SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १६२६ • जगत् तत्त्वतः भ्रमविषयः . द्वात्रिंशिका-२४/४ शेषः पुनः भवप्रपञ्चो विकल्पलक्षणं तल्पमारूढ (=विकल्पतल्पमारूढः) उपप्लवो भ्रमविषयः, परिदृश्यमानरूपस्याऽभावात ।।४।। चिन्मात्रमेव चिन्मात्रमखण्डैकरसं परम् ।। - (ते.बि. २०२४) इति तेजोबिन्दूपनिषद्वचनं → परं ज्योतिरेष सर्वेश्वरः - (तुरी.२) इति तुरीयोपनिषद्वचनं, → यज्ज्योतिरात्मा + (नृ.ष.६) इति नृसिंहषट्चक्रोपनिषद्वचनं च स्मर्तव्यम् । भगवद्गीतायां अपि → ज्योतिषामपि तज्ज्योतिः - (भ.गी.१३/ १८) इति तस्यैव द्योतनम् । योगचूडामण्युपनिषदि → ॐ नित्यं शुद्धं बुद्धं निर्विकल्पं निरञ्जनं निराख्यातं अनादिनिधनमेकं तुरीयं (यो.चू.७२) इत्येवं यदुक्तं तदप्यत्रैव योज्यं शुद्धनिश्चयाऽभिप्रायेण । यथोक्तं मुण्डकोपनिषदि अपि → सत्येन लभ्यस्तपसा ह्येष आत्मा, सम्यग् ज्ञानेन ब्रह्मचर्येण नित्यम् | अन्तः शरीरे ज्योतिर्मयो हि शुभो यं पश्यन्ति यतयः क्षीणदोषाः ।। - (मुंड.उप.२ ।२) इति परंज्योतिःस्वरूपञ्चामितगतिना योगसारप्राभृते → अक्षज्ञानार्थतो भिन्नं यदन्तरवभासते । तद्रूपमात्मनो ज्ञातृज्ञातव्यमविपर्ययम् ।। यत्राऽसत्यखिलं ध्वान्तमुद्योतः सति चाखिलः । अस्त्यपि ध्वान्तमुद्योतस्तज्ज्योतिः परमात्मनः ।। 6 (यो.सा.प्रा.१/४५) इत्येवमावेदितम् । अमृतचन्द्राचार्येण पुरुषार्थसिद्ध्युपाये → तज्जयति परं ज्योतिः समं समस्तैरनन्तपर्यायैः। दर्पणतल इव सकला प्रतिफलति पदार्थमालिका ।। - (पुरुषा. १) इत्येवं परंज्योतिःस्वरूपमावेदितम् । अशुद्धनिश्चयनयतश्च परंज्योतिः तत्त्वं शुद्धचैतन्यमात्मनो धर्मः सर्वदाऽऽत्मनिष्ठत्वेऽपि कर्माऽपगमेनाऽऽविर्भवति जलदाऽपगमे चन्द्रचन्दिकावत् । अशुद्धनिश्चयनयाभिप्रायतो योगसारप्राभृते → यथा चन्द्रे स्थिता कान्तिर्निर्मले निर्मला सदा । प्रकृतिर्विकृतिः तस्य मेघादिजनिताऽऽवृतिः ।। तथाऽऽत्मनि स्थिता ज्ञप्तिर्विशदे विशदा सदा । प्रकृतिर्विकृतिस्तस्य कर्माष्टककृताऽऽवृतिः ।। जीमूताऽपगमे चन्द्रे यथा स्फुटति चन्द्रिका । दुरिताऽपगमे शुद्धा तथैव ज्ञप्तिरात्मनि ।। 6 (यो.सा.प्रा.९/६-७-८) इत्युक्तम् । क्षायिकसम्यग्दर्शनवतः स्थिरायामवस्थितस्य शुद्धनिश्चयनयपरिणतिरनवरतमुक्तिमार्गप्रयाणे समालम्बनम् । क्षायोपशमिकसम्यक्त्ववतस्तु स्थिरायां दृष्टौ वर्तमानस्याऽशुद्धनिश्चयनयपरिणतिस्तथेति विवेकः कार्यः । उभयोरेव स्थिरायां शेषो भवप्रपञ्चः विकल्पलक्षणं तल्पं = शयनीयं आरूढो भ्रमविषय एव, ऋजुसूत्रनयानुसारेण परिदृश्यमानस्य भवप्रपञ्चस्य परकीयत्वेनाऽसत्त्वात्, शुद्धद्रव्यग्राहकनिश्चयनयानुसारेण च परिदृश्यमानरूपस्य = दृश्यमानस्वरूपेण भवप्रपञ्चस्य विविच्यमानस्य श्वेतकुड्यस्य इव चेतनाऽचेतनयोरेकत्राऽन्तर्भावाऽसम्भवेन अभावात् = विरहात् । यथा चैतत्तत्त्वं तथा विभावितमेव योगलक्षणद्वात्रिंशिकायां (द्वा.द्वा.१०/३० भाग-३, पृ.७३२) विस्तरत इति नेह तन्यते। नवरं → न मे बन्धो न मे मुक्तिन मे शास्त्रं न मे गुरुः । मायामात्रविकारत्वान्मायाऽतीतोऽहमद्वयः।। - (आ.प्र.१९) इति आत्मप्रबोधोपनिषद्वचनमप्यवश्यमनुस्मर्तव्यं यथागमम् । तथा → वासनामात्रमेवैतत् सुखं दुःखं च देहिनाम् । तथा ह्युद्वेजन्त्येते, भोगा रोगा इवाऽऽपदि ।। તે સિવાય સઘળો સંસારપ્રપંચ વિકલ્પસ્વરૂપ શય્યા ઉપર આરૂઢ થયેલ ભ્રાન્ત જણાય છે. કારણ કે જે સ્વરૂપે સંસારનો પ્રપંચ દેખાય છે તે સ્વરૂપે તે હાજર નથી.(૨૪/૪) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy