________________
१६२०
• जैनदर्शने दर्शनान्तरे च प्रत्याहारस्वरूपम् • द्वात्रिंशिका-२४/२ विषयेति । विषयाणां = चक्षुरादिग्राह्याणां रूपादीनां असंप्रयोगे = तद्ग्रहणाऽऽभिमुख्यत्यागेन स्वरूपमात्राऽवस्थाने सति (=विषयासम्प्रयोगे) अन्तःस्वरूपाऽनुकृतिः = चित्तनिरोधनिरोध्यतासम्पत्तिः किल हृषीकाणां चक्षुरादीनामिन्द्रियाणां प्रत्याहारः । यत उक्तं- “स्वविषयाऽसंप्रयोगे चित्तस्वरूपाऽनुकार
प्रत्याहारं व्याख्यानयति- 'विषयेति ।
रूपादीनां विषयाणां → 'नैव किञ्चित् करोमी ति युक्तो मन्येत तत्त्ववित् । पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन् गच्छन् स्वपन श्वसन् ।। - (भ.गी.५/८) इति भगवद्गीतोक्तरीत्या यद्वा → रूपं कान्तं पश्यन्नपि शृण्वन्नपि गिरं कलमनोज्ञाम् । जिघ्रन्नपि च सुगन्धीन्यपि भुजानो रसान् स्वादून् ।। भावान् स्पृशन्नपि मृदूनवारयन्नपि चेतसो वृत्तिम् । परिकलितौदासीन्यः प्रणष्टविषयभ्रमो नित्यम् ।। बहिरन्तश्च समन्तात् चिन्ता-चेष्टापरिच्युतो योगी । - (यो.शा.१२/२३-२४-२५) इति योगशास्त्रोक्तपद्धत्या तद्ग्रहणाऽऽभिमुख्यत्यागेन = रूपाद्युपभोगप्रयत्नपरिहारेण हृषिकाणां स्वरूपमात्राऽवस्थाने = निजनिरुपाधिकनिष्कल-स्वच्छ-प्रशान्तैकस्वरूपप्रतिष्ठाने सति चक्षुरादीनामिन्द्रियाणां चित्तनिरोधनिरोध्यतासम्पत्तिः = अन्तःकरणवृत्तिनिरोधाऽविनाभाविनिरोधार्हतोपलब्धिः किल प्रत्याहार उच्यते । यत उक्तं पतञ्जलिना योगसूत्रे'स्वेति । अत्र राजमार्तण्डव्याख्या एवम् → इन्द्रियाणि विषयेभ्यः प्रतीपमाह्रियन्तेऽस्मिन्निति प्रत्याहारः । ‘स च कथं निष्पद्यते?' इत्याह- चक्षुरादीनामिन्द्रियाणां स्वविषयो रूपादिः तेन सम्प्रयोगः = तदाऽऽभिमुख्येन वर्तनं, तदभावः = तदाभिमुख्यं परित्यज्य स्वरूपमात्रेऽवस्थानम् । तस्मिन् सति चित्तस्वरूपमात्राऽनुकारीणीन्द्रियाणि भवन्ति, यतः चित्तमनुवर्तमानानि मधुकरराजमिव मधुमक्षिकाः सर्वाणीन्द्रियाणि प्रतीयन्ते । अतः चित्तनिरोधे तानि प्रत्याहृतानि भवन्ति । तेषां तत्स्वरूपाऽनुकारः प्रत्याहार उक्तः - (यो.सू.२/ ५४ वृ.रा.मा.) इति ।
प्रकृते मणिप्रभावृत्तिस्तु → शुद्धचित्तस्य शब्दादिभिः स्वविषयैरसम्प्रयोगे सति = वैराग्याद् विषयेभ्यो वियुज्य तत्त्वाऽभिमुखे सतीति यावद्, इन्द्रियाणां चक्षुरादीनां यः चित्तस्य स्वरूपाऽनुकारः स्वविषयाऽसम्प्रयोगेन तत्त्वाऽभिमुखरूपः स प्रत्याहारः, इन्द्रियाणि विषयेभ्यः प्रातिलोम्येनाऽऽह्रियन्तेऽस्मिन्निति व्युत्पत्तेः । इन्द्रियाणां विषयशूराणां चित्तवत् तत्त्वाऽऽभिमुख्यं नास्तीति द्योतनार्थ इवशब्दः । यथा मक्षिका मधुकरराजं चलन्तमनुचलन्ति स्थितमनुस्थिता भवन्ति तथा चित्तानुसारीणीन्द्रियाणि चित्तनिरोधेनैव निरुध्यन्ते, न यत्नान्तरेणेति तात्पर्यम् - (म.प्र.२/५४) इत्येवं वर्तते ।
जैनदर्शनाऽनुसारेण तु शब्दादिविषयाणामप्राप्तानां निरोधः, कर्णादिगोचरमागतेषु चेष्टाऽनिष्टेषु तेषु वायेतो छ. तेनुं ३५ हन्द्रियोन नियंत्र. छ. (२४/२)
ટીકાર્ય :- ચક્ષુ વગેરે ઈન્દ્રિયોથી ગ્રાહ્ય એવા રૂપ વગેરે વિષયોનો અનુભવ કરવાની અભિમુખતાતત્પરતા છોડીને ઈન્દ્રિયો માત્ર પોતાના સ્વરૂપમાં અવસ્થાન કરે ત્યારે ચિત્તનિરોધ જેવી ઈન્દ્રિયનિરોધયોગ્યતા પ્રાપ્ત થાય તે જ ખરેખર ચક્ષુ વગેરે ઈન્દ્રિયોનો પ્રત્યાહાર છે. કારણ કે યોગસૂત્રમાં જણાવેલ છે કે ‘ઈન્દ્રિયોનો પોતાના વિષય સાથે સંપ્રયોગ ન થતાં ઈન્દ્રિયો જાણે કે ચિત્તના સ્વરૂપને અનુસરે છે. તે ઈન્દ્રિયોનો પ્રત્યાહાર કહેવાય છે.” १. हस्तादर्श 'विषया...' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org