________________
• स्थिरा-कान्तादृष्ट्योः भेदसाधनम् • द्वात्रिंशिका-२४/१५ यद्यपि स्थिरायामपि ज्ञानाऽपेक्षया भोगानामकिञ्चित्करत्वमेव, तथापि तदा(दं)शे प्रमादसहकारित्वमपि तेषाम् ।
दुष्करं क्षुद्रसत्त्वानामनुष्ठानं करोत्यसौ । मुक्तौ दृढाऽनुरागत्वात्कामीव वनितान्तरे ।। उपादेयविशेषस्य न यत्सम्यक्प्रसाधनम् । दुनोति चेतोऽनुष्ठानं तद्भावप्रतिबन्धतः ।। ततश्च दुष्करं तन्न सम्यगालोच्यते यदा । अतोऽन्यद् दुष्करं न्यायाद्धेयवस्तुप्रसाधकम् ।। व्याधिग्रस्तो यथाऽऽरोग्यलेशमास्वादयन् बुधः । कष्टेऽप्युपक्रमे धीरः सम्यक्प्रीत्या प्रवर्तते ।। संसारव्याधिना ग्रस्तस्तद्वज्ज्ञेयो नरोत्तमः । शमाऽऽरोग्यलवं प्राप्य भावतस्तदुपक्रमे ।। प्रवर्तमान एवं च यथाशक्ति स्थिराशयः । शुद्धं चारित्रमासाद्य केवलं लभते क्रमात् ।।
6 (शा.वा. ९/८-२०) इति । इदञ्चाऽत्र यथासम्भवं योज्यमागममर्मवेदिभिः ।
यद्यपि स्थिरायामपि दृष्टौ ज्ञानाऽपेक्षया = देहेन्द्रियादिविवेकज्ञानाऽपेक्षया भोगानां = इन्द्रियाऽर्थसम्बन्धानां अतितप्ताऽयःकटाहगतकतिपयजलबिन्दूनामिव अकिञ्चित्करत्वमेव = विवेकज्ञानकार्याधिककार्याऽकारित्वमेव, विवेकज्ञानप्रभावेन शुद्धचैतन्यांशे स्वतादात्म्याऽनुभवात् । न हि ग्रन्थिभेदोत्तरभेदविज्ञानमाहात्म्येन शुद्धचैतन्यांशे स्वास्तित्वाऽनुभवे सति सोपाधिकधर्मेष्वेकत्वबुद्धिः सम्भवति । इदमेवाभिप्रेत्य धर्मपरीक्षावृत्तौ → स्वाभाविकधर्मज्ञानसामग्र्या औपाधिकधर्मज्ञानमात्रं प्रति प्रतिबन्धकत्वात् + (ध.प.वृ. ९८ वृत्ति) इत्युक्तं तथापि तदंशे = सुखाऽनुभवांऽशे तेषां भोगानां प्रमादसहकारित्वमपि = अभिष्व
गादिसहकारित्वमपि सम्भवतीति स्थिरायां भोगशक्तिः कथञ्चिद् धर्मशक्तिं विरुणद्धि अपि । कान्तायां तु दृष्टौ धारणया = शुद्धचैतन्यस्वभावगोचराऽन्तःकरणस्थिरीकरणलक्षणया षष्ठयोगाङ्गात्मिका ज्ञानोत्कर्षात् = विवेकज्ञानप्रकर्षात् हेतोः तेषां भोगानां न तथात्वमपि = नैव अभिष्वङ्गादिसहकारित्वं सम्भवति । अत एव न तन्निमित्तः कर्मबन्धः कान्तायां सम्भवति । तदुक्तं अध्यात्मसारे →
धर्मशक्तिं न हन्त्यत्र भोगयोगो बलीयसीम् । हन्ति दीपाऽपहो वायुर्व्वलन्तं न दवानलम् ।। बध्यते बाढमासक्तो यथा श्लेष्मणि मक्षिका । शुष्कगोलवदश्लिष्टो विषयेभ्यो न बध्यते ।। 6 (अ.सा.५/२०,२१) इति । किञ्च स्थिरायां प्रागुक्तरीत्या (द्वा.द्वा.२४/७ भाग-६ पृ.१६३८) भोगाऽसारताविभावनेन भोगेच्छाविरतिर्जायते कान्तायां तु स्पष्टतराऽऽत्मतत्त्वसंवेदनप्राबल्येन सोपजायत इत्यप्यनयोर्भेदोऽनाविल एव । स्थिरामधिकृत्य → यथा यथा न रोचन्ते विषयाः सुलभा अपि । तथा तथा समायाति संवित्तौ तत्त्वमुत्तमम् ।। (इष्टो.३८) इति इष्टोपदेशवचनं शुद्धव्यवहारनयाभिप्रायेण सङ्गच्छते । कान्तामधिकृत्य तु → यथा यथा समायाति संवित्तौ तत्त्वमुत्तमम् । तथा तथा न रोचन्ते विषयाः सुलभा अपि ।। 6 (इष्टो.३७) इति इष्टोपदेशवचनं शुद्धनिश्चयनयाभिप्रायेणोपपद्यते । → शुद्धैव ज्ञानधारा स्यात् सम्यक्त्वप्राप्त्यनन्तरम् + (अ.सा.१८/१५०) इति अध्यात्म
જ સ્થિર અને કના દષ્ટિનો તફાવત છે यद्य. । स्थिर दृष्टिमा ५९ शाननी हटिस भोगसुषो is aut शत। नथी. तेम છતાં સુખાનુભવના અંશમાં ભોગસુખો પ્રમાદના સહકારી પણ બને છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org