________________
• परमहंसस्य विधि - निषेधातिक्रान्तता •
१३०५
कुलप्रवृत्तचक्राणां शास्त्रात्तत्तदुपक्रिया । योगाचार्यैर्विनिर्दिष्टं तल्लक्षणमिदं पुनः ।। २० ।। परेषामपि सम्मतमिदम् । तदुक्तं नारदपञ्चरात्रे विदिते परतत्त्वे तु समस्तैर्नियमैरलम् । तालवृन्तेन किं कार्यं लब्धे मलयमारुते ।। ← (ना.पं. ९।१०।४० ) इति । पाशुपतब्रह्मोपनिषदि अपि न तस्य धर्मोऽधर्मश्च न निषेधो विधिर्न च । यदा ब्रह्मात्मकं सर्वं विभाति तत एव तु ।। ← (पाशु. उत्तरकाण्ड - २२ ) इति । प्रकृते आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते ← ( अव. १९) इति अवधूतोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । तदुक्तं जाबालदर्शनोपनिषदि अपि → ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किञ्चित्कर्तव्यमस्ति चेत् ? न स तत्त्ववित् ।। ← ( जा. द. १/२३ ) इत्युक्तम् । एतेन अन्तरात्मनि यः प्रीत आत्मारामोऽखिलप्रियः । आत्मतृप्तो नरो यः स्यात् तस्यार्थो नैव विद्यते ← (ग. गी . २/१७) इति गणेशगीतावचनमपि व्याख्यातम् । कुटीचरकबहूदकहंस-परमहंसभेदेन चतुर्विधा ये संन्यासिनः परेषामभिमताः तन्मध्यात् परमहंसस्य समाधिलीनतया निष्पन्नयोगेऽन्तर्भावः तल्लक्षणोपपत्तेः । तदुक्तं संन्यासगीतायाम् सर्वथाऽयं पूजनीयो मार्गं विधिनिषेधयोः । अतीतः परमो हंसः प्राप्नोति ब्रह्मरूपताम् ।। (सं.गी. ६ / ४० ) न विधिर्न निषेधो वा चतुर्थस्य विधीयते ← ( सं .गी. ६ / ४२ ) इति ।
एतेन समाधिलीनचित्तस्य कोऽनन्याधिपतेः प्रभोः । विधिरस्ति निषेधो वा ← ( रा.गी. ८/ ४८) इति रामगीतावचनमपि व्याख्यातम् । प्रकृते → न विधिर्न निषेधश्च न वर्ज्याऽवर्ज्यकल्पना । आत्मविज्ञानिनामस्ति तथा नान्यत् जनार्दन ! ।। ← (सू.सं.५ / ३७ ) इति सूतसंहितावचनं न विधिर्न निषेधश्च न वर्ज्याऽवर्ज्यकल्पना । ब्रह्मविज्ञानिनामस्ति तथा नान्यच्च नारद ! ।। ← ( ना . परि. ६/ १५) इति नारदपरिव्राजकोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् ।
=
बौद्धानामपि सम्मतमिदम् । तदुक्तं मज्झिमनिकाये अलगर्दोपमसूत्रेये ते भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता वट्टं ते नत्थि पञ्ञापनाय ← (म.नि. १ । ३ ।२।२४८ - पृ. १९६ ) इति । 'ये ते भिक्षवो लब्धार्हत्पदाः' क्षीणाश्रवाः पूर्णब्रह्मचर्यधर्मव्रताः, कृतकरणीयाः अपहृताऽविद्याभारा ः अनुप्राप्तसदर्थाः, परिक्षीणसंसारबन्धनाः, लब्धप्रज्ञा, विमुक्ताः, वृत्तं परिसमाप्तं तेषां नास्ति प्रज्ञापना, कर्तव्यस्य तैः कृतत्वादि'ति भावः । अत एव तेषां 'अप्रमादेनेदं कर्तव्यमित्यपि प्रज्ञापना नास्ति, प्रमादकरणाऽयोग्यत्वादेवेत्यपि गम्यम् । इदमेवाभिप्रेत्य मज्झिमनिकाये सुगतेन स्वयमेव कीटागिरिसूत्रे ये ते भिक्खवे ! भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञा विमुत्ता, तथारूपानाहं भिक्खवे ! न 'अप्पमादेन करणीयं 'ति वदामि । तं किस्स हेतु ? कतं तेसं अप्पमादेन । अभब्बा ते पमज्जितुं ← (म.नि. २।२ । १० । १८२ - पृ. १५३) इत्येवमुक्तमिति यथागममत्रानुयोज्यं समाकलितसर्वतन्त्ररहस्यार्थैः ।।१९ / १९ ।।
તેવા જીવો પણ યોગના અધિકારી બની શકતા નથી. ગોત્ર = નામ અથવા કુળ. નામમાત્રથી કે કુળમાત્રથી योगी, अमथी योगी नहि ते गोत्रयोगी उहेवाय. ( १७/१८)
* લયોગી અને પ્રવૃત્તચક્રયોગી યોગાધિકારી બને ♦
ગાથાર્થ :- કુલયોગી અને પ્રવૃત્તચક્ર યોગીને શાસ્ત્રથી તે તે ઉપકારો થાય છે. વળી, યોગાચાર્યોએ તેનું લક્ષણ આ પ્રમાણે જણાવેલ છે કે (આગળની ગાથામાં તે લક્ષણ કહેવામાં આવશે. (૧૯/૨૦)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org