________________
१३२०
• सप्तविधसमाधिविमर्शः . द्वात्रिंशिका-१९/३१ फलाऽवञ्चकयोगस्तु सद्भ्य एव नियोगतः। सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता।।३१।।
फलेति । फलावञ्चकयोगस्तु सद्भ्य एव अनन्तरोदितेभ्यो नियोगतो = अवश्यम्भावेन सा-नुबन्धस्योत्तरोत्तरवृद्धिमतः फलस्याऽवाप्तिः (=सानुबन्धफलावाप्तिः) तथा सदुपदेशादिना धर्मसिद्धौ विषये सतां मता ||३१।।। तद्दायकेषु गुरुषु ‘परमोपकारिणो मम एते परमोपास्या' इति भावयतो भूरिभक्तिभावः, ततश्च तत्रैव प्रतिबन्धः स्यात्, तेषां गुरूणां सूक्ष्मप्राणातिपातविरमणादावप्यस्यानुमतिः स्यात्, गुणिनमनादिनियमतश्च नीचैर्गोत्रकर्महासः उच्चैर्गोत्रकर्मबन्धश्च स्यातामिति भावनयपरायणैर्विभावनीयं तत्त्वमेतत् ।।१९/३० ।।
अवसरागतमन्त्यमुत्तमयोगमपि योगदृष्टिसमुच्चय(यो.दृ.स.२२१)कारिकया निरूपयति- ‘फले'ति । अनन्तरोदितेभ्यः निर्व्याजबहुमत-प्रणत-सेवितेभ्यो गुणसम्पन्नेभ्यो मुनिभ्यः एव अवश्यम्भावेन भाविकल्याणतया उत्तरोत्तरवृद्धिमतः = मार्गानुसारिता-सम्यग्दर्शन-देशविरति-सर्वविरत्यादिक्रमेणोत्कर्षशालिनः न्यायसम्पन्नवैभवादि-गुरुदेवादिपूजादि-स्थूलप्राणातिपातविरमणादि-सर्वप्राणातिपातविरमणादिलक्षणस्य समाधिविशेषकारणीभूतस्य फलस्य तथासदुपदेशादिना = भावकरुणैकबुद्धिप्रयुक्तधर्मोपदेश-प्रेरणादिना हेतुना जायमाना अवाप्तिः = प्राप्तिः हि धर्मसिद्धौ विषये = कुशलधर्मसिद्धिरूपविषये सतां तीर्थकरगणधरादीनां मता = सम्मता । इमे त्रयोऽपि योगा अव्यक्तसमाधित्वेनेष्टाः । समाधयस्तु सप्तधा प्रोक्ताः श्रीहरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये →
अमोघोऽमोघपाशश्च अजितश्चाऽपराजितः । 'वरदो वरप्रदोऽ कालमृत्युप्रशमनस्तथा ।। एते समाधयः श्रेष्ठा ज्ञेया अस्येष्टसिद्धये । लब्धिहेतव एते यत् परिणामाः सतां मताः ।। आद्यस्य हेतुर्विज्ञेयो गुरुकृत्येष्वमोघता । तत्पाशेष्वपरस्यापि सम्यग्धर्मकथादिषु ।। तृतीयस्य पुनः क्रोधजयाभिग्रह एव तु । विषयाधिकवृत्तित्वं चतुर्थस्यात्र कीर्तितम् ।। याञ्चासाफल्यकरणं पञ्चमस्येति तद्विदः । तदाधिक्यप्रदानं तु षष्ठस्य शुभभावतः ।। रक्षा स्वजीवितेनापि प्राणिनां सप्तमस्य तु । एतैः समन्वितो ह्येष परार्थं कुरुते सदा ।।
વિશેષાર્થ - મહાપુરુષોના દર્શન થાય, તેમનામાં વિશિષ્ટ ગુણોના દર્શન થાય, તેમના પ્રત્યે અહોભાવ - આદર પ્રગટે અને તેમને રોજ વંદન કરીશ. તેમની સેવા કરીશ” ઈત્યાદિ નિયમ લેવો તે ક્રિયાઅવંચક યોગ છે. અહોભાવગર્ભિત પ્રણામાદિનિયમ હોવાના કારણે આ યોગમાં અવંચકપણું પ્રગટે છે. ઉચ્ચગોત્રવાળા સતપુરુષોને નમસ્કાર કરવાના અભિગ્રહથી પોતાના નીચગોત્રનો ક્ષય થાય છે.(૧૯૩૦)
૪ ફલાવંચક્યોગને પામીએ છે. ગાથાર્થ :- મહાપુરુષો પાસેથી જ નિયમી ધર્મસિદ્ધિવિષયક ફળની સાનુબંધ પ્રાપ્તિ થવી તે इसाययो॥ ३५ स०१४नाने मान्य छे. (१८/३१)
ટીકાર્થ:- આગળ બતાવી ગયા તે જ મહાપુરુષોના નિમિત્તે અવશ્ય સાનુબંધ = ઉત્તરોત્તર ચઢિયાતા ફળની પ્રાપ્તિ થવી તે સજ્જનોને ફલાવંચકયોગ તરીકે માન્ય છે. આ ફળ ધર્મસિદ્ધિ અંગે સમજવું સાનુબંધ ફળની પ્રાપ્તિ થાય છે તેમાં મુખ્ય કારણ બને છે તે મહાપુરુષોનો તેવા પ્રકારનો ઉપદેશ.(૧૯૩૧)
१. मुद्रितप्रतौ '...तरवृत्तिमत' इति पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org