________________
• अष्टविधप्रज्ञागुणनिरूपणम्
सदुपायप्रवृत्त्या । शुश्रूषादयो गुणाः शुश्रूषा श्रवण-ग्रहण-धारण-विज्ञानोहापोहलक्षणास्तैरन्विताः युक्ताः (= शुश्रुषादिगुणान्विताः) ।। २३ ।।
द्धियमद्वयार्थिनः = वक्ष्यमाणलक्षणाऽन्त्यद्वययमाऽभिलाषिणः । शुश्रूषादयः गुणाः = प्रज्ञागुणाः तात्त्विकत्वेन जिज्ञासादिसम्भवा विज्ञेयाः । यथोक्तं ललितविस्तरायां सत्याञ्चास्यां (= विविदिषायां = जिज्ञासायां ) तत्त्वगोचराः शुश्रूषा - श्रवण- ग्रहण-धारणा-विज्ञानोहापोह - तत्त्वाभिनिवेशाः प्रज्ञागुणाः । प्रतिगुणमनन्तपापपरमाण्वपगमेनैते इति समयवृद्धाः । तदन्येभ्यः तत्त्वज्ञानाऽयोगात् । तदाभासतया, एतेषां भिन्नजातीयत्वात् । बाह्याऽऽकारसाम्येऽपि फलभेदोपपत्तेः । सम्भवन्ति तु वस्त्वन्तरोपायतया तद्विविदिषामन्तरेण, न पुनः स्वार्थसाधकत्वेन भावसाराः, अन्येषां प्रबोधविप्रकर्षेण प्रबलमोहनिद्रोपेतत्वात् ← (ल.वि. पृ.४७) इति । ततश्च शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ।। ऊहाऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः । ← ( अ.चिं. ३/३१०-३११, का.नी. सा. ४ । २१ ) इत्येवं अभिधानचिन्तामणी कामन्दकीयनीतिसारे चोक्तानां प्रज्ञागुणानां जिज्ञासामन्तरेणाऽतात्त्विकत्वमेव । न च विज्ञान - प्रज्ञयोरनर्थान्तरत्वात् तस्याऽष्टविधप्रज्ञागुणान्तर्भावः कथं सङ्गच्छते ? इति शङ्कनीयम्, तयोः कथञ्चिद्भेदाऽङ्गीकारात् । तत्त्वं हि विज्ञानेन परिज्ञायते प्रज्ञया च भाव्यत इत्यनयोर्विशेषात्, 'अकुशलधर्मप्रहाणाऽभिज्ञान'परिज्ञानानां प्रज्ञाधीनत्वाच्च । तदुक्तं मज्झिमनिकाये पञ्ञा भावेतब्बा, विञ्ञाणं परिञेयं, इदं तेसं नानाकरणं ति... पञ्ञ खो आवुसो ! अभिञ्ञत्था, परिञ्ञत्था, पहानत्था ति ← (म.नि. महावेदल्लसूत्र१ ।५ ।३ ।४४९,४५१/पृ. ३७१ ) इति । सर्वनयमये जिनप्रवचने नयविशेषाभिप्रायेण तन्मतस्याऽप्यन्तर्भावनीयत्वादिति यथागमं विभाव्यम् ।
•
१३०९
=
एतेन बुद्धिमान् शुश्रूषति, शृणोति, गृह्णीते, धारयति, विजानाति, ऊहतेऽपोहति तत्त्वञ्चाभिनिविशति ← (का.मी. अध्या. ४) इति काव्यमीमांसाकृतो राजशेखरस्य वचनमपि व्याख्यातमिति ।
→ सूस्सूसइ, पडिपुच्छइ, सुणेइ, गिण्हइ य इहए या वि । तत्तो अपोहए वा धारेइ करेइ वा सम्मं ।। ← (नं.सू.१२० ) इति नन्दिसूत्रवचनमप्युक्तरीत्या सङ्गतिमानेतव्यम् । एवमेव शुश्रूषां विना श्रवणमपि न पारमार्थिकमिति भावनीयमग्रेऽपि । वैराग्यकल्पलतायां शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। ऊहोऽपोहोऽर्थविज्ञानं तत्त्वव्यवसितिश्च ते ।। ← ( वै.क.ल. ८ । ३५६ ) इत्येवं सकलाः प्रज्ञागुणाः चारित्रावस्थायां दर्शिता इति ध्येयम् ।
यदपि सोमदेवसूरिभिः नीतिवाक्यामृते शुश्रूषा श्रवण- ग्रहण - धारणा विज्ञानोहापोह तत्त्वाभिनिवेशा बुद्धिगुणा: ( नी. वा. ५ / ४४), श्रोतुमिच्छा शुश्रूषा (५ / ४५), श्रवणमाकर्णनम् (५/४६), ग्रहणं = शास्त्रार्थोपादानं (५/४७), धारणमविस्मरणम् (५ / ४८), मोह - सन्देह - विपर्यासव्युदासेन ज्ञानं = विज्ञानं ( ५ / ४९), विज्ञातमर्थमवलम्ब्यान्येषु व्याप्त्या तथाविधिवितर्कणमूह: ( ५/५०), उक्तयुक्तिभ्यां विरुद्धादर्थात् प्रत्यवायसम्भावनया પ્રવૃત્તિ કરવા દ્વારા અત્યંત રીતે સ્થિરયમ અને સિદ્ધિયમને મેળવવાની ઈચ્છાવાળા હોય છે. તેમ જ शुश्रूषा, श्रवण, ग्रहण, धारा, विज्ञान, शहापोह स्व३प गुशोथी तेजो युक्त होय छे. (१८/२३) વિશેષાર્થ :- ઈચ્છા વગેરે ચાર યમનું નિરૂપણ આ જ દ્વાત્રિંશિકામાં ૨૫મી વગેરે ગાથાઓ દ્વારા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org