SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १६२८ • परोक्षाऽपरोक्षात्मदर्शनभेदकोपदर्शनम् • द्वात्रिंशिका-२४/४ विलवियमेत्तं सव्वे कामा दुहावहा (नि.भा.५६७) इति निशीथभाष्यवचनं, → सव्वं विलवियं गीयं, सव्वं नट्टे विडम्बियं । सव्वे आहरणा भारा, सव्वे कामा दुहावहा ।। 6 (उत्तरा.१३/१६, सम.क.भव-९/पृ.९६९) उत्तराध्ययन-समरादित्यकथावचनं, → इन्द्रजालमिव मायामयं, स्वप्न इव मिथ्यादर्शनं, कदलीगर्भ इवाऽसारं, नट इव क्षणवेशं, चित्रभित्तिरिव मिथ्यामनोरमम् - (मैत्रा.४/२) इति मैत्रायण्युपनिषद्वचनं चाऽत्र निरुपचरितमनुभूयत एवेति ध्येयम् । प्रकृते च → अबाह्यं केवलं ज्योतिर्निराबाधमनामयम् । यदत्र तत्परं तत्त्वं शेषः पुनरुपप्लवः ।। एवं विवेकिनो धीराः प्रत्याहारपरास्तथा । धर्मबाधापरित्यागयत्नवन्तश्च तत्त्वतः ।। 6 (यो.दृ.स.१५७-१५८) इति योगदृष्टिसमुच्चयकारिके विभावनीये समाकलितनिश्चयसारैः । तदुक्तं अध्यात्मतत्त्वालोकेऽपि → तत्त्वं परं ज्योतिरिह ज्ञरूपं वैकल्पिकः सर्व उपप्लवोऽन्यः 6 (अ.त. ३/१२२) इति । योगसारप्राभृतेऽपि → विकारा निर्विकारत्वं यत्र गच्छन्ति चिन्तिताः । तत् तत्त्वं तत्त्वतः चिन्त्यं चिन्तान्तरनिराशिभिः ।। विविक्तमाऽऽन्तरं ज्योतिर्निराबाधमनामयम् । यदेतत् तत् परं तत्त्वं तस्याऽपरमुपद्रवः ।। + (यो.सा.प्रा.९/३२,३३) इत्युक्तम् । → अविद्याभिदुरं ज्योतिः परं ज्ञानमयं महत् । तत्प्रष्टव्यं तदेष्टव्यं तद् द्रष्टव्यं मुमुक्षुभिः ।। 6 (इष्टो. ४९) इति इष्टोपदेशवचनमप्यत्रानुसन्धेयम् । परंज्योतिर्दर्शनेनाऽस्य योगिनो रागोऽपि विलीयते । तदुक्तं गणेशगीतायां → रागोऽपि दृष्ट्वा ब्रह्म विनश्यति - (ग.गी.१ १५६) इति । एतेन → रसोऽप्यस्य परं दृष्ट्वा निवर्तते - (भ.गी.२/५९) इति भगवद्गीतावचनमपि व्याख्यातम् । अत्र चाऽऽत्मदर्शनमपरोक्षमवगन्तव्यम् । परोक्षाऽपरोक्षात्मदर्शनभेदपरिज्ञानोपायस्तु → 'अस्ति ब्रह्मेति चेद् वेद ? परोक्षज्ञानमेव तत् । 'अहं ब्रह्मेति चेद् वेद साक्षात्कारः स उच्यते ।। - (व.रा.२/४१) इत्येवं वराहोपनिषदि दर्शितः स्मर्तव्यः । अपरोक्षाऽऽत्मदर्शनोपायजिज्ञासुभिस्तु प्रकृते → भ्रूयुग्ममध्यगतं यच्छिखिविद्युत्सूर्यवज्जगद्भासि । केषांचित्पुण्यदृशामुन्मीलति चिन्मयं ज्योतिः ।। परमानन्दैकरसं परमं ज्योतिःस्वभावमविकल्पम् । विगलितसकलक्लेशं ज्ञेयं शान्तं स्वसंवेद्यम् ।। तस्मिन्नाधाय मनः स्फुरदखिलं चिन्मयं जगत्पश्यन् । उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नोति ।। - (रस.१/२१-२३) इति रसहृदयप्रबन्धोऽपि यथातन्त्रं विभावनीयः । → स्वकीया देहसम्बन्धाः क्षणिकाः स्वप्नवन्मृषा । ज्ञात्वैवं त्वं परप्रीत्या लीनो भव चिदात्मनि ।। 6 (अध्या.गी. २४२) इति अध्यात्मगीतावचनमप्यत्र दृष्टौ सम्यक् परिणमति । प्रकृते → तस्मिन् (= परब्रह्मणि) मनो विलीयते, मनसि सङ्कल्प-विकल्पे दग्धे पुण्य-पापे सदाशिवः शक्त्यात्मना सर्वत्राऽवस्थितः स्वयंज्योतिः शुद्धो बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशते - (हंसो.२) इति લાગે છે. કેવલ જ્ઞાયકસ્વભાવ સ્વરૂપ શુદ્ધાત્મા છે. ગ્રન્થિભેદ થવાના કારણે શુદ્ધાત્માનો અનુભવ પાંચમી દષ્ટિમાં રહેલા જીવોને પ્રગટપણે થતો હોય છે. પરમાનંદમય આત્મસ્વરૂપનો અનુભવ થતો હોવાના કારણે તે સિવાય બીજું બધું જ અસારભૂત લાગે છે. અનાત્મ જગતમાંથી તેનું મન ઉઠીને આત્મજગતમાં સ્થિર થવા માંડે છે. આત્મદર્શનનો આ લાભ અદ્વિતીય છે. (ર૪૪) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy