SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ १३१२ • योगदृष्टि-विंशिकाविरोधपरिहारः • द्वात्रिंशिका-१९/२६ इच्छायमो यमेष्विच्छा युता तद्वत्कथामुदा । स प्रवृत्तियमो यत्तत्पालनं शमसंयुतम् ।।२६।। इच्छेति । तद्वतां = यमवतां कथातो या मुत् = प्रीतिस्तया (=तद्वत्कथामुदा) युता = सहिता यमेष्विच्छा इच्छायम उच्यते। यत् तु तेषां यमानां पालनं (तत्पालन) शमसंयुतं = 'उपशमाऽन्वितं स प्रवृत्तियमः । तत्पालनं चाऽत्राऽविकलमभिप्रेतं, तेन न कालादिविकलतत्पालनलक्षणे यथोद्देशं निर्देश इति न्यायेनाऽधुनाऽऽद्ययमद्वितयं व्याख्यानयति- 'इच्छेति । यमवतां = अहिंसादियमशालिनां कथातः तदर्थबुभुत्सयाऽर्थावबोधेन वा जनिता या प्रीतिः हर्षलक्षणा तया सहिता यमेषु अहिंसादिषु तद्भावस्थिरत्वेनाऽविपरिणामिनी इच्छा निष्कपटं जायमाना हि इच्छायम उच्यते योगविशारदैः । तदुक्तं योगदृष्टिसमुच्चये → तद्वत्कथाप्रीतियुता तथाऽविपरिणामिनी । यमेष्विच्छाऽवसेयेह प्रथमो यम एव तु ।। - (यो.दृ.स. २१५) इति । यद्यपि → तज्जुत्तकहापीईइ संगया विपरिणामिणी < (यो.विं.५) इति योगविंशिकाया वृत्तौ प्रकृतग्रन्थकृता → विपरिणामिनी = विधि-कर्तृबहुमानादिगर्भ स्वोल्लासमात्राद् यत्किञ्चिदभ्यासादिरूपं विचित्रं परिणाममादधाना इच्छा भवति । द्रव्य-क्षेत्राद्यसामग्ग्रेणाऽङ्गसाकल्याऽभावेऽपि यथाविहितस्थानादियोगेच्छया यथाशक्ति क्रियमाणं स्थानादि इच्छारूपमित्यर्थः (यो.वि.५ वृत्ति.) इति व्याख्यातं तथापि नास्ति योगदृष्टिसमुच्चयेन साकं विरोधलेशोऽपि । तथाहि विपरीतपरिणामलक्षणं विगताऽनुष्ठानकरणपरिणामलक्षणं वा विपरिणामित्वं तादृशेच्छायां नास्ति, तद्भावस्थिरत्वादित्यभिप्रायेण श्रीहरिभद्रसूरिभिः योगदृष्टिसमुच्चये ‘अविपरिणामिनी'त्युक्तं विवृतञ्च । योगविंशिकावृत्तौ च प्रकृतग्रन्थकृता प्राथमिकाऽभ्यासलक्षणविशिष्टपरिणामात्मकं विपरिणामित्वं तादृशेच्छायामस्तीत्यभिप्रायेण 'विपरिणामिनी'ति पाठ आदृतो विवृतश्च । अन्वय-व्यतिरेकाभ्यामेक एवार्थ उभयत्र निरूपित इति न विरोधकर्दमाऽऽवर्तनिमज्जनं कार्यं मर्मज्ञैः। द्वितीयं यममाह- यमानां अहिंसादिलक्षणानां सामान्येन सर्वत्र सर्वावस्थायां उपशमान्वितं एव यथा स्यात्तथा पालनं स प्रवृत्तियम उच्यते । तदुक्तं योगदृष्टिसमुच्चये → सर्वत्र शमसारं तु यमपालनमेव यत् । प्रवृत्तिरिह विज्ञेया द्वितीयो यम एव तत् ।। (यो.दृ.स. २१६) इति । योगविंशिकायामपि → सव्वत्थुवसमसारं तप्पालणमो पवत्ती उ + (यो.विं.५) इत्युक्तम् । न चेच्छायमेऽपि यथाशक्ति अहिंसादिपालनसत्त्वादतिव्याप्तिः शङ्कनीया, यतः अत्र = प्रवृत्तियमलक्षणे तत्पालनं = अहिंसासत्याद्याचरणं अविकलं = तदङ्गसाकल्योपेतं अभिप्रेतं = विवक्षितम् । तेन कारणेन न = नैव कालादिविकलतत्पालनलक्षणे = अङ्गविकलाऽहिंसादिपालनात्मके इच्छायमे प्रवृत्तियमलक्षणस्य अतिव्याવિશેષાર્થ:- હવેની ગાથાઓમાં ક્રમશઃ ચતુર્વિધ યમ અને ત્રિવિધ યોગનું નિરૂપણ થશે.(૧૯૨૫) હ ઈચ્છાયમ-પ્રવૃત્તિયમ વિચારણા હ ગાથાર્થ :- યમવાળા સાધકોની કથામાં આનંદથી યુક્ત એવી યમવિષયક ઈચ્છા ઈચ્છાયમ છે. શમભાવસહિત જે યમપાલન કરવું તે પ્રવૃત્તિયમ છે. (૧૯૨૬) ટીકાર્ય - યમવાળા સાધકોની કથાથી જે પ્રીતિ થાય તે પ્રીતિથી યુક્ત એવી યમવિષયક ઈચ્છા થવી તે ઈચ્છાયમ કહેવાય છે. તથા ઉપશમભાવસહિત અહિંસાદિ યમોનું જે પાલન કરવું તે પ્રવૃત્તિમ १. हस्तादर्श 'उपशमाश्चितं' इत्यशुद्धः पाठः । २. मुद्रितप्रती '... लनक्षणे' इत्येवमशुद्धः पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy