________________
१६२१
• पञ्चविध-प्रत्याहारस्वरूपम् • इवेन्द्रियाणां प्रत्याहारः" इति (यो.सू.२-५४) । कीदृशोऽयमित्याह- एतदायत्तताफलः = इन्द्रियवशीकरणैकफलः । अभ्यस्यमाने हि प्रत्याहारे तथाऽऽयत्तानीन्द्रियाणि भवन्ति यथा 'बाह्यविषयाऽभिमुखतां राग-द्वेषनिग्रहः प्रत्याहारः कथ्यते । तदुक्तं ओघनियुक्तिभाष्ये → इंदियविसयनिरोहो पत्तेसु वि रागदोसनिग्गहणं 6 (ओ.नि.भा.१६७) इति । आचाराङ्गसूत्रे तु → न सक्का न सोउं सद्दा सोतविसयमागया। रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।। न सक्का रूवमदटुं, चक्खुविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।। न सक्का गर धमग्घाउं, नासाविसयमागयं । रोगदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।। न सक्का रसमस्साउं, जिहाविसयमागयं । रोगदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।। न सक्का फासमवेएउं, फासविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।।
6 (आचा.२।३।१५।१३१-१३५) इत्येवं प्रतीन्द्रियं प्रत्याहारस्वरूपमेवाऽऽवेदितमित्यवधेयम् । दशवैकालिकनियुक्तौ → सद्देसु अ रूवेसु अ गंधेसु रसेसु तह य फासेसु । न वि रज्जइ न वि दुस्सइ एसा खलु इंदियप्पणिही ।। (द.वै.नि.२९५) इत्येवमिन्द्रियप्रणिधिपदेन प्रत्याहार एवोक्त इत्यप्यनुसन्धेयं स्व-परतन्त्रपदार्थसमन्वयदक्षैर्यथागमम् । अध्यात्मतत्त्वालोकेऽपि → समाहृतिर्याऽर्थत इन्द्रियाणां प्रत्याहृतिः सा परिवेदितव्या 6 (अ.त. ३/१२०) इत्युक्तम् ।
अमृतनादोपनिषदि → शब्दादिविषयाः पञ्च मनश्चैवाऽतिचञ्चलम् । चिन्तयेदात्मनो रश्मीन् प्रत्याहारः स उच्यते ।। ( (अ.नादो. ५) इत्येवं प्रत्याहार उक्तः ।
योगतत्त्वोपनिषदि तु → इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरणं स्फुटम् ।। योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते । यद्यत्पश्यति चक्षुर्ध्या तत्तदात्मेति भावयेत् ।। - (यो.त. ६८-६९) इत्यादिरूपेण प्रत्याहारो निरूपितः । → चित्तस्याऽन्तर्मुखीभावः प्रत्याहारस्तु सत्तमः 6 (त्रि.ब्रा. ३०) इति तु त्रिशिखिब्राह्मणोपनिषदि दृश्यते । → विषयेभ्य इन्द्रियार्थेभ्यो मनोनिरोधनं = प्रत्याहारः - (मं.बा.१ १५) इति मण्डलब्राह्मणोपनिषदि । प्रकृते → चरतां चक्षुरादीनां विषयेषु यथाक्रमम् । यत् प्रत्याहरणं तेषां प्रत्याहारः स उच्यते ।। 6 (यो.चू.१२०) इति योगचूडामण्युपनिषद्वचनमपि स्मर्तव्यम् । तेजोबिन्दूपनिषदि तु → विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुहुर्मुहुः ।।
(ते.बिं.१९३४) इत्येवं प्रत्याहारो व्याख्यातः । वेदान्तानुसारेण प्रत्याहारस्वरूपं शङ्कराचार्येण अपरोक्षानुभूतौ → विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मज्जनम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ।। ( (अपरो.१२१) इत्येवमुक्तम् । ___शाण्डिल्योपनिषदि तु → अथ प्रत्याहारः । स च पञ्चविधः । (१) विषयेषु विचरतां इन्द्रियाणां बलादाहरणं = प्रत्याहारः । (२) यद्यत्पश्यति तत्सर्वमात्मेति प्रत्याहारः । (३) नित्यविहितफलत्यागः = प्रत्याहारः। (४) सर्वविषयपराङ्मुखत्वं प्रत्याहारः । (५) अष्टादशसु मर्मस्थानेषु क्रमाद् धारणं = प्रत्याहारः - (शां.उप.१ ।६९) इत्यादिरूपेण पञ्चविधः प्रत्याहार उक्तः सोऽपीह यथातन्त्रमनुयोज्यो
પ્રત્યાહાર કેવો છે ? એ શંકાનું સમાધાન આપતા ગ્રંથકારશ્રી કહે છે કે ઈન્દ્રિયપ્રત્યાહારનું ફળ એક માત્ર ઈન્દ્રિયોનું નિયમન છે. પ્રત્યાહારનો અભ્યાસ કરવામાં આવે તો ઈન્દ્રિયો તે રીતે સ્વાધીન १. हस्तादर्श ‘बाह्यनीयमा...' इत्यशुद्धः त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org