________________
सत्त्वापत्तिभूमिकासमवतारः
१६२९
भवभोगिफणाऽऽभोगो भोगोऽस्यामवभासते । 'फलं ह्यनात्मधर्मत्वात्तुल्यं यत्पुण्य-पापयोः । । ५ । ।
भवेति । अस्यां = स्थिरायां । भोगः इन्द्रियार्थसुखसम्बन्धः । भवभोगिफणाभोगः संसारसर्पफणाटोपः अवभासते बहुदुःखहेतुत्वात् । नाऽनुपहत्य भूतानि भोगः सम्भवति, ततश्च पापं, यस्त्वेनं परं अनूद्यन्तं वेद अथ तथोपास्ते परं ज्योतिरुपसम्पद्यते ← (आर्षे. ६) इति च आर्षेयोपनिषद्वचनमपि यथागममनुयोज्यम् ।
हंसोपनिषद्वचनं,
(
रा. गी. ६ । ६ ) इत्यवधेयम् । भाग - ५ पृ. १४०१ ) उद्दिष्टा
२७
परमते प्रत्याहारेणेव ज्योतिर्दर्शनेनाऽपीन्द्रियवशिता जायते । तदुक्तं रामगीतायां नादाऽन्ते विदितं ज्योतिर्येनैव ध्यानयोगतः । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः । । ← ( रा.गी. १५/२२) इति । तत्त्वज्ञानादिकमपीन्द्रियवश्यतया सम्पद्यते । तदुक्तं रामगीतायामेव वासनाक्षय-विज्ञानमनोनाशाSभिधं त्रयम् । समकालं समभ्यस्तं येनैव विषया जिताः ।। ← किञ्च, जगतोऽस्यामुपप्लवरूपेण प्रतिभासनात् पूर्वं ( द्वा. द्वा. २० / इह (द्वाद्वा.२४/२ पृ.१६२२) च समवतारिता सत्त्वापत्तिनाम्नी कर्मयोगभूमिका प्रकृष्यते । प्रकृते शुभेच्छादित्रयं भूमेर्भेदाऽभेदयुतं स्मृतम् । यथावद् भेदबुद्धयेदं जगज्जाग्रति दृश्यते ।। अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते । पश्यन्ति स्वप्नवल्लोकं तूर्यभूमिषु योगतः ।। विच्छिन्नशरदभ्रांशविलयं प्रविलीयते । सत्त्वाऽवशेष एवाऽऽस्ते मारुते ! त्वं दृढीकुरु ।। ← (रा.गी. ७/१३-१४-१५) इति रामगीताकारिका अप्यवश्यमनुसन्धेयाः स्वपरतन्त्राभ्यासनि- पुणैः ।।२४/४।।
-
=
स्थिरायां भोगभासनं यथा भवति तथाऽऽह - 'भवे 'ति । सूक्ष्मविवेकदृष्टिप्राधान्येन दीर्घपरिणामदर्शित्वात् स्थिरायां इन्द्रियाऽर्थसुखसम्बन्धः = प्रागुक्त ( द्वा. द्वा. ९/१ भाग-३, पृ. ६३३ ) सामान्य-विशेषकामसुखजनकसंसर्गः संसारसर्पफणाऽऽटोप एव स्वतः अन्तः अवभासते बहुदुःखहेतुत्वात् = बहुतरदीर्घकालीनतीव्रदुःख-दुर्गतिदोषाऽनुबन्धनिमित्तत्वाऽवगमात् । तदुक्तं अध्यात्मसारेऽपि क्रुद्धनागफणाऽऽभोगोपमो भोगोद्भवोऽखिलः । विलासश्चित्ररूपोऽपि भयहेतुर्विवेकिनाम् ।। ← (अ.सा. १८/ ७२ ) इति । तदुक्तं योगदृष्टिसमुच्चये न ह्यलक्ष्मीसखी लक्ष्मीर्यथाऽऽनन्दाय धीमताम् । तथा पापसखा लोके देहिनां भोगविस्तरः ।। ← (यो. दृ.स. १५९) इति । अध्यात्मतत्त्वालोकेऽपि एवञ्च भोगो भवभोगिभोगाऽऽभोगस्वरूपः प्रतिभासतेऽत्र ← (अ.त.३/१२२) इत्युक्तम् । योगसारप्राभृतेऽपि विपत्सखीर्यथा लक्ष्मीर्नाऽऽनन्दाय विपश्चिताम् ।
* ફણિધરના ફટાટોપતુલ્ય ભોગસુખો * ગાથાર્થ ઃ- સ્થિરા દૃષ્ટિમાં સંસારરૂપી સર્પની ફેણના ફ્લાવા સમાન ભોગસુખો લાગે છે. કારણ કે પુણ્ય અને પાપનું ફળ અનાત્મધર્મ હોવાથી સમાન જ છે. (૨૪/૫)
ટીકાર્થ :- ઇન્દ્રિયો અને તેના અનુકૂળ વિષયોનો પરસ્પર સંબંધ જો સુખનો અનુભવ કરાવે તો તે ભોગસુખ કહેવાય. સ્થિરા દૃષ્ટિમાં આવેલા સમકિતી જીવને આ સાંસારિક ભોગસુખ સંસારરૂપી સાપની ફણાના ફેલાવા સમાન લાગે છે. કારણ કે ‘તે તે ભોગસુખ ઢગલાબંધ દુઃખને ઉત્પન્ન કરવામાં મહત્ત્વનું કારણ છે' - આવું સમકિતી જીવને અંતઃકરણમાં વસી ગયેલ હોય છે. સ્થિરા દૃષ્ટિમાં રહેલો જીવ १. हस्तादर्शे 'फले' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org