SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ • योगसिद्धलक्षणानि • १६३९ मैत्र्यादियुक्तं विषयेषु चेतः, प्रभाववद्धैर्यसमन्वितं च । द्वन्द्वैरधृष्यत्वमभीष्टलाभो, जनप्रियत्वं च तथा परं स्यात् ।।२।। दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतम्भराधीनिष्पन्नयोगस्य तु चिह्नमेतत् ।।३।।(योगदृष्टिसमु.श्लो.१११ वृत्ति उद्धृत, योगबिन्दुवृत्ति-५५ उद्धृत" इति । इहाऽप्येतदकृत्रिमं गुणजातमित एवाऽऽरभ्य विज्ञेयम् ।।७।। गन्धः शुभो मूत्र-पुरीषयोश्च । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ।। - (स्कं.पु.माहेश्वर/कुमारिका-५५/१३८) इति । तदुक्तं श्वेताश्वतरोपनिषदि अपि → लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादः स्वरसौष्ठवञ्च । गन्धः शुभो मूत्र-पुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति ।। - (श्वेता.२/ १३) इति । लघुत्वादिकं नाडीशुद्धिचिह्नतयाऽपि योगतत्त्वोपनिषदि → शरीरलघुता दीप्तिर्जाठराऽग्निविवर्धनम् । कृशत्वं च शरीरस्य तदा जायेत निश्चितम् ।। 6 (यो.त.४५) इत्यादिनोपदर्शितमित्यवधेयम् । प्राणायामफलतया योगतत्त्वोपनिषदि → अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते । कीलंवो दूषिका लाला स्वेददुर्गन्धताऽऽनने ।। एतानि सर्वथा तस्य न जायन्ते ततः परम् । ततोऽधिकतराऽभ्यासाद् बलमुत्पद्यते बहु ।। 6 (यो.त.५७-५८) इत्यादिकमुक्तं तदपीहाऽनुयोज्यं यथागमं बहुश्रुतैः । पातञ्जलैरपि → ज्योतिष्मती स्पर्शवती तथा रसवती परा, गन्धवत्यपरा प्रोक्ता चतस्रस्तु प्रवृत्तयः। आसां योगप्रवृत्तीनां यद्येकाऽपि प्रवर्तते, वृत्तयोगं तं प्राहुर्योगिनो योगचिन्तकाः ।। - ( ) इत्येवं योगप्रवृत्तयोऽङ्गीक्रियन्ते । इह जैनप्रवचने अपि एतद् = अनन्तरोपवर्णितं अकृत्रिमं = निजस्वभावबलैकप्रसूतं गुणजातं = अलौल्यादि-मैत्र्यादिगुणगणं, इत एव = स्थिरात एव आरभ्य विज्ञेयम्, तत्पूर्वं तु तत् समानाऽऽकारमपि कृत्रिममवसेयम्, प्रतिपातित्वात्, सापायत्वाच्चेति भावनीयम् । ____ अस्याञ्च दृष्टौ व्यवस्थितो योगी ‘कामभोगा मोहजनिताः मोहहेतवो मोहस्वरूपा मोहानुबन्धाः, सङ्क्लेशजनिताः सङ्क्लेशहेतवः सङ्क्लेशरूपाः सङ्क्लेशानुबन्धाः, हालाहलोपमाः, किंपाकफलसदृशा एकान्तेनाऽनर्थदायिन' इति संवेगसारं चिन्तयन् मोहाऽनुबन्धान प्रशिथिलयति, स्नेहनिगडानि त्रोटयति, - આ બધા યોગની પ્રવૃત્તિના પ્રાથમિક ચિહ્નો છે. તથા યોગને નિષ્પન્ન કરનારા યોગસિદ્ધ પુરુષોની નિશાની આ મુજબ સમજવી કે – તેમનું મન મૈત્રી વગેરે ભાવનાના વિષયભૂત એવા જીવોને વિશે મૈત્રી વગેરે ભાવોથી સંપન્ન હોય છે. તદુપરાંત તેમનું મન પ્રભાવશાળી અને વૈર્યથી યુક્ત હોય છે. યોગસિદ્ધ પુરુષો સુખ-દુઃખ, ઠંડી-ગરમી, ભૂખ-તરસ વગેરે દ્વન્દોથી પરાભવ પામતા નથી. મનોવાંછિત વસ્તુની તેમને પ્રાપ્તિ થાય છે. તથા તેઓની લોકપ્રિયતા શ્રેષ્ઠ કોટિની હોય છે. તેમના જીવનમાંથી દોષો રવાના થયેલા હોય છે. તેઓ સદા પરમ તૃપ્ત હોય છે. ઔચિત્ય તેમના સમગ્ર જીવનમાં વણાયેલું હોય છે. તેઓની સમતા પણ જબ્બર કોટીની હોય છે. તેઓ જ્યાં જાય ત્યાં પ્રાણીઓના વૈરાદિ નાશ પામે છે. તેઓની પાસે ઋતંભરા પ્રજ્ઞા હોય છે.” ૯ જિનશાસનમાં પણ ઉપરોક્ત સ્વાભાવિક ગુણસમુદાય स्थिराइटिथी भांडीने प्रगटे छे. - अम . (२४/७) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy