________________
१६५४
• स्त्रिया इव धर्मशक्तेः पुरुषायितत्वम् • द्वात्रिंशिका-२४/१५ विरोधिनोऽपि निर्बलस्याऽकिञ्चित्करत्वात् । अत्र दृष्टान्तमाह- दीपाऽपहो = दीपविनाशको वायुर्व्वलन्तं दवानलं न हन्ति । प्रत्युत बलीयसस्तस्य सहायतामेवाऽऽलम्बते । इत्थमत्र धर्मशक्तेरपि बलीयस्या अवश्यभोग्यकर्मक्षये भोगशक्तिः सहायतामेवाऽऽलम्बते । ____ननु विपक्षवर्गाऽन्तर्गतस्य हि स्वरूपमेव सुदुर्लभं, प्रागेव कार्यकरणम् । न खलु दहनाऽन्तर्गतं बीजं त्रिचतुरक्षणावस्थितमुप्तमप्यकुरायोपकल्पते । अतोऽनादिकालतो प्रवृत्ता भोगशक्तिर्दहनस्थानीया बीजस्थानीयां धर्मशक्तिं हन्यादेवेति चेत् ? अत्रोच्यते, विरोधिनोऽपि = धर्मशक्तिविरोधिनोऽपि भोगसामर्थ्यस्य निर्बलस्य अकिञ्चित्करत्वात् = विरोध-विघातादिकारित्वविरहात् । यथा सुरतविशेषे पुरुषस्य स्त्रीधर्माऽनुकारित्वं स्त्रियाश्च पुरुषायितं सम्पद्यते तथैव कान्तायां धर्मशक्तेरनलस्थानीयत्वं अनादिकालप्रवृत्तत्वेऽपि भोगशक्तेश्च बीजस्थानीयत्वमुपसम्पद्यत एवेति क्षीयमाणा भोगशक्तिर्न भोगान्तराऽऽक्षेपकसंस्काराऽङ्कुरायोपकल्पतेऽत्र । यदुक्तं उपदेशपदे → परिसुद्धाऽऽणाजोगा पाएणं आयचित्तजुत्ताणं । अइरोदं पि हु कम्मं ण फलइ तहभावओ चेव ।। 6 (उप.प.३२३) इति । प्रत्युत बलीयस्या धर्मशक्तेः परिशुद्धाज्ञायोगरूपाया अवश्यभोग्यकर्मक्षये = भोगैकनिवर्तनीयकर्मोच्छेदे भोगशक्तिः सहायतामेव आलम्बते । इत्थञ्च → उत्पद्यमाना रागाद्या विवेकज्ञानवह्निना । यदा तदैव दह्यन्ते कुतस्तेषां प्ररोहणम् ?।। ( (वरा.३/२४) इति वराहोपनिषदुक्तिरप्यत्र लब्धावकाशाऽवसेया । तथापि भोगप्रवृत्ते निर्जराकाङ्क्षिणि तस्मिन् सदोषत्वकल्पनमज्ञानविलसितमेव । तदुक्तं कादम्बर्यां अपि → न ह्यतः परमपरं कष्टतरं किञ्चिदपि पीडाकरणं यद् गुणेषु वर्तमानो दोषेषु सम्भाव्यते - (काद.पृ.४९२)।
न च सर्वविरतिनियतसदनुष्ठानविरहादत्र कथं धर्मशक्तेः बलीयस्त्वम् ? इति शङ्कनीयम्, असङ्गसाक्षिभावोपधायकतत्त्वज्ञानादिसाचिव्येनाऽत्र धर्मशक्तेः बलीयस्त्वात् । न हि स्वल्पस्याऽपि वज्ररत्नस्य महापरिमाणकाचशकलवृन्दाद् महार्घत्वे कोऽपि विज्ञो विप्रतिपद्यते । प्रकृते च → जं जह मोल्लं रयणं तं जाणति रयणवाणिओ निउणो। थोवं तु महल्लस्स वि कासति अप्पस्स वि बहुं तु ।। अधवा कायमणिस्स उ सुमहल्लस्स वि उ कागिणीमोल्लं । वइरस्स उ अप्पस्स वि मोल्लं होती सतसहस्सं ।।
6 (व्य.सू.भा. १०/२१५-२१६) इति व्यवहारसूत्रभाष्यगाथे अपि निपुणधियाऽत्र योज्ये । ततश्च स्पर्शज्ञानमाहात्म्येन तथाविधरागाद्युपनायकक्लिष्टकर्मनाशकतया तादृशप्रवृत्तेरपि तदानीं परमार्थतः कर्तव्यतैव, तदुक्तं मरणसमाधिप्रकीर्णके महाप्रत्याख्यानप्रकीर्णके च → जेण विरागो जायइ, तं तं सव्वायरेण करणिज्जं 6 (म.स. २९६, महाप्र.१०६) इति । तादृशप्रवृत्तावपि विरक्ततया न कर्मलेपसम्भवः । तदुक्तं उत्तराध्ययनसूत्रे → भावे विरत्तो मणुओ विसोगो एएण दुक्खोहपरंपरेण । न लिप्पई भवमझे वि એવી ધર્મશક્તિને હણતી નથી. ભોગશક્તિ ધર્મશક્તિની વિરોધી હોવા છતાં પણ ધર્મશક્તિ કરતાં નબળી પડી ગયેલી છે. તેથી તે ભોગશક્તિ ધર્મશક્તિનું કશું બગાડી શકતી નથી. પ્રસ્તુતમાં ઉદાહરણને દેખાડતા શાસ્ત્રકાર પરમર્ષિ કહે છે કે વાયુ દીવાને બૂઝવી નાંખે છે. આ અપેક્ષાએ અગ્નિનો તેને વિરોધી ગણી શકાય. પણ તે વાયુ સળગતા ભયંકર દાવાનળને બૂઝવી શકતો નથી. પણ ઊલટું બળવાન એવા દાવાનળને સળગવામાં પવન સહાય જ કરે છે. આ જ રીતે પ્રસ્તુતમાં અવશ્ય ભોગવવા પડે તેવા કર્મોને ખપાવવામાં ભોગશક્તિ પણ બળવાન એવી ધર્મશક્તિને સહાય જ કરે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org