SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ • इच्छादियमफलविचारः . १३१७ शक्तेः स्ववीर्योल्लासरूपाया योगेन (= अचिन्त्यशक्तियोगेन) चतुर्थो यम उच्यते ।।२८।। सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्याऽवञ्चक उच्यते ।।२९।। सद्भिरिति । सद्भिः = उत्तमैः कल्याणसम्पन्नः = विशिष्टपुण्यवद्भिः दर्शनादपि = अवलोकनादपि पावनैः = पवित्रैः तथा = तेन प्रकारेण गुणवत्तयेत्यर्थः दर्शनतो योगः = सम्बन्ध सत्क्षयोपशमोत्कर्षादतिचारादिचिन्तया । रहितं तु स्थिरं सिद्धिः परेषामर्थसाधकम् ।। 6 (अ.सा. १०/३१,३२) इत्येवमनुष्ठानचतुर्विधत्वमावेदितम् । अत्रायं मत्कृतः सङ्ग्रहश्लोकः → इच्छा तद्वत्कथाहर्षः प्रवृत्तिः शमसंयुता । स्थिरता दोषभीहानिः सिद्धिरन्यार्थसाधनम् ।। - प्रकृते च प्रणिधानस्येच्छायमे, प्रवृत्तेः प्रवृत्तियमे, विघ्नजयस्य स्थिरयमे ससिद्धिकविनियोगस्य सिद्धियमे समवतारो विभावनीयः समवतारवेदिभिः । श्रद्धा-मेधादिभावेन क्षयोपशमवैचित्र्याच्चित्रभेदानामेषां यथाक्रममनुकम्पा-निर्वेद-संवेग-प्रशमाः फलत्वेनावसेयाः । तदुक्तं अध्यात्मसारे → भेदा इमे विचित्राः स्युः क्षयोपशमभेदतः । श्रद्धा-प्रीत्यादियोगेन भव्यानां मार्गगामिनाम् ।। अनुकम्पा च निर्वेदः संवेगः प्रशमस्तथा । एतेषामनुभावाः स्युरिच्छादीनां यथाक्रमम् ।। - (अ.सा.१०/३३-३४) इति ।।१९/२८ ।। प्रागुक्तयोगप्रयोगाधिकारिविशेषणीभूताऽऽद्याऽवञ्चकयोगं योगदृष्टिसमुच्चय(यो.दृ.२१९)कारिकाद्वारा निरूपयति- ‘सद्भिरिति । कल्याणसम्पन्नः = निरुपमात्महितोपहितैः, तत एव प्रायशो विशिष्टपुण्यवद्भिः = पुण्यानुबन्धिपुण्यविशेषोदयशालिभिः अवलोकनादपि पवित्रैः = दर्शनिनां विशिष्टपुण्यबन्धादिनिमित्तभूतैः ‘इमे महागुणसम्पन्ना भवजलधिपोतभूता महात्मानो मयोपासनीया' इत्यादिरूपेण गुणवत्तया विपर्ययाऽभावेन दर्शनतः = विलोकनमाश्रित्य सम्बन्धः सद्योगाऽवञ्चक उच्यते । सद्भिः योगः = सद्योगः, तथादर्शनतश्चायं अवञ्चक उच्यते, अमोघीकरणात् । तदुक्तं हरिभद्रसूरिभिः પાસે રહેલા બીજા જીવોના વૈરભાવ વગેરેનો ત્યાગ કરાવીને સમીપવર્તી જીવો ઉપર ઉપકાર કરે તેવી तेमनी मासिाह यमप्रवृत्ति होय छे. ते सिद्धियम ४ाय छे. (१८/२८) ' વિશેષાર્થ :- અહિંસાની સિદ્ધિ થાય તો તેવા યોગી પુરુષના સાન્નિધ્યમાં રહેલા જીવોનો વૈરભાવ ખતમ થાય છે. આ બાબતની વિશેષ છણાવટ ગ્રંથકારશ્રી સ્વયં જ મિત્રા બત્રીસીમાં (દ્વા.તા. ૨૧ ૬) કરવાના છે. માટે અમે અહીં તે અંગે વિશેષ વિવેચન નથી કરતા. આમ ઈચ્છાયમ વગેરે ચાર યમની વાત કર્યા બાદ ગ્રંથકારશ્રી આગળના શ્લોકોમાં પૂર્વનિર્દિષ્ટ (ધા.ધા.૧૯૨૪) ત્રણ અવંચયોગનું नि३५९५ ४२२. (१८/२८) ૯ સદ્યગાવંચક યોગને નિહાળીએ છે ગાથાર્થ - કલ્યાણ સંપન્ન અને દર્શનથી પણ પાવન એવા ઉત્તમ પુરુષોનો તેવા પ્રકારે દર્શનથી યોગ થવો તે પ્રથમ અવંચકયોગ કહેવાય છે. (૧૯,ર૯) ટકાર્થ - વિશિષ્ટપુણ્યશાળી અને દર્શન માત્રથી પણ પાવન એવા ઉત્તમ પુરુષોનું ઉત્તમ ગુણવાન Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy