________________
• दशविधसमाधिप्रतिपादनम् •
१३२१ इत्थं योगविवेकस्य विज्ञानाद् वान्तकल्मषः' । यतमानो यथाशक्ति परमानन्दमश्नुते ।।३२।। __इत्थमिति । स्पष्टः ।।३२।।
6 (ब्र.सि.२४३-२४८) इति । तेषामपि यथागममत्र बहुश्रुतैर्योजना कार्या । चरणकरणानुयोगनयतः कार्य-कारणयोरभेदोपचारात् मध्यमविभागप्रदर्शनाभिप्रायेण स्थानाङ्गसूत्रे → दसविधा समाधी पन्नत्ता । तं जहा (१) पाणातिवायवेरमणे, (२) मुसावायवेरमणे, (३) अदिन्नादाणवेरमणे, (४) मेहुणवेरमणे, (५) परिग्गहवेरमणे, (६) ईरियासमिती, (७) भासासमिती, (८) एसणासमिती, (९) आदाणभंडमत्तणिक्खेवणासमिती, (१०) उच्चार-पासवण-खेल-जल्ल-सिंघाणगपरिट्ठावणितासमिती (स्था. १०/ सू.७११) इत्येवं भावसमाधीनां दशधात्वमुपदर्शितं तदपीह समाधिविशेषात्मकावञ्चकयोगविमर्शविशेषावसरेऽनुसन्धेयं यथागमं यथावस्थितविषयविभागव्यवस्थापननिपुणैः ।
इदञ्चात्रावधेयम्- चक्रवर्तिपदवीलाभं प्रति मनुष्यत्वप्राप्तितुल्योऽमोघसद्बोधादिफलः सद्योगाऽवञ्चकाख्यः प्रथमः समाधिः, नवनिधिग्रहणसमोऽवन्ध्यसत्क्रियाफलः क्रियाऽवञ्चकाभिधानः द्वितीयः समाधिः, चक्रवर्तिपदाभिषेकसदृशोऽविसंवादिकुशलधर्मपरिणतिसिद्धिफलः फलाऽवञ्चकाभिधः तृतीयः समाधिः । अत्रार्थे →
एषेह योग्यता ज्ञेया धर्मराज्यप्रसिद्धये । चक्रवर्तिपदप्राप्तौ मानुषत्वाऽऽप्तिसन्निभा ।। अवन्ध्यधीफलो ह्येष द्वितीयोपासनार्जितः । निधिग्रहणतुल्यस्तु समाधिस्तद्वतां मतः ।। अधिमुक्त्यर्थकृत्संज्ञं निरवद्यगुणालयम् । नृपेन्द्रजन्माऽऽप्तिसममेनमन्ये विदुर्बुधाः ।। एतद्युक्तो महात्मेह सर्वथा शास्त्रचोदितम् । उत्तमं हितमाप्नोति सानुबन्धमसंशयम् ।। तिर्यक्सत्त्वो यथा योग्यश्चक्रवर्तिपदस्य न । अनीदृशस्तथा धर्मराज्यस्याऽपीति तद्विदः ।।
- (ब्र.सि.२०८-२१२) इति ब्रह्मसिद्धान्तसमुच्चयकारिकातात्पर्यमपि यथागममनुयोज्यं नानायोगस्वरूपगोचरपरामर्श-समवतारादिनिपुणैः । निश्चयनयापेक्षया अपुनर्बन्धकादीनां केषाञ्चिद् द्रव्यतः फलावञ्चकयोगः, चारित्रिणान्तु भावतः । सद्योगाऽवञ्चकयोगस्य काष्ठाप्राप्तौ क्रियाऽवञ्चकयोगः, तत्पराकाष्ठायाञ्च फलावञ्चकयोगसम्भव इति ध्येयम् ।।१९/३१ ।।
उपसंहरति- 'इत्थमिति । इत्थं = इच्छायोग-शास्त्रयोग-सामर्थ्ययोग-तात्त्विकातात्त्विक-साश्रवानाश्रव-सानुबन्धनिरनुबन्धेच्छादियमचतुष्टय-सद्योगावञ्चकादियोगत्रितयप्रकारेणोपवर्णितस्य योगविवेकस्य =
વિશેષાર્થ :- મહાપુરુષોના વંદન વગેરે કરવાનો નિયમ પાળવા માટે તેમની પાસે જતાં પોતાની યોગ્યતા મુજબ મહાપુરુષો પાસેથી જે ઉપદેશ સાંભળવા મળે તેમાંથી વર્ષોલ્લાસ – ભાવોલ્લાસ ઉછળવાથી જીવ આગળ વધે છે. ઉત્તરોત્તર નવી નવી આરાધના કરે છે. તેના પ્રભાવે નવા-નવા ગુણો અને આરાધકભાવો હૃદયમાં પ્રગટે છે. આ રીતે મોક્ષમાર્ગે આગળ વધતા જીવ પાસે ફલાવંચકયોગ હોય છે. (૧૯૩૧)
ગાથાર્થઃ- આ રીતે યોગના વિવેકની જાણકારીથી જેના કર્મો ક્ષીણ થયા છે તેવા સાધકો યથાશક્તિ યોગપ્રવૃત્તિ કરતાં પરમાનંદ પદને સંપ્રાપ્ત કરે છે. (૧૯૩૨) १. मुद्रितप्रतौ 'हीनकल्मष' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org