SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ • उत्तमश्रुत-साक्षात्कारयोरधिकारी • द्वात्रिंशिका-१९/२४ आद्याऽवञ्चकयोगाऽऽप्त्या तदन्यद्वयलाभिनः । एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः ।। २४ ।। आद्येति । आद्याऽवञ्चकयोगस्य = योगाऽवञ्चकयोगस्य आप्त्या = प्राप्त्या हेतुभूतया (= आद्यावञ्चकयोगाप्त्या) तदन्यद्वयलाभिनः = क्रियावञ्चकफलावञ्चक-योगलाभवन्तस्तदवन्ध्यभव्यतया तत्त्वतस्तेषां व्यावर्तनमपोहः (५/५१), अथवा ज्ञानसामान्यमूहो ज्ञानविशेषोऽपोह: (५/५२), विज्ञानोहापोहानुगमविशुद्धमिदमित्थमेवेति निश्चयस्तत्त्वाभिनिवेशः ← (नी. वा. ५/५३) इत्युक्तं तदपि यथातन्त्रमिहानुयोज्यम् । शुश्रूषादिसमन्वितत्वादेवेनं शास्त्रविद्या संस्करोति । एतेन क्रिया हि द्रव्यं विनयति, नाऽद्रव्यम् । शुश्रूषा-श्रवण-ग्रहण-धारण-विज्ञानोहापोह तत्त्वाभिनिविष्टबुद्धिं विद्या विनयति, नेतरम् ← (कौ अर्थ. १/५/३ पृ.१०) इति कौटिलीयार्थशास्त्रवचनमपि व्याख्यातम्, विनयनस्य संस्काररूपस्येष्टत्वात् । शुश्रूषादिगुणोपेतत्वादेवाऽस्योत्तमश्रुताधिकारित्वं कपिलादीनामपि सम्मतम् । तदुक्तं कपिलेन स्वमातरं देवहूतिं प्रति श्रद्दधानाय भक्ताय विनीतायाऽनसूयवे । भूतेषु कृतमैत्राय शुश्रूषाऽभिरताय च ।। बहिर्जातविरागाय शान्तचित्ताय दीयताम् । निर्मत्सराय शुचये यस्याऽहं प्रेयसां प्रियः ।। ← ( कपिलदेवहूतिसंवाद-८/४१-४२) इत्यादि यथायोग्यमत्रोहनीयम् । यदपि सुगतेन मज्झिमनिकाये कीटागिरिसूत्रे सद्धाजातो उपसङ्कमति, उपसङ्कमंतो पयिरुपासति, पयिरुपासन्तो सोतं ओदहति, ओहितसोतो धम्मं सुणाति, सुत्वा धम्मं धारेति, धतानं धम्मानं अत्थं उपपरिक्खति, अत्थं उपपरिक्खतो धम्मा निज्झानं खमन्ति, धम्मनिज्झानक्खन्तिया सति छन्दो जायति, छन्दजातो उस्सहति उस्साहेत्वा तुलेति, तुलयित्वा पदहति, पेसितचित्तो समानो कायेन चेव परमसच्चं सच्छिकरोति, पञ्ञाय च नं अतिविज्झ पस्सति ← (म.नि. २/२/१०/१८३, पृ.१५५) इत्युक्तं तदपि यथागममत्रानुयोज्यमागममर्मज्ञैः । निज्झानं निदिध्यासनार्हधर्माणां निदिध्यासनं, छन्दः = भावनाप्रज्ञासाक्षात्करणाऽभिप्रायः, प्रदहति कुसंस्कारानिति शेषः, प्रेषितचित्तः निर्वाणं प्रतीति गम्यते, साक्षात्करोति, शिष्टं स्पष्टम् ।।१९ / २३ ।। सच्छिकरोति प्रकारान्तरेण योगप्रयोगाऽधिकारिणं योगदृष्टिसमुच्चय ( यो. दृ.स. २१३) कारिकाद्वारोपदर्शयति- 'आद्ये 'ति । योगाऽवञ्चकयोगस्य = सद्योगाऽवञ्चकाभिधानस्य योगस्य वक्ष्यमाणस्य ( द्वाद्वा. १९/२९ पृ.१३१७) प्राप्त्या हेतुभूतया = तदन्यद्वयकारणीभूतया क्रियाऽवञ्चक-फलाऽवञ्चकयोगलाभवन्तः = वक्ष्यमाणाS( द्वा.द्वा.१९/३०-३१ पृ. १३१८ - १३२१) न्त्याऽवञ्चकद्वयशालिनः । यद्यपि केवलयोगाऽवञ्चकयोगवति शेषाऽवञ्चकद्वयं स्वरूपतो नास्ति तथापि तदवन्ध्यभव्यतया = शेषाऽवञ्चकद्वयाऽमोघकारणीभूतयोग्यताક્રમશઃ આગળ બતાવવામાં આવશે. શુશ્રુષા વગેરે પ્રજ્ઞાગુણ સમજવા. આવા પ્રવૃત્તચક્રયોગીને ૨૦મી ગાથામાં બતાવી ગયા તે મુજબ યોગાધિકારી તરીકે જાણવા. કુલયોગી પણ યોગાધિકારી છે જ.(૧૯/૨૩) યોગપ્રયોગાધિકારીનું નિરૂપણ ગાથાર્થ :- પ્રથમ અવંચકયોગની પ્રાપ્તિથી અન્ય બે યોગના ભાવી લાભવાળા આ યોગીઓ યોગપ્રયોગના અધિકારી છે-એમ તેના જાણકારો કહે છે. (૧૯/૨૪) ટીકાર્થ :- યોગાવંચક યોગની પ્રાપ્તિના કારણે સાધક અવંધ્ય એવી યોગ્યતાને પ્રાપ્ત કરે છે. માટે અચૂક ભવિષ્યમાં તેને ક્રિયાવંચક અને ફલાવંચક યોગ મળવાનો છે. તેથી પરમાર્થદષ્ટિએ યોગાવંચકયોગવાળા જીવો ક્રિયાવંચક અને ફલાવંચક યોગવાળા જ જાણવા. કલયોગી અને પ્રવત્તચક્રયોગી આવા હોવાના Jain Education Interna For Private & Personal Use Only www.jainelibrary.org १३१० = =
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy