________________
• भोगानुपधानेऽवश्यभोग्यकर्मक्षयाऽयोगः •
१६५५ न तु निर्बलत्वेन तां विरुणद्धीति ।। सन्तो जलेण वा पोक्खरिणीपलासं ।। 6 (उत्त.३२/९९) इति । युक्तञ्चैतत् । न हि मालतीकुसुममकरन्दरसाऽऽस्वादलीनस्य भ्रमरस्य करीरवनगोचरा स्वारसिकी स्पृहा सम्पद्यते ।
एतेन भोगशक्त्यनलगतं योगकाष्ठं भस्मसाद् भवतीति कल्पनाऽपीह निरस्ता । न ह्युदकार्दै चिरकालत उदकपरिभावितमुदकगतञ्च काष्ठं दहनेन ज्वालयितुं शक्यते कात्न्येन । इत्थञ्च सर्वत्र सदैव प्रायशः श्रुतभावावबोधनियन्त्रिततया तथाविधेन्द्रियप्रवृत्तेरपि गुणोत्पादकत्वं तु मरणसमाधिप्रकीर्णके → हुति गुणकारकाई सुयरज्जूहिं धणियं नियमियाइं । नियगाणि इंदियाइं (म.स.६२३) इत्यादिना प्रसिद्धमेव । तदुक्तं महाभारते अपि → कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते - (म.भा.शांतिपर्व २४०/७) इति । यद्वा → अन्ने खलु कामभोगा, अन्नो अहमंसि (सृ.क.२।१।१३) इति प्रागुक्त (पृ.१६४८) सूत्रकृताङ्गसूत्रतात्पर्यगोचरसदभिनिवेशशालिनं कान्ताऽवस्थितं प्रति परिणामसुन्दरत्वेन तदानीं तादृशप्रवृत्तेः गुणरूपता → जो उ गुणो दोसकरो ण सो गुणो दोसमेव तं जाणे। अगुणो वि होति उ गुणो विणिच्छओ सुंदरो जस्स ।। 6 (नि.भा.५८७७/बृ.क.भा.४०५२) इति निशीथभाष्य-बृहत्कल्पभाष्यवचनादेव सिद्धा। तदुक्तं अध्यात्मसारे अपि → यस्मिन्निषेव्यमाणेऽपि यस्याऽशुद्धिः कदाचन । तेनैव तस्य शुद्धिः स्यात् कदाचिदिति हि श्रुतिः ।। - (अ.सा.५/२३) इति । यदपि अध्यात्मगीतायां → अल्पं कर्म प्रबध्नाति करोति बहुनिर्जराम् । भुञ्जन् हि सर्वभोगान् स ज्ञानी याति शिवं रयात् ।। कर्मणो निर्जरा बह्वी स्वल्पबन्धोऽस्ति देहिनाम् । ज्ञानिनां हि गृहवासवर्तितीर्थङ्करादिवत् ।।
6 (अध्या.गी.१६७,१८५) इत्युक्तं तदपीह कान्तायां दृष्टौ योज्यम् ।
युक्तञ्चैतद्, यतो भोगशक्त्या भोगाऽनुपधाने अवश्यभोग्यकर्मक्षयोऽपि नैव स्यात् । न हि घटानुत्पादे घटध्वंसः सम्भवति, प्रतियोगिनोऽपि स्वध्वंसं प्रति कारणत्वात् । अतो निर्बलत्वेन भोगशक्तिः भोगैकनिवर्तनीयकर्मोच्छेदप्रवणां तां = बलीयसी धर्मशक्तिं न तु = नैव विरुणद्धि = भोगान्तरोपनायकसंस्काराऽऽधानलक्षणं विरोधमुपदधाति । ततश्च मिथ्यात्वाऽनन्तानुबन्धिकषायक्षयोपशमजनितभावाऽऽरोग्यमास्वादयन् मुक्त्यनुष्ठानस्य सुकरत्वमुपादेयत्वञ्च चिन्तयन् संसारव्याध्यौषधभूते तीव्राऽऽदरोपहितसदनुष्ठाने यथाशक्ति प्रवर्तमानः चारित्रमासादयति स्थिराशयः सन् । तदुक्तं शास्त्रवार्तासमुच्चये →
सति चास्मिन्नसौ धन्यः सम्यग्दर्शनसंयुतः । तत्त्वश्रद्धानपूतात्मा रमते न भवोदधौ ।। स पश्यत्यस्य यद्रूपं भावतो बुद्धिचक्षुषा । सम्यक्शास्त्राऽनुसारेण रूपं नष्टाऽक्षिरोगवत् ।। तद् दृष्ट्वा चिन्तयत्येवं प्रशान्तेनाऽन्तरात्मना । भावगर्भ यथाभावं परं संवेगमाश्रितः ।। जन्म-मृत्यु-जरा-व्याधि-रोग-शोकाद्युपद्रुतः । क्लेशाय केवलं पुंसामहो ! भीमो महोदधिः ।। सुखाय तु परं मोक्षो जन्मादिक्लेशवर्जितः । भयशक्त्या विनिर्मुक्तो व्याबाधावर्जितः सदा ।। हेतुर्भवस्य हिंसाऽऽदिर्दु:खाद्यन्वयदर्शनात् । मुक्तेः पुनरहिंसादिाबाधाविनिवृत्तितः ।। बुद्ध्वैवं भवनैर्गुण्यं मुक्तेश्च गुणरूपताम् । तदर्थं चेष्टते नित्यं विशुद्धात्मा यथागमम् ।।
પણ નિર્બળ હોવાના કારણે તે ભોગશક્તિ ધર્મશક્તિને ખતમ કરી શકતી નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org