________________
• क्रियाऽवञ्चकयोगस्य नीचैर्गोत्रनाशकत्वविमर्शः .
१३१९ तेषामेवेति । तेषामेव = सतामेव प्रणामादिक्रियानियम' इत्यलं क्रियावञ्चकयोगः स्यात् । महापापक्षयस्य = नीचैर्गोत्रकर्मक्षयस्योदय = उत्पत्तिर्यस्मात् स (=महापापक्षयोदयः) तथा ।।३०।। 'तेषामेवेति । सतामेव = व्यावर्णितस्वरूपाणां महात्मनामेव प्रणामादिक्रियानियमः = निर्व्याजगुणबहुमानभवनिस्तारकामनादितो वन्दन-पूजन-भेषजादिदान-वैयावृत्त्यादिसत्क्रियाया अभिग्रह-दृढमनोरथ-प्रणिधानादिलक्षणोऽवश्यम्भावः । अयञ्चापुनर्बन्धक-सम्यग्दृष्ट्योर्द्रव्यतः देश-सर्वचारित्रवतश्च भावतोऽवसेयः । फलमुखेनैतं निरूपयति- नीचैर्गोत्रकर्मक्षयस्य उपलक्षणात् दुर्भगाऽनादेयाऽपयशःप्रभृतिकर्मक्षयस्य च उत्पत्तिः यस्मात् क्रियाऽवञ्चकयोगात् स तथा = नीचैर्गोत्रादिकर्मक्षयकृदित्यर्थः । सतां वन्दन-पूजन-सत्कारसन्मानादिनियमस्य नीचैर्गोत्रकर्मनाशकत्वमिति भावः । विनयप्रवणवाक्कायचित्ततयाऽस्योच्चैर्गोत्रस्य बन्धोऽप्यत्र द्रष्टव्यः । तदुक्तं तत्त्वार्थसूत्रे → परात्मनिन्दा-प्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य (त.सू. ६/२४) तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य (त.सू. ६/२५) इति ।।
बौद्धानामपि सम्मतमिदम् । तदुक्तं मज्झिमनिकाये क्षुद्रकर्मविभङ्गसूत्रे → एकच्चो इत्थी वा पुरिसो वा अत्थद्धो होति अनतिमानी, अभिवादेतब् अभिवादेति, पच्चुट्ठातब्बं पच्चुढेति, आसनारहस्स आसनं देति, मग्गारहस्स मग्गं देति, सक्कातब्बं सक्करोति, गरुकातब्बं गरुकरोति, मानेतब्बं मानेति, पूजेतब्बं पूजेति । सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति । नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति उच्चाकुलीनो होति । उच्चाकुलीनसंवत्तनिका एसा 6 (म.नि.३/४/५/२९५, पृ.२५४) इति यथागममत्रानुयोज्यं स्व-परतन्त्रमर्मज्ञैः।
यद्यपि नीचैर्गोत्रस्य कार्येन सत्ताक्षयः चतुर्दशगुणस्थानकोपान्त्यसमय एव भवति तदुदयविच्छेदस्तु पञ्चमगुणस्थानकान्ते भवति तद्बन्धविच्छेदश्च द्वितीयगुणस्थानकान्ते भवति तथाऽप्यनिकाचितपूर्वबद्धनीचैर्गोत्रकर्मस्थितिघातविशेष-रसघातविशेषलक्षणोऽध्यवसायविशेषोपहितः तत्क्षयोऽत्राभिप्रेतः। एतेनाऽचरमावर्तिजीवबद्धनीचैर्गोत्रस्य विपाकोदयतः क्षयेऽतिप्रसङ्गोऽपि परास्तः, भावतः क्रियाऽवञ्चकयोगशालिनो जीवस्य शुद्धिविशेषोपेतत्वादेव दुर्भगाऽनादेयाऽपयशःकर्मोदयोऽपि निवर्तत एव । इत्थञ्च सुभगादिरूपेण परावर्तितानि दुर्भगादिकर्माणि देश-सर्वविरतिमतामुदयमापद्यन्त इति कार्मग्रन्थिकमतमप्युपपद्यते । तदुक्तं देवेन्द्रसूरिभिः द्वितीयकर्मग्रन्थे → बियकसाया मणु-तिरिणुपुब्वि विउव्वऽ? ।। दुभग-अणाइज्जदुगसतरछेओ सगसीइ देसि । - (द्वि.क.नं.१५/१६) इति । पारमार्थिकक्रियाऽवञ्चकयोगशालित्वादेव पञ्चमगुणस्थानके मनुष्यस्य नीचैर्गोत्रकर्माऽप्युच्चैर्गोत्रतयोदयमायातीति प्रसिद्धं कर्मप्रकृतिविशारदानाम् ।
विषयतृष्णादिशून्यानां रत्नत्रयोपेतानां प्रशमसुखनिमग्नानां सतां वन्दन-पूजन-सत्कार-सन्मानादिक्रियाकरणनियमपालनप्रभावेन प्रशाम्यति विषयाऽऽकाङ्क्षा, तनूभवन्ति अस्य रागादयो भावरोगाः, प्रवर्धते स्वाभाविकस्वास्थ्यरूपं प्रशमसुखं, सञ्जायते सद्भावनया मनःप्रसादः, प्रकटयति धर्मरागं, प्रादुर्भवति
ટીકાર્થ :- જ મહાપુરુષોને પ્રણામ આદિ કરવાનો નિયમ એ અત્યંત બળવાન ક્રિયાઅવંચક યોગ બને. કારણ કે નીચ ગોત્ર વગેરે મહાપાપના ક્ષયની ઉત્પત્તિ તેનાથી થાય છે. (૧૯૩૦) १. हस्तादर्श ....दिक्रियादिनियम' इति पाठः ।
Jain Education
For Private & Personal Use Only
www.jainelibrary.org