________________
१३१४
• संविग्नपाक्षिकस्य प्रवृत्तचक्रयोगित्वम् •
द्वात्रिंशिका-१९/२६
च या क्रिया । अनयोरन्तरं ज्ञेयं भानु- खद्योतयोरिव ।। " ( यो दृ. स. २२३ ) संविग्नपाक्षिकस्य प्रवृत्तचक्रत्वाऽनुरोधेन तु प्रवृत्तियम एवाऽयं तस्य शास्त्रयोगाऽनियतत्वादिति नयभेदेन भावनीयम् ।। २६ । पक्षपात-भावशून्यक्रिययोर्महदन्तरमित्यर्थः । भावशून्यद्रव्यक्रियातः क्रियानुपधायकोऽप्रधानेच्छायमो बलवान्, ततोऽपि क्रियोपहितप्रधानेच्छायमस्थानीयः तात्त्विकपक्षपातो बलाधिकः, ततोऽप्युपशमभावाऽविकलक्रियाऽनुविद्धः प्रवृत्तियमः प्रबलः, ततोऽपि वक्ष्यमाणस्थिरयमः, ततोऽपि च सिद्धियम इति । तथा इच्छायमस्य द्विविधस्येच्छायोगेऽन्तर्भावः, तन्नियतत्वात्तस्य । प्रवृत्ति-स्थिरयमयोः शास्त्रयोगे समवतारः, सिद्धियमस्य तु यथायोगं शास्त्रयोग-सामर्थ्ययोगयोरवतार इति व्यवस्थाऽत्रत्याऽवधेया मनीषिभिः ।
=
प्रकृते नयान्तराभिप्रायमाविष्करोति- संविग्नपाक्षिकस्य अविकल्पतथाकाराऽर्हस्य यथाशक्ति शुद्धदेशना-गुर्वादिविनय-सुसाधुसेवा- स्खलितगोचरप्रायश्चित्तादिपरायणस्य प्रवृत्तचक्रत्वानुरोधे = इच्छा-प्रवृत्तियमद्वयलाभशालित्वे सति स्थिर - सिद्धियमद्वयलिप्सुत्वाभ्युपगमे तु प्रवृत्तियम एव अयं कालादिविकलाSहिंसादिसमाचारः । अयमाशय:- सुसाधुकथा-सेवादौ संविग्नपाक्षिकस्याऽतिशयिता प्रीतिर्वर्तत एव तथा प्रतिपन्नस्वपर्यायानुकूल-यथोक्ताऽऽचारपालनमपि यथाशक्ति स करोत्येवेति तस्येच्छा-प्रवृत्तियमाश्रयत्वं शास्त्रसिद्धमेव । विधिकथनं विधिरागो विधिमार्गे स्थापनं विधीच्छूनां । अविधिनिषेधश्चेति प्रवचनभक्तिः प्रसिद्धा नः ।। ← (अ.सा. २० / ३२ ) इति अध्यात्मसारदर्शितदिशा तस्य स्थिर - सिद्धियमद्वयार्थिताऽपि भृशं विद्यत एवेति संविग्नपाक्षिकस्य प्रवृत्तचक्रयोगित्वमेव यथोक्तरीत्या तल्लक्षणसाम्राज्यात् । एतन्नयानुरोधेन संविग्नपाक्षिकस्य प्रवृत्तचक्रत्वाङ्गीकारे तदविनाभावी प्रवृत्तियमोऽपि विकलयोगत्वे - ऽप्ययत्नसिद्ध एव । ततो यथाशक्ति कालादिविकलाऽहिंसादियमपालनेऽपि प्रवृत्तियमत्वमनाविलमेव, तदीयविकलयमपालनस्य यथावस्थिततत्त्वज्ञानगर्भश्रद्धास्वरूपभावसम्यक्त्वादिबलप्रसूतप्रशमोपेतत्वात् । स्वभूमिकोचिताऽविकलसत्प्रवृत्तिविकलेच्छाया यद्वा तथाविधप्रशमशून्ययमेच्छाया एवेच्छायमत्वमेतन्नयेऽङ्गीकर्तव्यम् । न चैवं प्रवृत्तियमस्याऽतिचारान्वितत्वसम्भवात् शास्त्रयोगसमवतारत्वं व्याहन्येतेति वाच्यम्, एतन्नयमते तस्य = प्रवृत्तियमस्य शास्त्रयोगाऽनियतत्वात् = शास्त्रयोगसमव्याप्तिकत्वविरहात् । सर्वोऽपि शास्त्रयोगः प्रवृत्तियमः स्याद् एव । परं प्रवृत्तियमस्य शास्त्रयोगत्वे भजना । शमसंयुतस्य प्रवृत्तियमस्य कालाद्यविकलत्चदशायां शास्त्रयोगत्वं, अन्यथा तु न इति नयभेदेन भावनीयं सुधीभिः ।
પક્ષપાત અને ભાવશૂન્ય ક્રિયા- આ બન્ને વચ્ચેનું અંતર સૂર્ય અને આગીયા જેવું જાણવું.' જો સંવિગ્નપાક્ષિકને પ્રવૃત્તચક્રયોગી માનવામાં આવે તો તે અનુસારે વિકલ યમપાલન પણ પ્રવૃત્તિયમ જ છે. કારણ કે પ્રવૃત્તિયમ શાસ્રયોગનો વ્યાપ્ય નથી. આ રીતે નય ભેદથી વિચારણા કરવી. (૧૯/૨૬) विशेषार्थ :- अहिंसा, सत्य, अयौर्य, ब्रह्मयर्य अने अपरिग्रह- सा पांय यम छे. यमवाणा के સાધકો હોય તે યમી કહેવાય. તેમના પ્રત્યે ઈર્ષ્યા, નિંદાનો પરિણામ હોય તો ઇચ્છાયોગ ન હોય. તેમજ તેમની વાતને કે તેમના જીવનની કોઈ સુઘટનાને સાંભળતી વખતે ઉદાસીન ભાવ હોય તો પણ ઈચ્છાયમ ન સંભવે. યમી યોગી પુરુષોના જીવન ચરિત્ર સાંભળતા જેની રોમ-રાજી વિકસ્વર થાય અને તેમના જેવી સાધના - યમઆરાધના કરવાની ઝંખના પ્રગટે, તેવી ભાવનાને અમલમાં મૂકવા આંશિક પ્રયાસ
For Private & Personal Use Only
=
Jain Education International
www.jainelibrary.org