________________
१६२२ • सत्त्वापत्ति - विलापिनीभूमिकयोः समवतारः • द्वात्रिंशिका -२४/२ नीयमानान्यपि न यान्तीति । तदुक्तं- “ ततः परमा वश्यतेन्द्रियाणामिति” (यो.सू.२-५५) ।।२।। ऽवहितमानसैः । जाबालदर्शनोपनिषदि तु देहे स्वात्ममतिं विद्वान् समाकृष्य समाहितः । आत्मनाऽऽत्मनि निर्द्वन्द्वे निर्विकल्पे निरोधयेत् ।। प्रत्याहारः समाख्यातः साक्षाद् वेदान्तवादिभिः । ← ( जा. दर्श.७/ १३-१४) इत्येवं तल्लक्षणमुक्तमित्यनुस्मर्तव्यम् ।
दर्शितप्रत्याहारोपायभूतस्वरूपाऽवस्थानसिद्ध्या स्थिरायां दृष्टौ पूर्वं ( द्वा. द्वा.२०/२७ भाग-५ पृ.१४०१) संन्यासगीतासंवादेनोद्दिष्टा सप्तविधकर्मयोगसम्बन्धिनी शुभेच्छा - विचारणा-तनुमानसीभूमिकोत्तरकालिकी भूमिकात्रितयाऽभ्यासाच्चित्तेऽर्थविरतेर्वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वाऽऽपत्तिरुदाहृता ।। ← ( वरा.४/६, रा.गी. ७/८) इति विराहोपनिषद् -रामगीताव्यावर्णितस्वरूपा सत्त्वापत्तिनाम्नी चतुर्थी कर्मयोगभूमिकाऽप्यत्र निराबाधमाविर्भवतीत्यवधेयं पूर्वापराऽवधारणकुशलैः स्व- परतन्त्रसमवतारकामिभिर्मध्यस्थैः । एतेन → भूमिकात्रितयाभ्यासात् चित्ते तु विरतेर्वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ।। ← (महो. ५/ ३०) इति महोपनिषत्कारिकोक्ता चतुर्थी ज्ञानयोगभूमिकाऽप्यनाविलमेवाऽवतारिता । एवमेव विलापिनी चतुर्थी स्याद् वासनाविलयात्मिका ← ( अन्न. ५/८२ ) इति अन्नपूर्णोपनिषदुक्ता चतुर्थी भूमिकाऽप्यत्राऽवतारिता द्रष्टव्या, अवेद्यसंवेद्यपदवासनाप्रविलयात् ।
प्रत्याहारफलोपदर्शने योगसूत्रसंवादमाह - 'तत' इति । अत्र मणिप्रभाव्याख्या → अनिषिद्धविषयसेवाविषये तन्त्रत्वं विना स्वेच्छया भोगः, राग-द्वेषाऽभावे सुख-दुःखाऽनुत्पादकं शब्दादिदर्शनमिन्द्रियाणां वश्यता सा न परमा विषयाऽऽशीविषयोगात् । या तु विषयैः स्वाभिमुखं नीयमानानामपीन्द्रियाऽबलानां तत्त्वपतिव्रतात्वेन विषयेष्वत्यन्तमप्रतिपत्तिः रावणेन स्वाभिमुख्यं नीयमानाया अपि श्रीसीतायाः श्रीरामव्रतत्वेन राक्षसाऽधमाऽप्रतिपत्तिवत् सा परमेति जैगीषव्यः ( ऋषिराह ) । प्रत्याहारादिन्द्रियाणां परमा वश्यता भवतीत्यर्थः ← (यो.सू.२ / ५५ म. प्र. ) इत्येवं वर्तते । तदुक्तं विष्णुपुराणेऽपि
शब्दादिष्वनुरक्तानि निगृह्याऽक्षाणि योगवित् । कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः || वश्यता परमा तेन जायते निष्कलात्मनाम् । इन्द्रियाणामवश्यैः तैर्न योगी योगसाधकः ।।
← (वि.पु.६/७/४३-४४) इति । अमृतनादोपनिषदि कपिलदेवहूतिसंवादे च प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान् । प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ।। ← (अमृ. ८,क.दे.सं.४/११) इत्येवं प्राणायामादिफलमुक्तं तदपीहाऽनुसन्धेयम् ।
यदपि ब्रह्मविद्योपनिषदि मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् । तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते ।। ← ( ब्र.वि. ४४ ) इत्युक्तं तदपि प्रत्याहारफलतयाऽनुयोज्यं यथातन्त्रम् । विकारं मानसं योगी प्रत्याहारेण मुञ्चति ← ( यो चू. १०९) इति योगचूडामण्युपनिषद्वचनमप्यत्रावधेयम् ।
प्रकृते च स्थिरायां दृष्टौ अविरतसम्यग्दृशः देशविरतस्य चाऽविरुद्धशब्दादिप्रतिपत्तिरूपा अपरमा इन्द्रि - यवश्यता प्रत्याहारफलत्वेन ज्ञेया, सर्वविरतस्य चोपदर्शिता परमा इन्द्रियवश्यतेति विवेकः ।। २४/२ ।। થાય છે કે ઈન્દ્રિયોને બાહ્ય વિષયોની અભિમુખ લઈ જવામાં આવે તો પણ તે બહારમાં જતી નથી. તેથી તો યોગસૂત્રમાં કહેલ છે કે ‘પ્રત્યાહારથી ઈન્દ્રિયોમાં પ્રકૃષ્ટ નિયંત્રણ આવે છે.’ (૨૪/૨)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org