________________
• स्थिरायां विलापिन्याः समवतारः
१६२७ मोहेन संवृतं ज्ञानं, स्वभावं लभते न हि । मत्तः पुमान् पदार्थानां यथा मदनकोद्रवैः ।।
6 (इष्टो. ६-७) इति इष्टोपदेशकारिके नैवेह विस्मर्तव्ये । तदुक्तं भक्तपरिज्ञाप्रकीर्णके अपि → नरविबुहेसरसुक्खं दुक्खं परमत्थओ तयं बिंति। परिणामदारुणमसासयं च जं ता अलं तेण ।। - (भ.प.५) इति । इत्थं स्व-परयोः तात्त्विकस्वरूपनिश्चय एव सम्यग्ज्ञानं व्यवतिष्ठेत, नान्यथा ।
एतेन → एतदेव हि विज्ञानं यदात्मपरवेदनम् - (का.नी.सा. १२।२१) इति कामन्दकीयनीतिसारवचनमपि व्याख्यातम् । प्रकृते → इन्द्रजालमिदं सर्वं यथा मरुमरीचिका । अखण्डितमनाकारो वर्तते केवलः शिवः ।। - (अव.गी.७।१३) इति अवधूतगीतावचनं, → एकमेवाऽद्वितीयं ब्रह्म । नेह नानाऽस्ति किञ्चन । तस्माद् ब्रह्मव्यतिरिक्तं सर्वं बाधितमेव । सत्यमेव परं ब्रह्म + (त्रि.वि.३१) इति त्रिपाद्विभूतिमहानारायणोपनिषद्वचनं, → सर्वं किञ्चिदिदं दृश्यं दृश्यते चिज्जगद्गतम् । चिनिष्पन्दांशमात्रं तन्नाऽन्यदस्तीति भावय ।। - (महो.४/१०) इति महोपनिषदवचनं, → ये ये भावाः स्थिता लोके तानविद्यामयान् विदुः । त्यक्ताऽविद्यो महायोगी कथं तेषु निमज्जति ?।। - (अन्न.४/४) इति च अन्नपूर्णोपनिषद्वचनमप्यनुयोज्यं यथातन्त्रम् । तदुक्तं महावीरगीतायामपि → स्वप्नोपमान् जग
द्भावान् ज्ञात्वा सर्वमहाजनैः । परात्मा ज्योतिषां ज्योतिः सम्प्राप्यो देहसंस्थितः ।। - (महा.गी.१३ १६४) इति । प्रकृते → पृथुशास्त्रकथाकन्थारोमन्थेन वृथाऽत्र किम् ?। अन्वेष्टव्यं प्रयत्नेन तत्त्वज्ञैर्कोतिरान्तरम् ।। 6 (चि.भ.ना. ) इति चित्रभरतनाटकोक्तिरपि स्मर्तव्या ।
मित्रादिदृष्टिचतुष्टये समवतारितं शुभेच्छादिभूमिकात्रितयं पौद्गलिके जगति सत्यत्वदर्शनमूलकाऽऽस्थादियुक्तत्वात् तन्त्रान्तरपरिभाषया जाग्रदित्युच्यते, स्थिरायां दृष्टौ समवतारिता विलापिन्याद्यभिधाना चतुर्थी भूमिका स्वप्नरूपेण प्रतिपाद्यते, बाह्ये जगति भ्रान्तत्वाऽसारत्व-तुच्छत्व-विनश्वरत्वाद्यवगमेनाऽऽस्थादिप्रच्यवात् । एतेन → पूर्वावस्थात्रयं तत्र जाग्रदित्येव संस्थितम् । चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत् ।। - (अन्न.५/८७) इति अन्नपूर्णोपनिषदुक्तिरपि व्याख्याता । अनयैव रीत्या →
भूमिकात्रितयाऽभ्यासादज्ञाने क्षयमागते । समं सर्वत्र पश्यन्ति चतुर्थी भूमिकां गताः ।।
अद्वैते स्थैर्यमागते द्वैते च प्रशमं गते । पश्यन्ति स्वप्नवल्लोकं चतुर्थी भूमिकां गताः ।। भूमिकात्रितयं जाग्रत्, चतुर्थी स्वप्न उच्यते - (अक्ष्यु.३१-३३) इति अक्ष्युपनिषत्कारिका व्याख्येयाः।→
शुभेच्छादित्रयं भूमिभेदाऽभेदयुतं स्मृतम् । तथावद् वेद बुद्ध्येदं जगत् जाग्रति दृश्यते ।। अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते । पश्यन्ति स्वप्नवल्लोकं तूर्यभूमिसुयोगतः ।।
- (वरा.४/११-१२) इति वराहोपनिषत्कारिके अपि यथातन्त्रमत्राऽनुसन्धेये। → एगे आया - (स्था.१।१।२) इति स्थानाङ्गसूत्रतात्पर्यमप्यत्र यथागममनुयोज्यम् । यथोक्तं नृसिंहोत्तरतापनीयोपनिषदि अपि → अमूढो मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वय एवाऽयमात्मा सन्मात्री नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनः 6 (नृ.उत्त. ९/४) इत्यादि । स्थिरायां दृष्टौ समवस्थितस्यैतदतिगम्भीरं तत्त्वं न केवलं बुद्धौ प्रतिभासते किन्त्वस्खलद्वृत्त्या तथाविधस्वाऽनुभवगम्यमपि भवति । तथा → भारो
વિશેષાર્થ :- “સકલ જગત તે એઠવત, અથવા સ્વમસમાન; તે કહીએ જ્ઞાનીદશા, બાકી વાચા જ્ઞાન.” આ ઉકિત અહીં અનાયાસે યાદ આવી જાય છે. પાંચમી દષ્ટિમાં શુદ્ધાત્મા જ પરમ ઉપાદેયભૂત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org