तम्, 'मधुरं किम्पाकफलं दारुणापायकारी’तिवत् 'सर्वाङ्गीणाह्लादजनका इमे भोगाः पर्यन्तदारुणा' इति संवेदनस्य सम्भवेन भोगप्रवृत्तिकालेऽपि ज्ञानधारायाः शुद्धत्वोपपत्तेः । इत्थमेव सम्यग्दृशो विशुद्धत्वं सर्वास्वपि दशास्वतः ← (अ.सा. १८/१५१ ) इति अध्यात्मसारवचनोपपत्तेः । यद्वाऽस्तु सम्यग्दृशः हेयोपादेयगोचरसंवेदनधारायाः शुद्धत्वेऽपि भोगप्रवृत्तौ कदाचित् संविज्ञानधाराया अशुद्धत्वमपि स्यात् । न चोपयोगस्य विज्ञानलक्षणतयैकविधत्वात् ज्ञानधारायाः शुद्धत्वे संविज्ञानधाराया अपि शुद्धत्वमेव, तयोरैक्यादिति वाच्यम्, संवेदनात्मकोपयोगे विज्ञानलक्षणोपयोगभिन्नत्वस्य शास्त्रसिद्धत्वात् । तदुक्तं सिद्धसेनगणिभिः तत्त्वार्थटीकायां → उपयोगस्तु द्विविधा चेतना ( १ ) संविज्ञानलक्षणा (२) अनुभवनलक्षणा च ← (त.सू.२ । २० । वृत्ति पृष्ठ-१६८) इति । संविज्ञानं वस्तुनो बहिरङ्गस्वरूपगोचरं, अनुभवनं तु वस्तुनोऽन्तरङ्गस्वरूपगोचरमित्यनयोर्महान् भेदो वर्तते । भोगादिप्रवृत्तावपि 'इदमतात्त्विकमुपाधिरूपमुपाधिजनितमुपाधिजनकमाभासिकमेव सुखमि ति प्रणिधानगर्भस्य हेयोपादेयगोचरस्य संवेदनस्य तु शुद्धत्वमेव । स्थिरायामार्त्तध्यान- कृष्णलेश्यादिपारवश्येन ‘कमनीयामेनां कन्यां बलादुपभोक्ष्ये, तं च हनिष्यामीत्यादिरूपायाः संविज्ञानधारायाः अशुद्धत्वमप्यनपलपनीयं सत्यक्याद्युदाहरणतः । कान्तायां तु संविज्ञानधारायाः अपि शुद्धप्रायत्वम्, भोगाऽनाक्षेपकशुद्धचैतन्यसंवेदनाऽऽक्षेपकचित्तोत्कर्षात् । अत एव स्थिरापेक्षया कान्तायां वैराग्यस्याप्युत्कर्षोऽप्रत्याख्येयः । एतेन न दोषदर्शनाच्छुद्धं वैराग्यं विषयाऽऽत्मसु । मृदुप्रवृत्त्युपायोऽयं तत्त्वज्ञानं परं हितम् ।। ← (सि.द्वा.द्वा.१०/११) इति सिद्धसेनदिवाकरकृतद्वात्रिंशिकावचनमपि व्याख्यातम् । अविमणे वीरे, तम्हा वीरे न रज्जइ ← ( आचा. १।२ । ६ ) इति आचाराङ्गसूत्रोक्तिरपि गम्भीरधियाऽत्र योजनीया नानानयाऽभिप्रायकुशलैः ।
१६५७
गृहिणामपि = चतुर्थ-पञ्चमगुणस्थानकाऽवस्थितानामपि एवंविधदशायां = कान्तायां दृष्टौ भोगशक्तेः भोगैकनाश्यकर्मक्षयसहायकत्वाऽवस्थायां उपचारतो = 'वर्तमानसमीपे वर्तमानवद्वा' इत्यादिन्यायबलोत्थोपचारमा
જ્યારે કાન્તા દૃષ્ટિમાં તો ધારણા બળવાન હોવાથી સમ્યક્ જ્ઞાનનો ઉત્કર્ષ થવાથી સુખાનુભવના અંશમાં ભોગસુખો પ્રમાદના સહકારી બનતા નથી. ગૃહસ્થને પણ આવી કાન્તાદૃષ્ટિની નિર્મળ ઊચ્ચ દશામાં ઔપચારિક રીતે સાધુપણું જ હોય છે. માત્ર ચારિત્રમોહનીય કર્મના વિપાકોદયના લીધે સંયમસ્થાનનો તેમને લાભ નથી થયો હોતો- આટલો જ ફરક હોય છે. પરંતુ ચારિત્રના વિરોધી પરિણામનો તો એક અંશ પણ તેમનામાં નથી હોતો કે જેના લીધે તે કાન્તાદૃષ્ટિવાળા ગૃહસ્થોને સંસારમાં રહેવું પડે આ પ્રમાણે શ્રીહરિભદ્રસૂરિજી મહારાજનો આશય હોય તેમ ગ્રંથકાર મહોપાધ્યાયજી મહારાજ જણાવે છે. (૨૪/૧૫) १. मुद्रितप्रतौ 'गृहिणी' इति पाठः ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org