SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ • वञ्चकयोगव्याख्या • १३११ तल्लाभवत्त्वात्' । एतेऽधिकारिणो योगप्रयोगस्य = अधिकृतयोगव्यापारस्य इति = एवं तद्विदो योगविदोऽभिदधति ||२४|| = यमाश्चतुर्विधा इच्छा-प्रवृत्ति स्थैर्य-सिद्धयः । योग-क्रिया-फलाख्यं च स्मर्यतेऽवञ्चकत्रयम् ।। २५ ।। यम इति । यमाश्चतुर्विधा इच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमाश्च ( = इच्छाप्रवृत्ति-स्थैर्य-सिद्धयः) । अवञ्चकत्रयं च योग-क्रिया - फलाख्यं श्रूयते ( = स्मर्यते) योगाऽवञ्चकः क्रियाऽवञ्चकः फलावञ्चकश्चेति ।। २५ ।। शालितया यद्वा शेषाऽवञ्चकद्वयोपधायकतावच्छेदकधर्मविशेषवत्तया तत्त्वतः नयसम्मतमुपधायककारण-कार्याऽभेदाऽऽश्रयणलक्षणपरमार्थमाश्रित्य तेषां तल्लाभवत्त्वात् = शेषावञ्चकयोगद्वयलाभवत्त्वात् । अवञ्चकयोगसाफल्यं कुलयोगिनामंशतः, प्रवृत्तचक्राणान्तु प्रायः कार्त्स्न्येनेति ध्येयम् । शिष्टं स्पष्टम् ।।१९ / २४ ।। प्रवृत्तचक्रलक्षणघटकतया निर्दिष्टान् यमान् योगप्रयोगाधिकारिविशेषणविधयोपदर्शितांश्चावञ्चकयोगानाह- ‘यमा' इति । 'चतुर्विधा' इति सङ्क्षेपोक्तिः । वस्तुतस्तु यमा अहिंसादयः पञ्च, अहिंसा-सत्याऽस्तेय-ब्रह्मचर्याऽपरिग्रहाः = यमाः ← ( यो. सू. २/३०) इति योगसूत्रवचनात् । तदुक्तं योगदृष्टिसमुच्चयेऽपि इहाऽहिंसादयः पञ्च सुप्रसिद्धा यमाः सताम् । अपरिग्रहपर्यन्ताः ← ( यो दृ.स. २१४ ) इति । ते च प्रत्येकं चतुर्विधा इति विंशतिविधास्ते यमास्साकल्येन लभ्यन्ते । निश्चयप्रापकव्यवहारकुलयोगि-प्रवृत्तचक्रयोगिनां = - = अवञ्चकत्रयमिति । मुक्तिद्वेषादिना प्रयुक्तः तत्सहचरितो वा यो योगो देहाध्यास- कामाध्यासनामाध्यासादिनिमज्जनद्वारा जीवं परमानन्दमयमोक्षाद् वञ्चयति स वञ्चकयोग उच्यते । तद्भिन्नस्त्ववञ्चकयोगः । तेषां त्रयम् । तत्स्वरूपञ्च वक्ष्यत्यग्रे ( द्वा. द्वा.१९/२९-३१,पृ.१३१७-१३२१) । प्रकृते रत्ननिधानसम्प्राप्तिसमोऽवञ्चक उच्यते ← ( ब्र.सि. ९० ) इति ब्रह्मसिद्धान्तसमुच्चयवचनमप्यवधेयम् ।।१९/२५।। કારણે પ્રસ્તુત યોગપ્રયોગના અધિકારી છે- એમ તેમના જાણકારો કહે છે. (૧૯/૨૪) વિશેષાર્થ :- સદ્યોગાવંચકયોગ વગેરેનું નિરૂપણ ક્રમશઃ ૨૯-૩૦-૩૧માં શ્લોકમાં કરવામાં આવશે. યોગાવંચયોગના કારણે ક્રિયાવંચક વગેરે યોગની પ્રાપ્તિ થાય છે. કુલયોગી અને પ્રવૃત્તચક્રયોગી પાસે અમોઘયોગ્યતા હોવાના કારણે ક્રિયાવંચક અને ફલાવંચક યોગ તેમની પાસે છે. આવી વિશિષ્ટ અવસ્થાના કારણે કુલયોગી અને પ્રવૃત્તચક્રયોગી યોગપ્રવૃત્તિના અધિકારી બને છે. કુલયોગી કે પ્રવૃત્તચક્રયોગી પાસે ક્રિયાવંચકયોગ અને ફલાવંચકયોગ હોય જ તેવો નિયમ નથી. પરંતુ કદાચ ન હોય તો પણ તેની પાસે વિશિષ્ટ યોગ્યતાના કારણે તે બન્ને હાજર જ છે खेम सम४. (१८/२४) गाथार्थ :- ऽय्छा - प्रवृत्ति-स्थैर्य सिद्धि खेम यार प्रहारे यम छे. तथा योग-डिया-इज नामवाणा ત્રણ અવંચકયોગ સંભળાય છે. (૧૯/૨૫) टीडार्थ ::- यम यार प्रहारना छे. छायम, प्रवृत्तियम, स्थैर्ययम जने सिद्धियम तथा अवंयम्योग ત્રણ પ્રકારના સંભળાય છે. યોગાવંચક, ક્રિયાવંચક અને ફલાવંચક યોગ- આ પ્રમાણે. (૧૯/૨૫) १. हस्तादर्शे ‘...लाभत्वात्' इति पाठः । मुद्रितप्रतौ च '...लाभवत्वात्' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy