________________
१३०६
• योगिनां चातुर्विध्यम् • द्वात्रिंशिका-१९/२१ कुलेति । कुलयोगिनां प्रवृत्तचक्रयोगिनां च (=कुल-प्रवृत्तचक्राणां) शास्त्राद् = योगतन्त्रात् सा सा' विचित्रत्वेन प्रसिद्धा उपक्रिया योगसिद्धिरूपा भवति । तदुक्तं योगदृष्टिसमुच्चये "कुलप्रवृत्तचक्रा ये त एवाऽस्याऽधिकारिणः । योगिनो न तु सर्वेऽपि तथासिद्ध्यादिभावतः।।" (यो.दृ.२०९) तेषां कुलप्रवृत्तचक्रयोगिनां लक्षणं (=तल्लक्षणं) पुनरिदं वक्ष्यमाणं योगाचार्यैः = योगप्रतिपादकैः सूरिभिः विनिर्दिष्टम् ।।२०।। ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नाऽपरे ॥२१॥
य इति । ये योगिनां कुले जाता = लब्धजन्मानः तद्धर्मानुगताश्च = योगिधर्माऽनुसरणवन्तश्च ये = प्रकृत्याऽन्येऽपि, ते कुलयोगिन उच्यन्ते द्रव्यतो भावतश्च ।
तर्हि केषां योगतन्त्रमुपदिश्यते ? इत्याशङ्कायामाह- 'कुले'ति । गोत्रयोगि-कुलयोगि-प्रवृत्तचक्रयोगिनिष्पन्नयोगभेदेन चतुर्धा योगिनो भवन्ति । तेषां मध्यद्वयस्य योग्यत्वमाह- कुलयोगिनां प्रवृत्तचक्रयोगिनां च योगतन्त्रात् योगसिद्धिरूपा उपक्रिया । अत्र योगदृष्टिसमुच्चयसंवादमाह- 'कुले'ति । तद्वृत्तिस्त्वेवम् → कुल-प्रवृत्तचक्राः ये = कुलयोगिनः प्रवृत्तचक्राश्च य इत्यर्थः । एते (?ते) च अस्य = योगशास्त्रस्य अधिकारिणः = अर्हाः योगिनो, न तु सर्वेऽपि सामान्येन । कुतः ? इत्याह- तथा = तेन प्रकारेण असिद्ध्यादिभावतः = गोत्रयोगिनामसिद्धिभावात्, आदिशब्दात्तु निष्पन्नयोगिनान्तु सिद्धिभावादिति 6 (यो.दृ.स. २०९ वृत्तिः ) ।।१९/२०।।
योगदृष्टिसमुच्चय (यो.दृ.स.२१०) कारिकाद्वारेणैतद्विशेषलक्षणमाह- 'य' इति । योगिकुललब्धजन्मत्वे सति योगिधर्माऽनुसरणवत्त्वमिति प्रथमं कुलयोगिलक्षणमभिधाय आर्द्रकुमार-मेतार्यमुनि-हरिकेश्यादावव्याप्तिवारणाय द्वितीयं तल्लक्षणमाह- 'ये प्रकृत्याऽन्येऽपी'ति । ये अन्येऽपि = योगिकुलाऽजाता अपि प्रकृत्या = शुद्धसत्त्वशीलचित्तवृत्त्या योगिधर्मानुसरणवन्तः तेऽपि कुलयोगिन उच्यन्ते । प्रथमलक्षणाऽऽक्रान्ता द्रव्यतो भावतश्च कुलयोगिनः । द्वितीयलक्षणाऽऽक्रान्तास्तु केवलं भावतः कुलयोगिनः, न जन्मयोगिनः नापि नामयोगिनः किन्तु कर्मयोगिन इति यावत् । एतेन लक्षणाऽननुगमदोषोऽपि निरस्तः,
ટીકાર્ય :- કુલયોગીઓને અને પ્રવૃત્તચયોગીઓને યોગશાસ્ત્રથી યોગસિદ્ધિસ્વરૂપ તે તે વિવિધ પ્રસિદ્ધ ઉપકારો થાય છે. યોગદષ્ટિસમુચ્ચયમાં જણાવેલ છે કે “જે કુલયોગી અને પ્રવૃત્તચયોગી છે તે જ યોગના અધિકારી છે. પરંતુ બધા યોગી નહિ. કારણ કે આ સિવાયના જીવોને કાં યોગની સિદ્ધિ થઈ શકતી નથી અથવા યોગની સિદ્ધિ થઈ ગયેલી હોય છે.' કુલયોગી અને નિષ્પન્નયોગીનું લક્ષણ યોગપ્રતિપાદક मायार्यो 43 मा प्रभारी बतावेल. छ. (मागणी Quथाम त सक्ष! वाशे.)(१९/२०)
. इसयोगानुं क्ष * ગાથાર્થ :- જે યોગીઓના કુળમાં ઉત્પન્ન થયેલા હોય તથા યોગીધર્મને અનુસરનારા હોય તે કુલયોગી કહેવાય છે. યોગીનામવાળા હોવા છતાં પણ બીજા જીવો કુલયોગી કહેવાતા નથી.(૧૯૨૧)
ટીકાર્થ - જેઓએ યોગીઓના કુળમાં જન્મ મેળવેલો હોય તથા જે યોગીઓના ધર્મને અનુસરનારા હોય १. 'सा' इत्येकं पदं मुद्रितप्रतौ नास्ति । २. 'ते' इति पदं मुद्रितप्रतौ नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org